________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे दिवादय आत्मनेपदिनः ६९१ पत्सीष्ट ७ । पत्ता ८ । पत्स्यते ९ । अपत्स्यत १० । 'युधिच सम्प्रहारे । युध्यते । सिजाशिषोरत्र कित्त्वात् अयुद्ध ५ । युयुधे ६ । युत्सीष्ट ७ । योद्धा ८। योत्स्यते ९ । 'बुधिं मनिंच ज्ञाने । बुध्यते । अबुद्ध ४ । अबोधि ५ । बुबुधे ६ । भुत्सीष्ट ७ । बोद्धा ८ । भोत्स्यते ९ । 'जनैचि प्रादुर्भावे ॥११॥
"जिच्०' त लुक् चेति । निमित्तभूतस्य तकारस्य च लुक् । उदपादि भिक्षा, समपादि विद्या ।५ त इति किम् ? समपत्साताम् । पदेरात्मनेपदित्वात्त इति आत्मनेपदप्रथमत्रिकैकवचनं तकारो गृह्यते । न परस्मैपदमध्यमत्रिकबहुवचनम् । बकारो 'ब्णिति' (४।३।५०) इति विशेषणार्थः । चकारो 'न कर्मणा बिच्' (३।४।८८) इत्यत्र विशेषणार्थः । क्तयोः संपन्नः २ । यङि 'वञ्चलंस.' (४।११५०) इति पूर्वस्य नीः आपनीपद्यते । सनि 'रभलभ.' (४।१।२१) इति स्वरस्येति द्वित्वाभावे प्रपित्सते । 'लषपतपदः' (५।२।४१) इत्युकणि उपपादनशीलः उपपादुकः । 'भूषाक्रोध०१० (५।२।४२) इत्यने पदनो धर्मस्य । ‘पदरुज०' (५।३।१६) इति कर्तरि घनि पादः । 'समज०' (५।३।९९) इति क्यपि निपद्या । 'वर्षादयः क्लीबे' ( ५।३।२९) इत्यलि पदम् । 'कुत्सम्पदा०' (५।३।११४) इति किपि संपद् प्रतिपद् । 'विशपत०' (५।४।८१) इति णमि गेहानुप्रपादमास्ते गेहं गेहमनुप्रपादम् । 'जातेः संपदा च' (७।२।१३१) इति स्साति सर्वमग्निसात्सम्पद्यते । उणादौ अर्तीरि० (३३८) इति मे पद्मम् । भीवृधि० (३८७) इति रे पद्रः प्रामः । छविछिवि० (७०६) १५ इति वौ निपातनात् पदविः । ड्या पदवी मार्गः । प्लुज्ञा० (६४६) इति तौ पत्तिः । कसिपदि० (८३५) इति णिदूः पादूः । के (कपि) पादुका । 'पदणि गतौ' उपपादयते । 'विदिच सत्तायाम्' । सत्ता भावः । विद्यते । क्ये विद्यते । अवित्त अवित्साताम् विवेद । अनुस्वारेत्वान्नेट् वेत्ता वित्तः । 'किंकिलास्त्यर्थयोभविष्यन्ती' (५।४।१६) अस्ति नाम विद्यते नाम तत्र भवान् परदारान् प्रकरिष्यते । नावकल्पयामि न श्रद्दधे । 'शकधृष०' (५।४।१०) इति तुमि भोक्तुम् । 'विदक् ज्ञाने' २० वेत्ति । विदितः । 'विठूती लाभे विन्दते विन्दति वित्तः । वित्तं धनं प्रतीतं च । 'विदिप विचारणे' विन्ते । 'ऋहीघ्रा०' (४।२।७६) इति क्तयोस्तस्य नत्वे वित्तम् विनम् । 'विदिण् चेतनाख्याननिवासेषु वेदयते । 'खिदिंच दैन्ये' खिद्यते अखित्त चिखिदे खेत्ता खिन्नः । 'खिदत् परिघाते' खिन्दति । 'खिदिप दैन्ये' खिन्ते । इति दान्तात्रयोऽनिटश्च । 'यधिंच् सम्प्रहारे' इति सम्प्रहारो हननम् युध्यते अयुद्ध युयुधे युयुधिमहे युत्सीष्ट योद्धा योत्स्यते युयुत्सते योयुत्सते योयुध्यते योयोद्धि योयुधीति । २५ 'चल्याहारा०' ( ३।३।१०८) इति फलवत्यपि परस्मैपदे चैत्रः काष्ठं योधयति अयूयुधत् 'नाम्युपान्त्य०' (५।११५४) इति के युधः 'सहराज.' (५।१।१६७) इति कनिपि सहयुद्धवान् सहयुध्वा राजयुध्वा 'स्थादिभ्यः०' (५।३८२) आयुध्यन्तेऽनेनेति आयुधम् । 'शासूयुधि०' (५।३।१४१) इति खलपवादे ने दुर्योधनः सुयोधनः । आधारेऽनटि आयोधनम् 'अनो रुधिच कामे' काम इच्छा । अनुपूर्वो रुधिः कामे दिवादिः अनुरुध्यते । अन्वरुद्धः अनुरुरुधे अनुरोद्धा ३० अनुरुद्धः २ । 'समनुवि०' (५।२।६३) इति घिनणि अनुरोधशीलोऽनुरोधी, कामादन्यत्र रुधादित्वात् 'रुधां०' (३।४।९२) इति ने अनुरुणद्धि अनुरुन्धे । 'बुधिं मनिंच् ज्ञाने' बुध्यते 'दीपजन०' ( ३।४।६७ ) इति कर्त्तर्यद्यतन्यात्मनेपदे वा बिचि तलुकि च अबोधि । पक्षे 'धुड्हस्वा०' (४।३।७०) इति सिचो लुकि अबुद्ध । अत्र वर्णे सकारे परतो विधिरिति वर्णविधित्वेन ३४ १ अत्र वेत्तेर्विदितं वित्तर्विन्नं वित्तं च विद्यतेर्विन्नम्। वित्तं धने प्रतीते च विन्दतेर्विनमन्यत्र ॥ इति च हैमधातुपारायणे। सं०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org