________________
६८४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुके तुषः । उणादौ तुषिकुठिभ्यां कित् (४०८) इत्यारे तुषारः । हृष, हृष्यति अहृषत् जहर्ष 'हृषेः केशलोमविस्मयप्रतीपाते' (४।४।७६) केशलोमकर्तृका क्रिया केशलोमशब्देनोच्यते । हृषेः केशादिध्वर्थेषु वर्तमानात्परयोः क्तयोरादिरिड्वा । हृष्टा हृषिताः केशाः । हृष्टं हृषितं केशैः । हृष्टानि हृषितानि लोमानि । हृष्टं हृषितं लोमभिः । हृष्टो हृषितश्चैत्रो विस्मित इत्यर्थः । हृष्टा हृषिता दन्ताः ५प्रतिहता इत्यर्थः । केशादिष्विति किम् ? हृष्टो मैत्र इत्यलीकार्थस्य ऊदित्वेन वेट्त्वात् 'वेटोऽपतः' (४।४।६२ ) इति नेट् । हृषितश्चैत्र इति तुष्ट्यर्थस्य नित्यमिट् । केशाद्यर्थाभावादिति । ऊदिदयमिति नन्दी। अलीकार्थोऽयमित्येके । उणादौ हृषिवृति० (४८५) इत्युले हर्षुलः कामी । 'हृषू अलीके' हर्षति । अस्यापि केशादिष्वर्थेषु क्तयोरिड्विकल्पः प्रागुक्त एव केशादिसूत्रे, हृषेः सामान्यतो ग्रहणात्
'रुषच रोपे । रुष्यति अरुषत् रुरोष । तादौ 'सहलुभेच्छरुषरिषस्तादेः' (४।४।४६) इति वेटि १० रोष्टा रोषिता । क्तयोः श्वसजपवमरुषत्वरसघुषावनामः' (४।४।७५) एभ्यः परयोः क्तयोरादिरिड्वेति रुष्टः रुषितः । शील्यादित्वात्सति क्ते रुष्टः । 'भूषाक्रोधा०' (५।२।४२) इत्यने रोषणशीलो रोषणः । 'क्रुत्संपदा०' (५।३।११४) इति विप् रुट । 'रुष हिंसायाम् रोषति' । 'प्युष प्युस पुसच् विभागे' प्युष्यति अप्युषत् पुप्योष प्योषिता प्युषितः । 'वौ व्यञ्जनादेः०' (४।३।२५) इति
क्त्वो वा कित्त्वे प्युषित्वा प्योषित्वा इति षान्ता नव । तत्र चत्वारोऽनिटः पञ्च सेटः । प्युस, १५प्युस्यति अप्युसत् पुप्योस प्योसिता प्युसित्वा प्योसित्वा । पुस पुस्थति अपुसत् पुपोस पोसिता
पुसित्वा पोसित्वा । उणादौ शीरी० (२०१) इति किति ते पुस्तं लेप्यादि कर्म । स्वार्थे के पुस्तकम् । "विसच् प्रेरणे' विस्यति अविसत् विवेस वेसिता 'नाम्युपान्त्य०' (५।११५४) इति के विसम् । उणादौ शीरी० (२०१) इति किति ते विस्तं परिमाणम् । 'कुसच् श्लेषे' कुस्यति अकुसत् चुकोस
कुसिता कुसितः। उणादौ कुशिपिशि० (२१२) इति कितीते कुसितः ऋषिः । तस्य भार्या पूतक्रत्विति २० ज्यामैदन्तादेशे च कुसितायी । उद्वटिकुल्यलि० (३५१) इति कुमे कुसुमम् । असूच इति ।
'उपसर्गादस्योहो पा' ( ३।३।२५) इति वात्मनेपदे निरस्यति निरस्यते । 'अकखाद्यपान्ते पाठे वा' (२।३।८०) इति वा नेर्णत्वे प्रण्यस्यति प्रन्यस्यति । प्रण्यस्यते प्रन्यस्यते । (पुष्याद्यडि श्वयतीत्यस्थादेशे) आस्थत् इति । आत्मनेपदे तु 'शास्त्यसूवक्तिख्यातेरङ् (३।४।६०) इत्यङि उदास्थत
उदास्थेताम् । परोक्षायां 'अस्याद०' (४।१।६८) इति पूर्वस्यात्वे आस आसतुः । ऊदित्त्वात् २५ क्त्वि वेट अस्त्वा असित्वा । क्तयोर्नेट् अस्तः अस्तवान् । 'ऋवर्ण०' (५।१।१७) इति ध्यणि
आस्यम् । 'कालेन तृष्य' (५।४।८२) इति णमि 'तृतीयोक्तं वा' (३।१।५०) इति समासे ब्यहात्यासम् व्यहमत्यासं गाः पाययति । उणादौ शिक्यास्या० (३६४ ) इति ये निपातनात् आस्यम् । वाश्यसि० (४२३) इत्युरे असुरः । 'पदिपठि०' (६०७) इति इ: असिः । वीसञ्जयसि०
(६६९) इति किति थिकि अस्थि । मस्यसि० (६९९) इत्युरौ असुरिः संग्रामः । भृमृत० ३०(७१६) इत्युः असवः प्राणाः । 'यसूच प्रयत्ने' । प्रयस्यति । आयस्यति । सम्पूर्वस्यानुपसर्गस्य
च, 'भ्रासभ्लास' (३।४।७३) इति वा श्ये संयस्यति यस्यति । पक्षे शवि संयसति यसति । अयसत् ययास । ऊदित्त्वात् क्त्वि वेट् यस्त्वा यसित्वा । क्तयोर्नेट् आयस्तः आयस्तवान् । णौ फलवत् कर्तरि ईगितः' (३।३।९५) इत्यात्मनेपदे 'अणिगि प्राणिकर्तृका०' (३।३।१०७) इति
परस्मैपदेनापोदिते 'परिमुहायमा०' (३।३।९४) इति पुनर्विहिते आयासयते शत्रु मैत्रः । 'प्राश्च ३५ यमयसः' (५।२।५२) इति घिनणि प्रयासशीलः प्रयासी । 'जसूचू मोक्षणे' । जस्यति अजसत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org