________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे दिवाद्यन्तर्गतः पुषादिः परस्मैपदी [ शमसप्तकाष्टके ] ६८५ जजास जसिता जस्त्वा, जसित्वा जस्तः । णौ हिंसार्थत्वाभावात् 'जासनाट०' (२।२।१४) इति कर्मणो वा न कर्मत्वम् तेन द्वितीयैव । चौरं बन्धनात् जासयति मोचयतीत्यर्थः । हिंसार्थोऽपीत्येके तन्मते वा कर्मत्वे शेषषष्ठयां चौरस्योज्जासयति चौरं वोजासयति । 'सम्यजस०' (५।२।७९) इति रे अजसनशीलं अजस्रं पचति अजस्रः पाकः । धात्वर्थविशेषणत्वाद्धात्वर्थकर्तृक एवायं प्रयोज्यः । तेनाजस्रो घट इति प्रयोगोऽसाधुः । 'जसण् हिंसायाम्' । चौरस्योज्जासयति । 'तसू दसूच उप-५ क्षये' तस्यति अतसत् ततास तसिता तस्त्वा तसित्वा तस्तः २ । 'तिकृतौ०' (५।१।७१ ) इति तिकि वितस्तिः 'दम्यमि०' (२००) इति ते वितस्ता नदी । प्लुज्ञा० (६४६) इति विपूर्वात्तसेस्तौ वितस्तिः । दस्यति अदसत् ददास दसिता दसित्वा दस्त्वा दस्तः २ । ण्यन्तस्य क्ते णौ दान्तशान्त०' (४।४७४ ) इति निपातनाहस्तः दासितः । उणादौ भीवृधि० (३८७) इति रे दस्रौ देववैद्यौ । यजिशुन्धि० (८०१) इति युः दस्युश्चौरः । 'वसूच स्तम्भे' । वस्यति । अवसत् १० वसिता वस्त्वा वसित्वा वस्तः २ । उणादौ दम्यमि० (२००) इति ते वस्तः छागः । प्लुज्ञा० (६४६) इति तौ वस्तिमूत्राशयः । 'वसं निवासे' वसति वस्ता 'वसिक आच्छाने' वस्ते । 'वसण स्नेहच्छेदावहरणेषु' वासयति । 'वुसच उत्सर्गे' । वुस्थति अवुसत् वुवोस वोसिता बुसितः 'नाम्युपान्त्य०' (५।११५४ ) इति के वुसम् । 'मुस खण्डने' मुस्थति अमुसत् मुमोस मोसिता मुसितः । उणादौ शीरी० (२०१) इति किति ते मुस्ता 'तृपिवपि० (४६८) इति कित्यले मुसलम् । षान्तोऽय-१५ मित्यन्ये । 'मसैच् परिणामे' परिणामो विकारः। परिमाण इत्यन्ये । मस्यति अमसत् ममास मसिता ऐदित्वात् क्तयोर्नेट मस्तः । घनि मासः। मासिति प्रकृत्यन्तरं चन्द्राभिधायि । पूर्णमासा युक्ता साऽस्य पौर्णमासीति निर्देशादणि पौर्णमासी । उणादौ दम्यमि० (२००) इति ते मस्तः । स्वार्थे के मस्तकः । पदिपठि० (६०७) इति इ. मसिः शस्त्री । कृसिकम्य० (७७३) इति तुनि मस्तु दधिमन्थः। अथ श्ये दीर्घार्थ शमादिसप्तकं निर्दिशति (पृष्ठ ६८३) शमू, दमूच इत्यादि ॥ ९ ॥ तत्र सूत्रम् २०
शमसप्तकस्य(श्ये) ॥ १०॥ [ सि० ४।२।१११] ___ इये दीर्घः स्यात् । शाम्यति ४ । अशमत् ५ । शमिता ७ । क्षाम्यति । औदित्वात् क्षमिता क्षन्ता । क्षमिष्यति-क्षस्यति । ज 'मुहौच वैचित्त्ये' मुह्यति । इड्विकल्पे मुहगुहस्नुहस्निहो वेति घत्वढत्वाभ्यां च मोढा-मोग्धा-मोहिता । मोक्ष्यति-मोहिष्यति । ८ 'दुहौच जिघांसायाम् । ध्रोक्ष्यति-द्रोहिष्यति । 'ष्णिहौच प्रीतौ । नेग्धा-स्नेढा-स्नेहिता ॥१०॥
२५ → इति परस्मैपदिनः । 'शम०' दीर्घः स्यादिति । अयं भावः । शमादीनां मदैच्पर्यन्तानां सप्तानां श्ये परे दी? भवति । यथा शाम्यतीत्यादि । शमसप्तकस्येति किम् ? अस्यति । श्य इति किम् ? भ्रमति । यङ्लुपि शंसन्ति । 'नेमादा० (२।३।७९) इति नेर्णत्वे प्रणिशाम्यति । अशमत् । शशाम शेमतुः । णौ 'शमोऽदर्शने' (४।२।२८) इति हस्खे शमयति रोगम् । दर्शने तु निशामयति रूपम् । शमिता ३० शमितुम् । ऊदित्त्वात् क्त्वि वेट् शान्त्वा शमित्वा । क्तयोर्नेट शान्तः २ । 'णौ दान्तशान्त.' (४।४।७४) इति निपातनात् शान्तः । पक्षे 'सेटक्तयोः' (४।३।८४) इति णेलुकि शमितः । 'शकितकि०' (५।१।२९) इति ये शम्यम् । विपि 'अहन्पश्चमस्य.' (४।१।१०७) इति दीर्घ 'मो नो०' (२।१।६७) इति नत्वे, तस्य च परेऽसत्त्वात् 'नाम्नो न०' (२।१।९१) इति लुगभावे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org