________________
६९२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
सिचः स्थानिवद्भावो नास्तीति सिज्लुकि आदेर्न चतुर्थः, कित्त्वं तु वर्णविधेरभावात् स्थानित्वम् तेनात्र न गुणः । एवमन्यत्रापि अभुत्सातां अभुत्सत । बुबुधे बोद्धा । ' ज्ञानेच्छा ० ' ( ५/२/९२ ) इति सति के राज्ञां बुद्ध: । 'चल्याहारार्थ ० ' ( ३ | ३ | १०८ ) इति फलवत्यपि परस्मैपदे बोधयति पद्मं रविः । बोधयति शिष्यं धर्मम् । 'नाम्युपान्त्यं ० ' ( ५।१।५४ ) इति के बुधः । 'अजाते: ०' ५ ( ५ | १ | १५४ ) इति णिनि प्रतिबोधशील: प्रतिबोधी । गम्यादित्वात् वर्त्स्यति साधुः । उणादौ ० (२६१ ) इति किति ने बुध्नो मूलं रुद्रश्च । युयुजि० (२७७ ) इति कित्याने बुधानः सूरिः । किलिपिलि० (६०८) इत्यौ बोधिः तत्त्वज्ञानम् । 'बुधृग् बोधने' बोधते बोधति अबुधत् । 'बुध अवगमने' बोधति । इति धान्तास्त्रयोऽनिटः । मनिं मन्यस्येत्यतिकुत्सने वा कर्मणि चतुर्थ्यां न त्वा तृणाय तृणं वा मन्यते अनुमन्यते अवमन्यते अवमंस्त मेने मंसीष्ट मन्ता मंस्यते मिमंसते १० मंमन्यते मंमनीति 'यमिरमि० ' ( ४/२/५५ ) इति नलुकि मंमतः मंमनति मानयति अमीमनत् मत्वा । 'ज्ञानेच्छा ० ' ( ५/२/९२ ) इति सति ते राज्ञां मतः । ' मन्याण्णिन ' ( ५|१|११६ ) 'क्यङ्मानि० ' ( ३।२।५० ) इति पुंस्त्वे दर्शनीयमानी भार्यायाः । 'कर्तुः खश्' ( ५|१|११७ ) पटुमात्मानं मन्यते पटुमन्यः । ' परतः स्त्री० ' ( ३।२।४९ ) इति पुंस्त्वापवादे खितीति स्वे पद्विंमन्या | पक्षे 'असरूपोऽपवादे० ' ( ५|१|१६ ) इति णिनि पटुमानी । 'समज० ' ( ५।३।९९ ) १५ इति क्यपि मन्या कृकाटिकासिरा । संज्ञायामन्यत्र स्त्रियां क्तौ मतिः । उणादौ कीचकपेचक ०
( ३३ ) इत्यके निपातनात् मेनका । मनेर्मत्मातौ च ( १०० ) इत्यङ्गे मतङ्ग ऋषिः हस्ती च । मातङ्ग हस्त्यन्त्यजातिश्च । शाशपिमनिकनिभ्यो दः (२३७) मन्दः । मनेरुदेतौ चास्य वा (६१२) इत्यौ मुनिः, मेनिः संकल्पः, मनिर्धूमवर्त्तिः । भृमृतृ० ( ७१६ ) इत्युः मनुः प्रजापतिः । मनिजनिभ्यां धतौ च ( ७२१ ) इत्युः मधु क्षौद्रं सीधु च । मधुः असुरश्चैत्रश्च मासः । कृसिकमि० २० (७७३ ) इति तुनि मन्तुः आगः । युजिशुन्धि ० ( ८०१ ) इति युः मन्युः । अस् ( ९५२ ) इत्यसि मनः । रुद्यर्त्ति ० ( ९९७ ) इति उसि मनुः प्रजापतिः । मांसमिति तु मातेर्मावावदि ० ( ५६४ ) इति से । मठर इत्यपि मठतेः ऋच्छिचटि० ( ३९७ ) इत्यरे । 'मनूयी बोधने' मनुते । 'मनिण् स्तम्भने' मानयते । अलि मान: । 'अनिच् प्राणने' अन्यते आनिष्ट 'अस्यादे०' (४।१।६८) इति पूर्वस्यात्वे आने अनितः । णान्तोऽयमित्येके अण्यते आणिष्ट आणे । 'अन श्वक् प्राणने ' अनिति 'द्वित्वेऽप्यन्तेऽप्य० ' ( २।३।८१ ) इति णत्वे प्राणिति । 'जनैचि प्रादुर्भावे' इति प्रादुर्भाव उत्पत्तिः ॥ ११ ॥ अत्र सूत्रम्
२५
जाज्ञाजनोत्यादौ ॥ १२ ॥ [ सि० ४।२।१०४ ]
ज्ञानोः शिति जा स्यान्नत्वनन्तरेऽत्यादौ । जायते ४ ॥ १२ ॥
1
'जाज्ञा ० ' शितीत्येव । क्ये 'ये नवा' ( ४|२|६२ ) किति ये परे आः वा स्यात् । इति वा ३० आत्वे ज्ञायते जन्यते । अत्यादाविति किम् ? जाज्ञाति जजन्ति ॥ १२ ॥ अद्यतन्यां ' दीपजन ' ( ३ | ४ | ६७ ) इति वा बिचि सूत्रम्
३३
न जनवधः ॥ १३ ॥ [ सि० ४|३| ५४ ]
अनयोः कृति णिति जौ च वृद्धिर्न स्यात् । अजनि - अजनिष्ट ५ । गमहनजनेत्युपान्त्यलु कि,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org