________________
६८०
महामहोपाध्याय श्रीविनय विजयगणिविरचिते खोपज्ञहैमलघु
अनिट्त्वात् श्रद्धा शुद्धः । 'क्रुधंच्' इति । 'क्रुदुदुहे ०' ( २।२।२७ ) इति क्रोधविषयस्य संप्रदानत्वे मैत्राय क्रुध्यति । क्रोद्धा । क्रुद्धः । 'भूषाको धार्थजुसृगृधिज्वलशुचश्चान:' ( ५।२।४२ ) इत्यने क्रोधनः । 'क्रुत्संपदा ०' ( ५|३|११४ ) इति क्विपि श्रुत् । 'षिधंच संराद्धौ' । संराद्धिर्निष्पत्तिः । 'षः स०' (२।३।९८) इति सत्वे सिद्ध्यति असिधत् । 'सिद्ध्यतेरज्ञाने' ( ४।२।११ ) इत्यात्वे अन्नं ५ साधयति दातुम् । ज्ञाने तु आचारः । कुलं सेधयति ज्ञापयतीत्यर्थः । सेद्धा सेम् । ऊदित्वात् क्त्वि वेट् सिद्धा सेधित्वा । 'षिधू गत्याम् ' ' षिधू शास्त्रमाङ्गल्ययोः' सेधति । 'ऋधूच् वृद्धौ' । ऋध्यति । समृध्यति । आर्धत् । अमाङेत्यधिकारात् स्वरादेरिति वृद्ध्यभावे माऋधत् । 'अनात ० ' ( ४।१।६९) इति पूर्वस्यात्वे ने च आनर्द्ध आनृधतुः । अर्द्धिता अर्द्धितुम् । सनि 'इवृध ० ' ( ४|४|४७ ) इति वेटि 'अयि र:' ( ४।१।६ ) इति रस्य द्वित्वाभावे 'स्वरादे० ' ( ४|१|४ ) इति द्वितीयांशस्य १० घेरेव द्वित्वे अर्द्दिधिषति । पक्षे इडभावे सादौ सनि 'ऋध ई' ( ४।१।१७ ) न च द्विः । ईर्त्सति । ऊदित्त्वात् क्त्वि वेट ऋद्धा अर्द्धित्वा । वेदत्वात् क्तयोर्नेट् ऋद्धः ऋद्धवान् । णौ अर्द्धयति । ङे आर्दिधत् ‘ऋदुपान्त्याद०' ( ५।१।४१ ) इति क्यपि ऋद्धम् । घञि अर्द्ध: । 'ऋधूट् वृद्धौ' समृध्नोति । 'गृधूच् अभिकाङ्क्षायाम्' । गृद्ध्यति । जगर्ध । यङ्लुपि सिचि गुणे 'सेः रुद्धां च रुर्वा' (४।३।७९ ) इति सेलुकि धस्य रुत्वे 'रो रे० ' (१।३।४१ ) इति रस्य लुकि अतो दीर्घे च अजघाः । दिवि ' यङ् - १५ तुरुस्तो:०' ( ४।३।६४ ) इतीति 'व्युक्तोपान्त्य ० ' ( ४।३।१४ ) इति गुणाभावे अजर्गृधीत् । गर्द्धितुम् । ऊदित्वात् क्त्वि वेट् गृद्धा गर्द्धित्वा । क्त्वे कित्वाभावाद्गुणः । वेदत्वात् क्तयोर्न गुणः । गृद्धः गृद्धवान् । णौ फलवत्कर्त्तर्यणिगि प्राणिकर्तृकेत्यफलवति तु 'शेषात् परस्मै' ( ३।३।१०० ) इति परस्मैपदे प्राप्ते 'प्रलम्भे गृधि० ' ( ३।३।८९ ) इत्यात्मनेपदे श्वानं गर्द्धयते । 'सिगृधि ०' (५।२।३२) इति नुः गृध्नुः । 'भूषाक्रोध ० ' ( ५।२।४२ ) इत्यने गर्द्धनः । घनि गर्द्धः । स्त्रियां क्तौ गृद्धिः । २० उणादौ ऋज्यजि० (३८८ ) इति किति रे गृध्रः । केचित्तु गृधिं चुरादिमभ्युपगम्य णिचि प्रलम्भेगृधि०' ( ३।३।८९ ) इत्यात्मनेपदमिच्छन्ति गर्द्धयते । 'रधौच् हिंसासंराद्ध्योः' । संराद्धिः पाकः । रध्यति । 'रध इटि तु परोक्षायामेव ' ( ४|४|१०१ ) रध्यतेः स्वरात्परः स्वरादौ नोऽन्तः स्यात् । यथा रन्धयति साधु रन्धकः । रन्धं रन्धं रन्धो वर्त्तते । ततश्चाद्यतन्यां पुष्यादङि, अनेन नागमे 'नो व्यञ्जनस्य ० ' ( ४।२।४५ ) इति नलुकि अरधत् । इटि तु परोक्षायामेवेत्येवकारस्य २५ परोक्षायामित्येवेति विपरीत नियमनिरासार्थत्वादिह नियमो न भवति । ररन्ध ररन्धतुः । संयोगान्तत्वात्परोक्षायाः कित्त्वाभावान्नलोपाभावः । 'स्क्रसृवृ० ' ( ४।४।८१ ) इतीटि ररन्धिव ररन्धिम । औदित्वात् वेट् । इटि तु परोक्षायामेवेति नियमान्नाभावे रधिता रधिष्यति अरधिष्यत् । पक्षे रद्धा रत्स्यति अरत्स्यत् । क्वसौ ' अनादेशादे० ' ( ४|१|२४ ) इत्येत्वे 'घसेकस्वरातः ० ' ( ४|४|८२ ) इतीटि, नागमे, कित्त्वान्नलुकि रेधिवान् । वेदत्वात् तयोर्नेट् रद्धः रद्धवान् । 'षिधूंच् संराद्धौ' ३० 'रधौच हिंसायां' चेत्यकृत्वाऽस्याऽत्र निर्देशः संराद्धिभेदज्ञापनार्थः । अत्र पाकस्तत्र निष्पत्तिरिति इति धान्ताः सप्त, तत्राद्यास्त्रयोऽनिटः, शेषाः सेट इति । 'तृपौच् प्रीतौ' इति । प्रीतिः सौहित्यम् । तृप्यति । अद्यतन्यां चातूरूप्यम् । श्वस्तन्य । दित्रये त्रैरूप्यं च । सर्वत्र क्तयोर्नेट् । तृप्तः तृप्तवान् । उणाद ऋज्यजि० (३८८) इति किति रे तृप्रं मेघान्तर्धर्म आज्यं काष्ठं पापं दुःखं च । 'तृपद प्रीणने ' तृप्नोति । 'हपौच् हर्षमोहनयों रिति । मोहनं गर्वः । तृपिवत् अद्यतन्यां चातूरूप्यम् । श्वस्तन्यादित्रये ३५ त्रैरूप्यं च ज्ञेयम् । [ उणादौ ऋज्यजि० ( ३८८ ) इति किति रे हनं बलम्, हमा बुद्धिः ] 'कुपचू
1
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only