________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे दिवाद्यन्तर्गतः पुषादिः परस्मैपदी [ शमसप्तकाष्टके ] ६८७ २। णौ हर्षग्लपनयोर्घटादित्वात् इखे मदयति अन्यत्र प्रमादयति उन्मादयति । अनुपसर्गात् यममदगदोऽनुपसर्गात्' (५।१।३०) इति ये मद्यम्, सोपसर्गाद् ध्यणि प्रमाद्यम् । नन्द्याद्यने मदयतीति मदनः । 'इरंमद' (५।१११२७) इति खशि निपातनात् इरया मायति इरंमदः मेघज्योतिः । 'उदः पचिपतिपदिमदेः' (५।२।२९) इतीष्णौ उन्मादशील उन्मदिष्णुः । घिनणि मदनशीलो मादी प्रमादी उन्मादी । 'व्यधजप०' (५।३।४७) इत्यलि मदः। सोपसर्गातु पनि प्रमादः । संमदप्रमदौ५ हर्षे संमदः कन्यानाम्, प्रमदः कोकिलानाम् । उणादौ तुदिमदि० (१२४ ) इति छे मच्छो मत्स्यः । गौरादित्वात् ज्यां 'मत्स्यस्य यः' (२।४।८७) इति यलुकि मत्सी । मन्दिकन्दि० (४१२) इति रे मदिरा । मीज्यजि० (४३९) इति सरप्रत्यये मत्सरः । 'मदिण् तृप्तियोगें' मादयते । इति दान्तः सेट् । इति शमसप्तकं समाप्तम् । 'क्लमूच ग्लानौ' । 'भ्रासभ्लास.' (३।४।७३ ) इति वा श्ये 'ष्ठिवुक्लम्वा०' (४।२।११०) इति वा दीर्षे लाम्यति । पक्षे शवि लामति अचलमत् चक्लाम १० कुमिता । ऊदित्त्वात् क्त्वि वेट् छान्त्वा लमित्वा । क्तयोर्नेट क्लान्तः २ । घिनणि लमी । घनि क्लमः । शमष्टकं समाप्तम् । ॐ मुहौच इति वैचित्त्यमविवेकः । मुह्यति अमुहत् मुमोहेत्यादि स्पष्टम् । श्वस्तम्यादौ इड्विकल्पे विशेषस्तथा चाह इड्विकल्पे इत्यादि । क्विपि उन्मुक् उन्मुट् । वेदत्वात् क्तयोर्नेट मुग्धः मूढः । मुग्धवान् मूढवान् । णौ फलवत्कर्तरि 'ईगितः' ( ३।३।९५) इत्यात्मनेपदे 'अणिगि प्राणिकर्तृका०' (३३।१०७) इति परस्मैपदेनापोदिते 'परिमुहायमा०' (३।३।९४ ) हति पुन-१५ विहिते परिमोहयते शत्रुम् । 'परेर्देविमुहश्च' (५।२।६५) इति घिनणि परिमोही । घनि मोहः । उणादौ 'पूमुहोः पुन्मूरौ च' (८६) इति खे मूर्खः । मुहेः कित् (७०० ) इत्युरौ मुहुरिः गौः सूर्यश्च । मुहि मिथ्यादेः कित् (१०००) इत्युसि मुहुः कालावृत्तिः । दुहीच् इति । 'क्रुद्रुहे.' (२।२।२७) इति सम्प्रदानत्वे मैत्राय द्रुह्यति । अद्रुहत् दुद्रोह द्रोग्धा-द्रोढा-द्रोहिता । विपि मित्रधुक २ । मित्रध्रुट्-ड् । क्तयोर्नेट् दुग्धः द्रूढः । 'युजभुज०' (५।२।५०) इति घिनणि द्रोहशीलो द्रोही ।२० पनि द्रोहः । उणादौ ऋद्रुहः कित् (१९५) इतीणे द्रुहिणो ब्रह्मा । 'ष्णुहौच उद्गिरणे' 'पः स' (२।३।९८) इति सत्वे सुह्यति अनुहत् 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे सुष्णोह । स्नोग्धा-स्रोढा-सोहिता । सुग्धः खूढः । मुग्धवान् खूढवान् । उणादौ नाम्युपान्त्यकृ० (६०९) इति किदिः स्नुहिर्महावृक्षः । ष्णिहोच् इति नियति अलिहत् सिस्नेह स्निग्धः स्निग्धवान् स्त्रीढः स्नीढवान् । विपि सिक् लिट् । 'ऋत्विग्०' (२।११६९) इति हस्य गत्वे सूत्रनिर्देशादेव २५ उदो दलुकि सस्य षत्वे च उष्णिक् । 'अजादेः' (२।४।१६) इत्यापि उष्णिहा । घधि स्नेहः । 'णिहण स्नेहने' । स्नेहयति । केचित्तु शमू दमू तमू श्रमू भ्रमू क्षमौ मदै असू यसू जसू दसू वसू प्युष प्युस पुस प्लुषू विस कुस कुश वुस मुस मसै लुट उच भृश कश तृष रुष डिप ष्ट्रप कुप गुप युप रुप लुप ७ लुभ णभ तुभ लिदो निमिदा विश्विदा ऋधूगृधूनां ४३ पुष्यादित्वं नेच्छन्ति । तन्मते पुष्यायभावे सिचि अशमीत् अदमीत् अश्रमीत् अयसीत् अलोटीत् अप्लोषीत् अकोपीत ३० अलोपीत् अहर्षीत इत्यादि। (वृत्) पुषादिः ६७ दिवाद्यन्तर्गणो वर्तितः । सम्पूर्ण इत्यर्थः । इति परस्मैपदिनः इति स्पष्टम् ।
अथात्मनेपदिषु आदिशब्दसंगृहीतः सूयत्यादिर्नवको गणः क्तयोस्तस्य नत्वार्थ प्रदर्यते । 'पूडीच् प्राणिप्रस' सूयते असोष्ट असविष्ट औदित्त्वाद्वेट् सुषुवे सोता सविता । किति 'उवर्णात्' (४।४।५८) इति नेट् सूत्वा । 'सूयत्याथोदितः' (४।२७०) इति क्तयोस्तस्य नत्वे सूनः २ । ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org