________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे दिवादय आत्मनेपदिनः
६९३ जज्ञे ६ । जनिषीष्ट ७ । 'दीपैचि दीप्तौ' दीप्यते ४ । दीपजनबुधीति जिविकल्पे अदीपि अदीपिष्ट ५ । दिदीपे ६ । दीपिषीष्ट ७।
-* इत्यात्मनेपदिनः । *'न जन०' स्पष्टम् । अजनीति 'अजनि रजनिजानिर्मानिनि द्रावय द्राग् रुषमुषसि पुनस्ते सास्तु नायं क्षणोऽस्याः । विकच विविधसूनानूनसौगन्ध्यमुग्धे तुदति सुदति यूनः श्लेष्मदोषो वसन्ते ५ ॥ १॥ स्वकृतिः । सनि, जिजनिषति । यङि, 'ये नवा' (४।२।६२) इति वा आत्वे जाजायते जंजन्यते । त्यादौ तु न जादेशः जंजन्ति जंजनीति । 'आः खनिसनिजनः' (४।२।६०) इति नस्य आत्वे जंजातः । 'गमहन०' (४।२।४४) इत्यल्लुकि जंजति । जंज्ञन्तीति वाक्ये शतरि 'जाज्ञा०' (४।२।१०४ ) इति जादेशे, 'भश्चातः' (४।२।९६) इत्यालुकि जंजत् अत्यर्थं जायमान इत्यर्थः । 'कगेवनू०' (४।२।२५) इति ह्रस्वे, 'चल्या०' (३।३।१०८) इति फलवत्यपि परस्मैपदे १० जनयति (धर्मम् ) अजीजनत् । बिणम्परे वा दीर्घः । अजानि अजनि । जानं जानम् , जनं जनम् । जायमानम् जन्यमानम् जनिष्यमाणम् । जज्ञानः । ऐदित्त्वात् क्तयोर्नेट् । 'आः खनि०' इत्यात्वे जातः २ । पक्षे भावे ते जातं चैत्रेण । साप्यादपि 'श्लिषशीङ' (५॥१९) इति क्ते अनुजातः कनी चैत्रः, अनुजाता कनी चैत्रेण । विजाता वत्सं गौः विजातो वत्सो गवा, विजातं गवा । अकर्मका अपि हि सोपसर्गाः सकर्मका भवन्ति जनित्वा । वात्वे प्रजाय प्रजन्य । जनिता १५ जनितुम् जनितव्यम् । करणे घनि अभिजनः गोत्रम् । 'भव्यगेय.' (५।११७) इति निपातनाद्वा कर्तरि घ्यणि जन्यश्चैत्रः, पक्षे भावे जन्यं चैत्रेण । अचि जनः । 'वन्याङ् पञ्चमस्य' (४।२।६५) विजावा । अनोजनेर्डः वयनुजः । सप्तम्याः मन्दुरे जातः मन्दुरजः । 'अजातेः पञ्चम्याः (५॥१॥ १७०) सन्तोषजं सुखम् । क्वचिद् इति डे अनुजः प्रजाः पूर्वजः । 'भ्राज्यलङ्क०' (५।२।२८) इतीष्णौ प्रजनिष्णुः । क्तौ जातिः । अनटि जायतेऽस्यामपत्यमिति जननी । उणादौ दृकृनृ० (२७) २० इत्यके जनकः । स्थार्ति० (१०९) इति घे जङ्घा । नमितनि० (१३९) इति टे नो लुकि च जटा । जनिपणि० (१४०) इति टे दीर्घ च जाण्टः पक्षिविशेषः । ऋशिजनिपुणिकृतिभ्यः कित् (३६१) इति किति ये वा आत्वे जाया जन्यं रणः । जठरक्रकर० (४०३) इत्यरे निपातनात् जठरम् । पदिपठि० (६०७) इ. जनिः वधूः कुलाङ्गना भगिनी प्रादुर्भावश्च । कृवापाजि० (१) इत्युणि जानुः । जानीति निर्देशाद्वृद्धिः । मनिजनिभ्यां धतौ च (७२१) इत्युः जतु । कृसि० (७७३)२५ इति तुनि जन्तुः । हृषिपुषि० (७९७) इति णाविनुः जनयित्नुः । यजिशुन्धि० (८०१) इति युः जन्युः अपत्यं पिता प्रादुर्भावः वायुः प्रजापतिः प्राणी च । जनिहनि० (८०९) इति रौ तादेशे च जत्रु सन्धिरुरोंऽसमः मेघो घर्मावसानं च । कमिजनिभ्यां बूः (८४७) जम्बूः वृक्षविशेषः । मन् ( ९११ ) इति मनि जन्म । रुघर्ति० (९९७ ) इत्युसि जनुः जनुषी । इति नान्तात्रयो मनिवर्जाः सेटश्च । दीपैचि इति । सुगमम् । सनि दिदीपिषते । यङ्लुपि देदीप्ति देदीपीति । णौ ३० दीपयति । डे 'भ्रासभ्लास.' (३।४।७३) इति वा हस्खे अदीदिपत् अदिदीपत् । दीप्यमानः दीपिष्यमाणः दिदीपानः । ऐदित्त्वात् नेटि दीप्तः २। 'नाम्युपान्त्य०' (५।१२५४) इति के दीपः । 'स्म्यजस०' (५।२।७९) इति रे दीप्रः । 'इडित०' (५।२।४४) इत्यने, 'न णीडय०' (५।२। ४५) इति निषिद्धे तृनि दीपिता । क्तौ दीप्तिः। 'तपिंच ऐश्वर्ये वा' । 'तपं धूप सन्तापे' इत्यस्यैवैश्वर्ये अर्थे दिवादित्वमात्मनेपदित्वं च वा विधीयते । तप्यते । अतप्त तेपे तप्ता तप्तः । पक्षे ऐश्वर्येऽपि ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org