________________
६९० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुयोक्ष्यमाणः युयुजानः । युक्तः युक्तवान् । 'गत्याकर्मक०' (५।१।११) इति कर्तरि ते 'कुशलायुक्ते०' (२।२।९७) इति वा सप्तम्यां आयुक्तो देवार्चायां देवार्चाया वा । योक्ता योक्तम् । 'कुप्यभिद्यः' (५।११३९) इति क्यपि निपातनात् योज्यतेऽनेनेति युग्यं वाहनम् । यणि योग्यमन्यत् ।
कर्मणोऽणि न्यङ्कादीति गत्वे गोयोगः । ध्यणि 'निप्राद्यजः०' (४।१।११६) इति गत्वाभावे नियोक्तुं ५शक्यं नियोज्यम् प्रयोज्यम् । 'नाम्युपान्य.' (५।११५४) इति के 'न्यङ्कद्ग०' (४।१।११२) इति गत्वे युगम् । किपि युज् इत्यत्र युनक्तर्ग्रहणान्नोन्ताभावे युक युजौ युजः अश्वयुक् । अस्यापि नोऽन्तः इत्यन्ये । युङ् युञ्जौ युञ्जः। 'युजभुज' (५।२।५०) इति घिनणि योगशीलो योगी । 'नीदांव०' (५।२।८८) इति करणे त्रटि योक्रम् । घनि योगः । 'करणाधारे' (५।३।१२९)
अनटि योजनम् । णौ 'णिवेत्त्या०' (५।३।१११) इत्यने योजना । 'क्रुत्संपदा०' (५।३।११४) १० इति क्विपि युजमापन्ना मुनयः । उणादौ युयुजि० (२७७) इति कित्याने युजानः सारथिः ।
तिजियुजेर्ग च ( ३४५) इति किति मे युग्मम् । 'युजूंपी योगे' । युनक्ति । 'युजण् संपर्चने । 'युजादेः' (३।४।१८) इति वा णिचि योजयति योजति । 'मृजिंच विसर्गे' सृज्यते मालां चैत्रः । उत्सृज्यते । उपविनिव्युत्संपूर्वोऽपि । कर्मकर्तर्येकधाताविति । क्ये, सृज्यते माला स्वयमेव । सिचो
लुक्यपि कित्त्वं प्रति स्थानित्वात् 'अः सृजिदृशोऽकिति' (४।४।१२१) इति न अत् । असृष्ट असू१५क्षाताम् अमृक्षत । ससृजे मृक्षीष्ट । स्रष्टा स्रक्ष्यते । अस्रक्ष्यत । सिसृक्षते सरीसृज्यते । सरि ३
सृजीति सरि ३ स्रष्टि । सृष्टः २ । 'पाणिसमवायाभ्यां' (५।१।१८) इति कापवादे घ्यणि पाणिसा समवसर्या रज्जुः। 'संवेः सृजः' (५।२।५७) इति घिनणि संसर्गशीलः संसर्गी विसर्गी । घबि निसर्गः। 'क्रुत्संपदा०' (५।३।११४ ) इति कर्मणि किपि 'ऋत्विग्दिश्' (२।१।६९) इति निर्देशाहतो रत्वे
स्रक् । 'वादिभ्यः' (५।३।९२) इति क्तौ सृष्टिः । उणादौ स्यन्दिसृजिभ्यां सिन्धरज्जौ च ( ७१७) २० इति रज्जुः । 'सृजत् विसर्गे' सृजति । इति जान्तौ द्वावनिटौ । 'वृतूचि वरणे' वृत्यते उदित्त्वात्
क्त्वि वेट् वृत्वा वर्तित्वा । वेट्त्वात् क्तयोर्नेट् वृत्तः वृत्तवान् । 'वृतूङ् वर्त्तने' इत्यस्यैव वरणे दिवादित्वं विधीयते । तेन वरणे 'द्युझ्योऽद्यतन्याम्' (३।३।४४) 'वृद्भ्यः स्यसनोः' ( ३।३।४५) इति वात्मनेपदं नास्ति । अवर्त्तिष्ट वर्तिष्यते अवतिष्यत । वरणादन्यत्र तु अवृतत् वय॑ति अवय॑दित्यपि भवति । अन्ये तु वा वृतूचि वरणे इत्यधीयते । दिवादित्वं वा प्रतिपन्नास्तन्मते वरणेऽपि पक्षे २५शवि वर्त्तते । 'द्ययः' इत्यद्यतन्यां अवर्त्तिष्ट । पक्षे शेषात्परस्मैपदे द्युताद्यङि अवृतत् 'वृद्भ्यः स्यसनोः'
( ३।३।४५) इति वात्मनेपदे वतिष्यते । पक्षे 'शेषात्परस्मै' (३।३।१०० ) इति परस्मैपदे 'न वृद्भ्यः' (४।४।५५) इतीनिषिधे वय॑ति । सनि विवतिष्यते । पक्षे 'प्राग्वत्' (३।३।७४) इति परस्मैपदे विवृत्सति । केचित्तु वाशब्दादिरनेकस्वरोऽयं धातुरित्याहुः । वावृत्यते । ततो वावृत्यमाना
सा। इति तान्त एकः सेट् । अथ कांश्चिद्धातून कण्ठतो निर्दिशति । ३० पदिच् गतौ । पद्यते ४ ।
पदिंच गतौ इति गतिर्यानं ज्ञानं च । पद्यते । 'नेमादा०' (२।३।७९) इति नेर्णत्वे प्रणिपद्यते । आप्रउत् संनिरुपपूर्वोऽप्येवम् । क्ये पद्यते । अद्यतन्यां सूत्रम्
मिच तेपदस्तलुक् च ॥ ११॥ [सि० १४६६] ३४ पद्यतेरद्यतन्यास्ते परे जिन् स्यात्त लुक् च । अपादि अपत्साताम् अपत्सत ५। पेदे ६।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org