________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे दिवाद्यन्तर्गतः खादिनवकः आत्मनेपदी ६८९ न्यायात् 'समानानां.' (१।२।१) इति दीपेऽपि इयादेशः । एवमीकारप्रश्लेषादीकारान्तस्यैव भवति । कृतात्वस्य तु वक्ष्यमाणलकारपकारौ भवतः । घृतं विलालयति विलापयति । स्नेहद्रव इति किम् ? अयो विला(य)यति । पूर्वान्तकरणायलीलिनदित्यत्रोपान्त्यहस्खो भवति । अन्यथा स्वाङ्गत्वाभावान्नस्य णे व्यवधायकत्वं स्यात् । 'लो ल' (४।२।१६) लातेर्ली इत्यस्य च कृतात्वस्य स्नेहद्रवेऽर्थे णौ परे लोऽन्तो वा भवति । घृतं विलालयति विलापयति वा स्नेहद्रव इत्येव जटाभिराला-५ पयते । ङ व्यलीलिनत व्यलीलयत् व्यलीलवत् व्यलीलपत् । लीयमानः लेष्यमाणः लास्यमानः लिल्यानः । लीनः २ । लीत्वा । 'लीङ्लीनोवो' (४।२।९) इति सूत्रे 'यबकृिति' (४।२।७) इत्यनुवृत्तेर्यपि विलीय विलायः । विलेतुं विलातुम् । विलेतव्यं विलातव्यम् । 'तन्व्यधी०' (५।१। ६४ ) इति णे विलायः । घबि विलापः । अखलचलीत्यनुवृत्तेश्च । ईषद्विलयः विलयो वर्त्तते । इत्यत्रात्वं न स्यात् । 'लीलिनोऽर्चाभिभवे चाचाकर्तर्यपि' (३।३।९० ) लीयतिलिना-१० तिभ्यां णिगन्ताभ्यामर्चाभिभवयोः प्रलम्भे चार्थे वर्तमानाभ्यां कर्त्तर्यात्मनेपदं भवति । अनयोश्वान्तस्याकर्तर्यप्याकारो भवति । जटाभिरालापयते परैः स्वं पूजयतीत्यर्थः । श्येनो वर्तिकामुल्लापयति (मपलायते ) अभिभवतीत्यर्थः । मायावी लोकमुल्लापयते वञ्चयतीत्यर्थः । एध्विति किम् ? बालमुल्लापयति उत्क्षिपतीत्यर्थः । 'लीक्लिनोवो' (४।२।९) इत्यत्रात्वम् । अकर्त्तर्यपीति किम् ? जटाभिरालाप्यते (जटिलेन) डिश्नानिर्देशो कृयादियौजादिकनिवृत्त्यर्थः । 'लीश् श्लेषणे' ।१५ लिनाति । 'लीण् द्रवीकरणे' 'युजादेर्नवा' (३।४।१८) इति वा णिचि विलालयति विलापयति ॥ 'डीच् गतौ' डीयते । क्ये डीयते । अडयिष्ट डिड्ये डयिता। 'डीयश्यैदितः क्तयोः' (४।४।६१) इति क्तयोर्नेट् । 'सूयत्यात्०' (४।२।७०) इति नत्वे च डीनः २ । अयमपि विहायसां गतावित्यन्ये । शेषं भ्वादिडीत् । 'नीच वरणे' । व्रीयते अब्रेष्ट 'संयोगात्' (२।११५२) इतीया. देशे वित्रिये । अनुस्वारेत्वान्नेट् तस्य नत्वे ब्रीणः २ । 'त्रीश वरणे' वीणाति । इति ईदन्ताः सप्त, २० डीङोऽन्ये षडनिटश्च --* वृत् स्वादिः - सूयत्यादिर्दिवाद्यन्तर्गणो नवको वर्तितः सम्पूर्ण इत्यर्थः ।
'
पीच पाने' । चैत्रो जलं पीयते । अपेष्ट पिप्ये पेता पेषीष्ट । पीतः २ । उणादौ पीपूडो ह्रस्वश्च (१२५) इति छे पिच्छम् । गुलुब्छपिलिपिच्छै० (१२६) इति निपातनात् पिन्छम् । पीविशिकुणि पृषिभ्यः कित् (१६३) इति ढे पीढम् । पीङः कित् ( ८२१) इति लौ पीलुर्गजवृक्षौ । 'माङ्च् माने' इत्यपि कश्चिद्धीते । मायते मितम् । क्ये 'ईय॑ञ्जन०' (४।३।९७ ) इतीत्वे मीयते १२५ 'नेमादा०' (२।३।७९) इति णत्वे प्रणिमायते । शित्त्वादन नेत्वम् । 'मांक माने' माति । 'माङ्क मानशब्दयोः' मिमीते । 'ईच गतौ' ईयते प्रतीयते उदीयते ऐष्ट । 'गुरुनाम्यादेः०' (३।४।४८) इति परोक्षाया आमि अयाश्चके । व्यपदेशिवद्भावाद्गुरुनाम्यादित्वं आमं नेच्छन्त्यन्ये तन्मते ईथे। एता । 'य एञ्चातः' (५।१।२८) इति ये उपेयम् । अलि प्रत्ययः । 'प्रीच् प्रीतौ' प्रीयते अप्रेष्ट पिप्रिये प्रेता प्रीतः । णौ नामिनो वृद्धौ प्राययति । 'नाम्युपान्त्य०' (५।१।५४) इति के प्रियः । ३० 'प्रींग्श् तृप्तिकान्त्योः ' प्रीणीते प्रीणाति । 'प्रीगण तर्पणे । 'युजादेः०' (३।४।१८) इति वा णिचि 'धूगप्रीग०' (४।२।१८) इति नोऽन्ते प्रीणयति पक्षे प्रयते प्रयति । इति ईदन्तास्त्रयोऽनिटः । 'युजिंच समाधौ' । समाधिश्चित्तवृत्तनिरोधः । युज्यते । विनिसमन्वभिप्रापर्वोऽपि । वियुज्यते । क्ये युज्यते । 'सिजाशिषावात्मने' (४।३।३५) इति कित्त्वे अयुक्त अयुक्षातां अयुक्षत । युयुजे ययुजिमहे । युक्षीष्ट । योक्ता योक्ष्यते । योयुजीति योयोक्ति । योजयति अयूयुजत् । युज्यमान: ३५
है. प्रका० उत्त० ८७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org