________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे दिवाद्यन्तर्गतः पुषादिः परस्मैपदी ६८१ क्रोधे' । कुप्यति । अकुपत् । कोपिता कोपितुम् । कुपितः । 'भूषाक्रोध०' (५।२।४२) इत्यने कोपनशीलः कोपनः । लिहाधचि कोपः। 'गुपच व्याकुलत्वे' । गुप्यति अगुपत् जुगोप गोपिता 'कुप्यभिद्यो' (५।१।३९) इति निपातनात् क्यपि कुप्यं सुवर्णरजताभ्यामन्यत् । 'गुपौ रक्षणे' गोपायति । 'गुपि गोपनकुत्सनयोः' जुगुप्सते । 'गुपण भासार्थः' गोपयति । 'युप रुप लुपच विमोहने' । युप्यति । रुप्यति । लुप्यति । अयुपत् । अरुपत् । अलुपत् । 'वौ व्यञ्जनादेः०' (४।३।५ २५) इति क्त्वासनोर्वा कित्त्वे युपित्वा योपित्वा । युयुपिषति युयोपिषति । एवं रुपलुपोरपि । घनि रोपः शरः । उणादौ शिक्यास्यात्य० (३६४) इति ये निपातनात् रुप्यतीति रूप्यं रजतम् । 'लुप्ल्ती छेदने' । लुम्पते लुम्पति । 'डिपच क्षेपे' । डिप्यति अडिपत् डिडेप डेपिता । 'शकितकि०' (५।१।२९) इति ये डेप्यम् । 'डिपत् क्षेपे' डिपति । 'डिपण् क्षेपे' डेपयति । 'ष्ट्रपच समुच्छाये' । 'पः स०' (२।३।९८) इति सत्वे स्तूप्यति । अस्तूपत् । 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे १० तुष्टुप । णौ सनि 'णिस्तोरेवा०' (२।३।३७) इति षत्वे तुष्ट्रपयिषति । स्तूपिता स्तूपितुम् । ष्ट्रपण समुच्छाये' । स्तूपयति । अलि स्तूपः । इति नव पान्ताः सेटः । 'लुभच् गार्खे' । गार्धमभिकाङ्क्षा । लुभ्यति अलुभत् लुलोभ । तादौ 'सहलुभेच्छरुषरिषस्तादे:' (४।४।४६) इति वेटि लोब्धा लोभिता । लोभिष्यति । क्तयोर्नेट् लुब्धः लुब्धवान् । 'लुभत् विमोहने' लुभति । लुभिताः केशाः । 'शुभचू संचलने' [संचलनं रूपान्यथात्वम् ] क्षुभ्यति अक्षुभत् । चुक्षोभ क्षोभिता क्षुभिता 'क्षुब्ध-१५ विरिब्धः' (४।४।७०) इति निपातनात् क्षुब्धा मन्थः । क्षुभितोऽन्यः । 'क्षुभि संचलने' क्षोभते । 'क्षुभश् संचलने' क्षुध्नाति । द्युतादिपठितेनैवाक्षुभदिति सिद्धम् , श्यविकरणार्थं तु दिवादाववश्यमयं पठितव्य इति पुष्यादावपि पठितः । 'णभ तुभच हिंसायाम् । 'पाठे.' (२।३।९७) इति नत्वे नभ्यति । णोपदेशत्वात् 'अदुरुपसर्ग०' (२।३७७) इति णत्वे प्रणभ्यति । अनभत् ननाभ नभिता । 'शकितकि०' (५।१।३९) इति ये नभ्यम् । तुभच तुभ्यति अतुभत् तुतोभ । 'णभि २० तुभि हिंसायाम्' नभते तुभते । 'णभ तुभश हिंसायाम्' नन्नाति । तुनाति । इति भान्ताश्चत्वारः सेटश्च । नशौच इति । अदर्शनमनुपलब्धिः ॥ ५ ॥ प्राद्युपसर्गयोगे सूत्रम्
नशः शः ॥ ६॥ [सि० २३७८] अदुरुपसर्गान्तस्थाद्रादेः परस्य शान्तस्य नशेर्णत्वं स्यात् । प्रणश्यति । शान्तस्येति किम् ? । प्रनष्ट इत्यादौ शस्य पत्वे न भवति ॥ ६॥ 'नशः.' स्पष्टम् ॥ ६ ॥ अद्यतन्यामङि सूत्रम्
नशेर्नेश् वाङि ॥७॥ [सि० ४।३।१०२] नशेरङि नेश् वा सात् । अनेशत्-अनशत् ५ । ननाश ६ । नश्यात् ७॥७॥ 'नशे०' औदित्त्वाद्वेट् ॥ ७ ॥ इडभावे सूत्रम् नशो धुटि ॥ ८॥[सि० ४।४।१०९]
३० नशः खरात्परो नोन्तः स्यात् धुडादौ । नेष्टा । पक्षे इटि नशिता ८ । नक्ष्यति-नशिष्यति ९।। 'श्लिषंच आलिङ्गने । श्लिष्यति ४ ॥८॥
है. प्रका० उत्त०८६
३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org