________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे दिवाद्यन्तर्गतः पुषादिः परस्मैपदी ६८३
श्लिषः॥ ९॥[सि० ३।४।५६ ] श्लिषोऽनिटोऽनद्यतन्यां सक् स्यात् । नित्वजीवाश्लेषे । आश्लिक्षत् । अजीवाश्लेषे तु आश्लिप्यजतु काष्ठम् ५। शिश्लेष ६ । श्लिष्यात् ७ । श्लेष्टा ८ । 'असूच क्षेपणे । अस्यति ४ । 'शास्त्यसू' इत्यङि, श्वयत्यसू इत्यास्थादेशे, आस्थत् ५। आस ६ । अस्यात् ७ । असिता ८॥ 'शमू दमू च् उपशमे २। 'तमूच काङ्क्षायाम् ३ । 'श्रमूच खेदतपसो' ४ । 'भ्रमूच५ अनवस्थाने ५। 'क्षमौच सहने ६ । 'मदैच् हर्षे ७। इति शमसप्तकम् ॥९॥ __ "श्लिषः' यथा आश्लिक्षत्कन्यां चैत्र:। 'क्रियाव्यतिहार०' (३।३।२३) इत्यात्मनेपदे 'हशिट' (३।४।५५) इति सकि व्यत्यश्लिक्षत कन्याम् । 'पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरानि'त्यङ एव बाधा न विचः आश्लेषि कन्या चैत्रेण । अनिट इति किम् ? 'श्लिषू दाहे' इत्यस्मात्सेटो मा भूत् । अश्लेक्षीत् अधाक्षीदित्यर्थः ॥ नित्वजीवाश्लेषे इति अत्रैवं सूत्रम् । 'नासत्त्वाश्लेषे (३।४।१० ५७) श्लिषो धातोरप्राण्याश्लेषे वर्तमानात्सक् प्रत्ययो न भवति । किन्तु पुष्यादित्वादळेव । यथा उपाश्लिषज्जतु च काष्ठं च । पृथग्योगात्पूर्वेणापि प्राप्तः प्रतिषिध्यते । नन्वनन्तरस्य विधिः प्रतिषेधो वेति न्यायादनन्तरस्य सकोऽब्बाधकत्वात्परस्मैपदविषयस्यैव सको निषेधः प्राप्नोति । न तु क्रियाव्यतिहारे कतर्यात्मनेपदे प्रवर्त्तमानस्य 'हशिट०' इति सक इत्याशङ्कायामुक्तमेवोत्तरं पँथग् योगादिति । यदि ह्यनन्तरस्यैव प्रतिषेधः स्यात्तदाश्लिषोऽसत्त्वाश्लेष इत्येकमेव योगं कुर्यात् । पृथग्योगा'चासत्त्वाश्लेषे'१५ 'हशिट.' इत्यस्यापि प्रतिषेधे सिजागमे व्यत्यश्लिक्षन्त काष्ठानि इति भवति । असत्त्वाश्लेष इति किम् ? व्यत्यश्लिक्षन्त मिथुनानि । 'हशिट.' (३।४५५) इति सकि रूपम् । अत्र प्राचः पूर्वस्मात्परो विधिः प्राग विधिरिति 'स्वरस्य परे प्राग्विधौ' (७४।११०) इत्यकारलोपस्य स्थानित्वात् 'अनतोऽन्तोऽदात्मने (४।२।११४) इत्यदादेशो न भवति । अनिट्त्वात् श्लेष्टा । 'गत्यर्थाकर्मक०' (५।१।११) इति कर्तरि क्ते श्लिष्टो मैत्रः । पक्षे भावे श्लिष्टं मैत्रेण । साप्यादपि 'श्लिषशी (५।१।९) इति वा २० कर्तरि क्ते आश्लिष्टो मैत्रः कन्याम् । पक्षे कर्मणि क्ते आश्लिष्टा कन्या मैत्रेण। लिहायचि श्लेषः । उणादौ भ्रूणतृण० (१८६) इति (णे) निपातनात् लक्ष्णः । मन् (९११) इति मनि श्लेष्मा । 'श्लिषू दाहे' श्लेषति अश्लेषीत् । 'श्लिषण् श्लेषणे । श्लेषयति । 'प्लुषूच दाहे'। प्लुष्यति अप्लुषत् पुप्लोष प्लोषिता । ऊदित्त्वात् क्त्वि वेट प्लुष्ट्वा । 'वौ व्यञ्जनादे:०' (४।३।२५) इति सेटो वा कित्त्वे प्लुषित्वा, प्लोषित्वा । तयोर्नेट प्लुष्टः प्लुष्टवान् । अनूदिदयमित्येके । उणादौ प्लुषेः प्लष् च २५ (५६६) इति से प्लक्षः । 'प्लुपू दाहे' प्लोषति । 'युष प्लुषश् स्नेहनसेचनपूरणेषु' । प्लुष्णाति । 'जितषच पिपासायाम्' । तृष्यति अतृषत् ततर्ष तर्षिता। बीत्त्वात् 'ज्ञानेच्छा.' ( ५।२।९२) इति सति क्ते तृषितः तृषितवान् ।'ऋतुषमृषकृशवश्चलुश्वथफा सेट्' (४।३।२४) न्युपान्त्ये इति विशेषणं थफान्तानाम् । नान्येषाम् , सम्भवव्यभिचाराभावात् । न्युपान्ये सति एभ्यो विहितः क्त्वा सेट् किद्वद्वा भवति । इति सेटः क्त्वो वा कित्त्वे तृषित्वा तर्षित्वा । 'तृषिधृषि०' (५।२।८०) ३० इति नजिङि तर्षणशीलस्तृष्णक् घवि तर्षः । क्रुत्सम्पदा०' (५।३।११४) इति किपि तृट् । भिदायकि तृषेत्येके । 'कालेन तृष्यः स्वः०' (५।४।८२) इति णमि, 'तृतीयोक्तं वा' (३।११५०) इति वा समासे व्यहतर्ष व्यहंतर्ष गाः पाययति । उणादौ घृवीला० (१८३) इति किति णे तृष्णा । मृगयेच्छा०' (५।३।१०१) इति निपातनाद्वा । 'तुषं, हृषच तुष्टौ' तुष्टिः प्रीतिः । तुष्यति अतुषत् तुतोष तोष्टा तुष्टा । शील्यादित्वात् सति क्ते तुष्टः तुष्टिः । 'नाम्युपान्य०' (५।१।५४) इति ३५
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org