________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
1
'नशो०' स्पष्टम् । 'नशः श:' ( २।३।७८) इत्यत्र शान्तस्येत्युक्तत्वात् षान्तस्य न णत्वम् प्रनङ्क्ष्यति । शान्तस्य तु स्यात् प्रणशिष्यति । जनशो न्युपान्त्ये तादिः क्त्वा' ( ४।३।२३ ) जकारान्ताद्धातोर्नशेश्च न्युपान्त्ये सति तादि क्त्वा किद्वा भवति । यथा रक्त्वा रङ्क्त्वा । भक्त्वा भवा । नष्ट्वा नंष्ट्वा | नीति किम् ? भुक्तवा । उपान्त्य इति किम् ? निक्त्वा । क्त्वेति किम् ? ५ भङ्क्ता । तादिरिति किम् ? वैकल्पिके इटि नशित्वा । तयोर्नेट् नष्टः नष्टवान् । शान्तत्वाभावे प्रनष्टः ।
६८२
fafe नशो वा गत्वे नश्यतीति नक् नग् । पक्षे 'यजसृज ० ' (२२११८७ ) इति षत्वे नट् नड् । फलवत्कर्त्तर्यपि 'चल्याहारार्थ ० ' ( ३।३।१०८ ) इति परस्मैपदे नाशयति । नन्द्याद्यने नाशयतीति नाशनः । 'निन्दहिंस० ' ( ५/२/६८ ) इति णके विनाशनशीलो विनाशकः । 'सृजीण् ० ' ( ५|२|७७ ) इति वरपि नश्वरः नश्वरी । 'कर्तुर्जीव ० ' ( ५।४।६९ ) इति णमि जीवनाशं नष्टः । उणादौ जिभृमृ० १० (४४७) इति त्रुटि वृद्धौ च नाष्टाः यातुधानाः । 'कुशच् श्लेषणे' । कुश्यति । अकुशत् । चुकोश । कोशिता । 'नाम्युपान्त्य ० ' ( ५।१।५४ ) इति के कुशः । 'भाजगोण०' ( २।४।३० ) इति ङयां कुशी आयसी चेत् । कुशान्या । धनि कोश: । गौरादित्वात् ङयां कोशी । उणादौ तृपिवपि० (४६८) इति कित्यले कुशलम् । कुशिकमिभ्यां कुल्कुमौ च (५०३ ) इति मलकि कुल्मलं छेदनम् । 'भृशु भ्रंशूच अधःपतने' । भृश्यति अभृशत् बभर्श भर्शिता । उदित्त्वात् क्त्वि वेट् भृष्ट्वा । क्त्वेति १५ कित्त्वाभावे भर्शित्वा । वेदत्वात् क्तयोर्नेट् भृष्टः भृष्टवान् 'नाम्युपान्त्य ० ' ( ५/१/५४ ) इति के भृशः । "भ्रंशूच् भ्रंश्यति अभ्रशत् बभ्रंश भ्रंशिता क्त्वि वेट् भ्रष्ट्वा भ्रशित्वा तयोर्नेट भ्रष्टः भ्रष्टवान् 'ववस्रंस ० ' ( ४।१।५० ) इति ध्वंसि सहचरितस्य भ्वादेरेव भ्रंशेर्यहणान्यभावे यङि बाभ्रश्यते । 'भ्रंशूङ् अवस्रंसने' भ्रंशते अभ्रंशिष्ट । बनीभ्रश्यते । क्विपि धनुपसर्गस्येति बाहुलकाद्दीर्घे वहाभ्रट् । 'वृशच् वरणें' वृश्यति । ववर्श पुष्याद्यङि अवृशत् । वर्शिता वृशितः । 'नाम्यु२० पान्त्य ० ' ( ५।१।५४ ) इति के वृशः । घनि वर्श: । 'कृशच् तनुत्वे' कृश्यति । अकृशत् । चकर्श । कर्शिता । 'नाम्युपान्त्य ० ' ( ५/१/५४ ) इति के कृशः । ' अनुपसर्गाः क्षीवोल्लाघकृशपरिकृशफुल्लोत्फुल्लसंफुल्ला:' ( ४।२।८० ) इति तयोर्निपातनात् कृशः कृशवान् । परिकृशः परिकृशवान् । सोपसर्गस्य तु प्रकृशितः । 'ऋत्तृषमृषकृशवञ्चलुञ्चथफः सेट्' ( ४ | ३ |२४ ) एभ्यः सेट् क्त्वा द्वित् वा स्यादिति वा कित्त्वे कृशित्वा कर्शित्वा । उणादौ कृशेरानुक् ( ७९४ ) २५ कृशानुः । इति शान्ताः षट् सेट: ६ । 'शुषंच् शोषणे' इति । शुष्यति अशुषत् शुशोष । अनुस्वारत्वान्नेट् शोष्टा शुष्ट्वा । 'क्षैशुषिपचोमकवम् ' ( ४ | २|७८ ) इति तयोस्तस्य कत्वे शुष्कः शुष्कवान् । 'ऊर्ध्वात् पूः शुषः' ( ५।४।७० ) इति णमि ऊर्ध्वशोषं शुष्कः । उणादौ विलिभिलि ( ३४० ) इति किति मे शुष्मं बलम् । शुषीषि० (४१६ ) इति कितीरे शुषिरम् । नाम्युपान्त्य० ( ६०९) इति किदिः शुषिः छिद्रम् । सात्मन्ना ० ( ९१६ ) इति निपातनात् शुष्मा ( बर्हिः शुष्मा ) 'दुषंच् ३० वैकृत्ये' । वैकृत्यं रूपभङ्गः । दुष्यति अदुषत् दुदोष दोष्टा दुष्टः णौ 'ऊदुषौ णौ' ( ४।२।४० ) इत्युपान्त्यस्य ऊत्वे दूषयति' 'चित्ते वा' ( ४|२|४१ ) चित्तकर्तृकस्य दुषेरूद्वा । चित्तं दूषयति दोषयति वा । चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् प्रज्ञां दूषयति दोषयति वा । नन्द्याद्यने दूषणः । उणादौ क्रीकल्य० (३८) इति इके दूषयतीति दूषिका नेत्रमलः । स्यमिकमि० ( ४६ ) इति ईके दूषयतीति दूषीका नेत्रमल एव । श्लिषंच् इति । श्लिष्यति ॥ ८ ॥ अद्यतन्यां पुष्याद्यङि ३५ प्राप्तेऽपवादसूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org