________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे दिवाद्यन्तर्गतः पुषादिः परस्मैपदी ६७९ 'लुटण् भासार्थः' लोटयति । इति टान्तः सेट् १ । 'विदाच गात्रप्रक्षरणे' गात्रप्रक्षरणं धर्मस्रुतिः । 'षः स' (२।३१९८) इति सत्वे विद्यति । अखिदत् । षोपदेशत्वात् 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे सिष्वेद सिविदतुः । 'आदितः' (४।४७१) इति क्तयोर्नेट स्विन्नः खिन्नवान् । 'नवा भायारम्भे' (४।४।७२) इति वा नेटि स्विन्नमनेन प्रस्विदितुमारब्धः अस्विन्नः । पक्षे 'न डी शीपूधृषिक्ष्विदिखिदिमिदः' (४।३।२७) एभ्यः परौ सेदौ तक्तवतू न किद्वद्भवतः ।५ इति कित्त्वाभावात् स्वेदितमनेन प्रस्खेदितः । अनिट्त्वात् खेत्ता। खित्वा । अिष्विदाङ मोचने च । स्वेदते स्वेदिता । क्लिदौच इति । क्लियति । अक्लीदत् । औदित्त्वाद्वेट् सनि चिक्लित्सति । पक्षे इटि 'वौ व्यञ्जनादेः'० (४।३।२५) इति वा कित्रधे चिक्लिदिषति चिक्लेदिषति । क्लिदित्वा क्लेदित्वा । वेट्त्वात् क्तयोर्नेट क्लिन्नः क्लिन्नवान् । 'नाम्युपान्त्यः' (५।११५४) इति के निपातनात् चिक्लिदः । उणादौ भृमृतृ० (७१६) इत्युः छेदुः क्षेत्रं चन्द्रः भगः शरीरभङ्गः । वेदयतीति केदुः चन्द्रमाः इत्यन्ये १० ॥ ४ ॥ त्रिमिदाच् इति अत्र सूत्रम् ।
मिदः श्ये ॥ ५॥ [सि० ४३३५] मिदेरुपान्त्यस्य श्ये गुणः स्यात् । मेद्यति ४ । अमिदत् ५। 'क्षुधंच बुभुक्षायाम् । क्षुध्यति १० । 'शुधंच शौचे' । शुध्यति १० । 'क्रुधंच कोपे' । क्रुध्यति १० । 'तृपौच प्रीतौ' । तृप्यति ४ । स्पृशमशेति सिविकल्पे, स्पृशादिसृपो वेत्यद्विकल्पे त्रप इति जाते वृद्धौ १५ च अत्राप्सीत् । पक्षे अताप्र्सीत् । पक्षे औदित्त्वादिटि अतीत् । पक्षेडि अतृपत् ५ । ततर्प ६। तृप्यात् ७ । त्रप्ता-ता-तर्पिता ८ । त्रप्स्यति-तर्व्यति-तर्पिष्यति ९ । 'हपौच हर्षमोहनयो । दृप्यति १० । 'लुभच् गायें । लुभ्यति १० । 'शुभच संचलने । क्षुभ्यति १० । 'नशौच अदर्शने ॥५॥
'मिदः' स्पष्टम् । बीत्त्वात् 'ज्ञानेच्छा०' (५।२।९२) इति सति क्ते 'आदितः' (४।४७१)२० इति नेटि मिन्नः मिन्नवान् । 'न वा भावारम्भे' (४।४।७२) इति वा नेटि मिन्नमनेन प्रमिन्नः । पक्षे 'न डीङ्' (४।३।२७) इति कित्त्वाभावाद्गुणे मेदितमनेन मेदितः प्रमेदितः । लिहाद्यचि मेदः मेदाख्यो देशः । 'भञ्जिभासि०' (५।२।७४) इति घुरे मेदनशीलो मेदुरः । 'णिन्चावश्यक.' (५।४।३६) इति णिनि मेदिनी । उणादौ अस् (९५२) इत्यसि मेदः वपा । 'त्रिमिदाङ् स्नेहने' गुतादिः । मेदते अमेदिष्ट । 'मिदुण् स्नेहने' मिन्दयति । 'जिश्विदाच् मोचने च' । चकारात्२५ स्नेहने । श्विद्यति । अक्ष्विदत् । चिक्ष्वेद । श्वेदिता । आदित्त्वात् क्तयोर्नेट बीत्त्वात् 'ज्ञानेच्छा' ( ५।२।९२) इति सति क्तः क्ष्विण्णः क्ष्विण्णवान् । 'नवा भावारम्भे' (४।४।७२) इति वा नेट क्ष्विण्णमनेन प्रविण्णः । पक्षे 'न डीङ्' (४।३।२७) इति कित्त्वाभावाद्गुणे श्वेदितमनेन प्रक्ष्वे. दितः । 'मिश्विदा अव्यक्ते शब्दे वेदति । 'विश्विदाङ् मोचने च'। द्युतादिः । श्वेदते अक्ष्वेदिष्ट । इति दान्ताश्चत्वारोऽनिटः । 'क्षुधंच्' इति । अनिट्त्वात् क्षोद्धा । क्त्वाक्तेषु 'क्षुधवसस्तेषाम्'३० (४।४।४३) इतीटि 'क्षुधक्लिश०' (४।३।३१) इति कित्त्वे क्षुधित्वा । क्षुधितः क्षुधितवान् । ये तु क्षुधेः क्त्वः कित्त्वं नेच्छन्ति । तन्मते 'वौ व्यञ्जनादेः०' (४।३।२५) इति वा कित्त्वे क्षुधित्वा क्षोधित्वा । 'क्रुत्संपदा०' (५।३।११४) इति क्विपि क्षुत् । बाहुलकादुकणि क्षोधुकः । पिशिमिथिक्षुधिभ्यः कित् (२९०) इति कित्युने क्षुधुनः कीटः। 'शुधंच शौचे' इति । शौचं नैर्मल्यम् ।३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org