________________
६८६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'नोऽप्रशान०' (१॥३।८) इत्यत्र प्रशानो वर्जनात् अनुस्वारानुनासिकपूर्वस्य शस्याभावे 'तवर्गस्य०' (१।३।६० ) इति नस्य बत्वे प्रशान् चरति । इदमेव शमसप्तकं छमूचु युक्तं शमष्टकम् । तत्र च 'शमष्टकात् घिन' (पा२।४९) 'मोऽकमियमि०' (४।३।५५) इति वृद्ध्यभावे शमशीलः
शमी । घबि शमः । गौरादित्वात् ज्यां शमी । उणादौ शमिमनिभ्यां खः (८४) शङ्खः । ५'कमितमि०' (१०७) इति डिदुङ्गे शुङ्गो ऋषिः, शुङ्गाः कन्दल्यः । पश्चमाहुः (१६८) शण्ड उत्सृष्टपशुः । शमिषणिभ्यां ढः (१७९) शण्डः षण्डः क्लीबम् । कैशीशमि० (७४९) इति को शङ्कः । शकृत् इति तु शक ऋत् (८९१) इति शकेति । दमू, दाम्यति अदमत् ददाम दमिता क्त्वि वेट दान्त्वा दमित्वा दान्तः २ । णौ 'अमोऽकम्यमि०' (४।२।२६) इति हस्खे फलवत्कर्तरि
'ईगितः' ( ३।३।९५) इत्यात्मनेपदे, अणिगि प्राणिति परस्मैपदेनापोदिते 'परिमुहाय.' ( ३।३।९४) १० इति पुनर्विहिते 'गतिबोध०' (२।२।५) इत्यणिकर्तुः कर्मत्वे च दाम्यत्यश्वः । दमयति अश्वं चैत्रः ।
"अकखाद्यषान्ते पाठे वा' (२।३।८०) कादिखादिषान्तान् धातून विनान्यस्मिन् धातौ परे अदुरुपसर्गान्तःस्थाद्रादेः परस्य नेो वा स्यात् । प्रणिदमयते प्रनिदमयते । 'शकितकि०' (५।१। २९) इति ये दम्यः । नन्द्याद्यने कुलदमनः । 'भृवृजि० (५।१।११२) इति खे अरिंदमः । 'णौ
शान्तदान्त०' (४४७४) इति क्ते वा निपातनात् दान्तः दमितः । 'शमष्टकाद् घिनणि दमशीलो १५दमी । घबि दमः । उणादौ पञ्चमाडः (१६८) दण्डः । दम्यमि० (२००) इति ते दन्तः ।
दमेरुनसूनसौ (९८७) दमुनाः दमूनाश्च वह्निः । यमिदमिभ्यां डोस् (१००५) दोः बाहुः । 'तमूच काढायाम् । ताम्यति अतमत् तताम तमिता । क्त्वि वेट तान्त्वा तमित्वा । तान्तः २ । घिनणि 'मोऽकमि० (४।३१५५) इति वृद्ध्यभावे तमी । घमि तमः । गौरादित्वात् ङ्यां तमी
रात्रिः । उणादौ 'चिजिशुसिमितम्यम्यर्देर्दीर्घश्च' (३९२) एभ्यो रो दीर्घश्चैषाम् । ताम्रम् । तप्यणि० २० (५६९) इत्यसे तमसोऽन्धकारः । तमसा नदी । 'क्रमितमिस्तम्भेरिञ्च नमेस्तु वा ( ६१३ ) एभ्यः किदिः प्रत्ययः इति इ प्रत्यये उपान्त्यस्येत्वे च तिमिः । अस् (९५२) इत्यसि तमः । 'श्रमूच खेदतपसोः' । श्राम्यति अश्रमत् शश्राम श्रमिता श्रान्वा श्रमित्वा । श्रान्तः २ । 'शकितकि.' (५।१।२९) इति ये श्रम्यम् । नन्द्याद्यने श्रमणः । स्त्रियामापि श्रमणा । धनि 'विश्रमेा' (४।३।
५६) इति वृद्धिविकल्पे विश्रमः विश्रामः । घिनणि श्रमी । 'भ्रमूच अनवस्थाने' । अनवस्थानं २५ देशान्तरगमनम् । 'भ्रासभ्लास.' ( ३६४७३) इति वा श्ये भ्राम्यति, पक्षे शवि बिभ्रमति
अभ्रमत् बभ्राम भ्रान्त्वा भ्रमित्वा भ्रान्तः २ । घिनणि भ्रमी । घनि 'मोऽकमि० (४।३।५५) इति वृद्ध्यभावे भ्रमः । गौरादित्वात् ज्यां भ्रमी । उणादौ तभ्रम्यदि० (६११) इति इ प्रत्यये भृमादेशे भृमिः वायुः । बाहुलकाद् भृमादेशाभावे भ्रमिः भ्रमः । भ्रमिगमि० (८४३ ) इति डिदूः
भ्रः । 'भ्रमू चलने' भ्रमति । 'भ्रासभ्लास.' (३।४।७३) इति वा श्ये भ्राम्यति । अस्य यङ्लुपि ३० न दीर्घः, शमादिगणनिर्देशात् श्यस्तु भवत्येव । 'भ्रासभ्लास.' इति प्रतिपदोक्तत्वात् , तेन बंभ्रम्यतीति भवति । 'क्षमौच सहने क्षाम्यति अक्षमत् चक्षाम । औवित्त्वात् इति 'धूगौदितः' (४।४। ३८) इति वेट क्षान्ता क्षमिता । क्तयोर्नेट क्षान्तः २ । घिनणि क्षमी । घनि 'मोऽकमि०' इति वृद्ध्यभावे क्षमः । तौ क्षान्तिः । ऊविदयमित्येके क्षान्त्वा क्षमित्वा । 'क्षमौषि सहने' क्षमते अक्षमिष्ट । षित्त्वादङि क्षमा । इति मान्ताः षट् सेटः । 'मदैच् हर्षे' माद्यति अमदत् ममाद मदिता ३५ ऐदित्वात् क्तयोर्नेट् 'रदादमूर्च्छमदः कयोदय च' (४।२।६९) इत्यत्र मदेवर्जनान्नत्वाभावे मत्तः
HV
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org