________________
६८८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुप्रसूनं कुसुमम् । अत एवायमप्राणिप्रसवे इत्यन्ये । सनि 'प्रहगुहश्च सनः' (४।४।५९) इति नेट 'णिस्तोरेवा०' (२॥३॥३७) इति नियमात् षत्वाभावे सुसूषते 'युवर्ण०' (५।३।२८) इत्यलि प्रसवः 'षडौक् प्राणिगर्भविमोचने' सूते । 'घुत् प्रेरणे' सुवते । 'दूच् परितापे' परितापः खेदः दूयते अदविष्ट दुदुवे दविता । किति उवर्णात्' (४।४५८) इति नेट् दूत्वा । सूयत्यादित्वात् क्तयो५स्तस्य नत्वे दूनः २ । उणादौ शीरी० (२०१) इति किति ते दूतः । इत्यूदन्तौ द्वौ सेटौ च । 'दीच क्षये' । अकर्मकोऽयम् । दीयते क्षयं गच्छतीत्यर्थः । 'यबकृिति' (४।२।७) दीडो यपि अकिति प्रत्यये विषयभूते आकार अन्तादेशो भवति । दारूपस्य बहिरङ्गत्वाद्दासंज्ञाया अभावे 'इश्च स्थादः' (४।३।४१) इति न इः। अद्यतन्यां उपादास्त उपादासाताम् उपादासत । विषयसप्तमीनिर्देशात्पूर्वमेवात्वे ईषदुपादानः उपादायो वर्त्तते इत्यत्राकारान्तलक्षणोऽनो घञ्च भवति । 'तन्व्यधी०' १० (५।१।३४) इति णे (तु) दायः । 'यबक्कुिती'ति किम् ? दीनः उपदीयते । सानुबन्धनिर्देशाद्यङ्
लुपि न, उपदेदेति । परोक्षायां 'दीय दीङः किति स्वरे' (४।३।९३) दीङः कृित्यशिति खरे दीयादेशो भवति । उपदिदीये उपदिदीयाते उपदिदीयिरे । उपदिदीयिध्वे उपदिदीयिट्वे । कानप्रत्यये उपदिदीयानः । दीडो डिस्करणं यङ्लुब्निवृत्त्यर्थम् उपदेधितः । कितीति किम् ? उपदानम् । स्वर
इति किम् उपदेदीयते । उपदाता उपदास्यते उपादास्यत । क्त्वो यपि उपादाय उपदातुम् उपदातव्यम् । १५ सर्वत्र 'यबकृिति' (४।२।७) इत्यात्वम् । 'दीङः सनि वा' (४।२।६) इति वात्वे दिदासते दिदीषते । 'नामिनोऽनिट' (४।३।३३) इति सनः कित्त्वादत्र न गुणः दीनः २ । अनुस्वारेत्वान्नेट सूयत्यादित्वात्तस्य नः । उणादौ जीण्शीदी० (२६१) इति किति ने दीनः कृपणः खिन्नश्च । 'धींच् अनादरे' । धीयते । अधेस्त दिध्ये घेता घेतुम् । धीनः २ । आधारार्थोऽयमित्यन्ये । शेषो
भुवं धीयते । 'मीच हिंसायाम्' मीयते अमेस्त मिम्ये । ङित्त्वात् 'मिग्मीगो' (४।२।८) इति २० नात्वम् मेता मेतुम् । अस्याप्यात्वमित्येके माता मातुम् । सनि 'मिमीमादामित्स्वरस्य' (४।१।२०) इति स्वरस्य इति द्वित्वाभावे च मित्सते । क्तयोस्तस्य नत्वे मीनः २ । जीणशी० (२६१) इति किति ने मीनो मत्स्यो राशिश्च । मीज्यजि० (४३९) इति सरे मेसरो वर्णविशेषः । चिनीपीम्यशिभ्यो रुः (८०६) मेरुर्देवाद्रिः । 'मींग्श् हिंसायाम्' मीनीते मीनाति । 'रीडूच् श्रवणे' ।
रीयते अरेस्त रिर्ये । रेता रेतुम् । तस्य नत्वे रीणः २ । णौ 'अतिरी०' (४।२।२१) इति पौ २५ 'पुस्पौ' (४।३।३) इति गुणे रेपयति । विचि रेः मतौ स्त्रियां रेवती । उणादौ रीशीभ्यां फः ( ३१४) रेफः । अजिस्था० (७६८) इति णौ रेणुः । सुरीभ्यां तस् (९७८) रेतः शुक्रम् । रीवृभ्यां पस् ( ९८१) रेपः पापम् । 'रीश् गतिरेषणयोः' । रिणाति । 'लीडूच् श्लेषणे' लीयते विलीयते निलीयते । क्ये लीयते । 'लीलिनोवो' (४।२।९) लीयतेर्लिनातेश्च यपि खल अच् अलू
वर्जितेऽकृिति च प्रत्यये विषयभूते आकारोन्तादेशो वा भवति । इत्यद्यतन्यां व्यलास्त व्यलेष्ट । ३० व्यलासातां व्यलेषाताम् । परोक्षायां विलिल्ये विलिल्याते विलिलियरे । आशिषि वात्वे विलासीष्ट विलेषीष्ट । श्वस्तन्यां विलाता विलेता । भविष्यन्त्यां विलास्यते विलेष्यते । क्रियातिपत्तौ व्यलास्यत व्यलेष्यत । यडि लेलीयते 'लीङ्लिनो.' इत्यत्र किन्निर्देशाद्यङ्लुपि आत्वं न । लेलयीति लेलेति लेलीतः लेलयति । णौ 'लियो नोऽन्तः लेहद्रवे' (४।२।१५) ली इति लींगालीडोः सामा
न्येन ग्रहणम् । उपलक्षणत्वाल्लीण इत्यस्यापि । लियः स्नेहद्रवेऽर्थे गम्यमाने णौ परे नोन्तोऽवयवो वा ३५भवति । घृतं विलीनयति पक्षे विलाययति णौ वृद्धावायादेशः लिय ई: ली 'उभयोः स्थाने' इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org