________________
६७८
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
( |२| ११२ ) इति दीर्घे ष्ठेवनं ष्ठीवनम् । क्षिवृच् क्षीव्यति चिक्षेव । क्ष्यूत्वा । क्षेवित्वा । यूतः क्ष्यूतवान् । 'ष्ठिवू क्षिवू निरसने' । ष्ठीवति क्षेवति । इति वान्ताश्चत्वारः सेटश्च । 'इषच् गतौ' । इष्यति । ऐषीत् । इयेष । एषिता । एषित्वा । ऊदिदयमित्यन्यः । तन्मते क्त्वि वेट् इवा एषित्वा । वेदत्वात् क्तयोर्नेट् इष्टः इष्टवान् । 'यद्वायुरन्विष्टमृगैः किरातैरासेव्यते' इति अन्विष्य प्रेषितः । ५ 'ऋवर्ण ०' (५।१।१७ ) इति व्यणि एष्यः । घनि एषः । ' प्रस्यैषैष्य ० ' ( १।२।१४ ) इत्यैत्वे प्रैषः प्रैष्यः । ' उपसर्गस्यानिण् ० ' (१।२।१९ ) इत्यलुकि प्रेषते । 'इषोऽनिच्छायाम् ' ( ५|३|११२ ) ster अन्वेषणा । ' पर्यधेव' (५|३ | ११३) पर्येषणा परीष्टिः । अध्येषणा अधीष्टिः । श्रवादिभ्यः' (५/३/९२ ) इति तौ इष्टिः । उणादौ इष्यशि० (७७) इति तककि इष्टका । मस्जीषि (८२६ ) इति कि इक्षुः । ' इषत् इच्छायाम्' इच्छति । 'इषश् आमीक्ष्ण्ये' इष्णाति । इति षान्तः सेट् । १० 'ष्णसूच् निरसने' | 'षः स० ' ( २|३|९८ ) इति सत्वे निमित्ताभावाण्णस्य नत्वे नस्यति अस्नासीत् अस्नसीत् । सस्नास । स्नसिता । ऊदित्त्वात् विश्व वेट् स्नसित्वा स्नस्त्वा । क्तयोनेंट् स्त्रस्तः स्नस्तवान् । षोपदेशत्वात् 'नाम्यन्तस्था ० ' (२|३ | १५ ) इति षत्वे सिष्णासयिषति । घटादिरयमित्येके । तन्मते णौ ह्रस्वे सिष्णसयिषति । 'ष्णुसः अदने ' इति द्रमिलाः । नुष्यति सुष्णोस । 'क्सूच् हृतिदीयो:' । हृतिः कौटिल्यम् । नस्यति । अक्नासीत् अनसीत् । चक्रास । क्रसिता । क्नसित्वा नस्त्वा । १५ कस्तः क्नस्तवान् । चिक्लिदचक्रसं ( ४|१|१४ ) विद्यतेः के नस्यतेरचि उभयत्र घञर्थे वाके द्वित्वं निपात्यते चिक्किदः चक्नसः । सैच् इति । परोक्षाथवि 'स्क्रसृवृ०' ( ४|४|८१ ) इति इटि प्रेसिथ तत्रसिथ । ऐदित्वात् तयोर्नेट् त्रस्तः त्रस्तवान् । 'सिगृधि ० ' ( ५।२।३२ ) इति कुः त्रसनशीलो त्रस्नुः । ‘असण् वरणे' त्रासयति । 'प्युसच् दाहे' । प्युस्यति । अध्योसीत् । पुष्यो । प्योसिता । प्युसितः । इति सान्ताश्चत्वारः सेटः । षह षुहचू शक्तौ । 'षः स० ' ( २१३१९८ ) इति सत्वे २० सह्यति । असाहीत् असहीत् । परिनिपूर्वस्य 'असोङ ० ' (२।३।४८ ) इति षत्वे परिषह्यति । ससाह । 'अनादेशादे०' ( ४।१।२४ ) इत्येत्वे सेहतुः सेहुः || एवं बुह सुह्यति । असोहीत् । सुषोह । सोहिता । सुहितः सुहितवान् । तृप्त्यर्थेति षष्ठीसमासप्रतिषेधात् फलानां सुहितः । तृप्तावयमित्येके । तितौ द्वौ सेट ।
I
*** अथ दिवाद्यन्तर्गणः पुषादिः परस्मैपद्येव * तत्रापि प्रसिद्ध्यनुरोधादादौ पुंषच् इति । २५ अकर्मकोऽयम् । पुष्यति । अपुषत् । पुपोष । अनित्वात् पोष्टा पुष्टः पुष्ट्वा । 'कुप्यभिद्योष्य ० ' ( ५।१।३९ ) इति निपातनात् क्यपि पुष्यन्त्यस्मिन्नर्था पुष्प: । 'स्वस्नेहना ० ' ( ५|४|६५ ) इति णमि स्वपोषं पुष्टः । एवं गोपोषं पुष्टः । 'पुष पुष्टौ' पोषति । 'पुषश् पुष्टौ' पुष्णाति । 'पुषण् धारणे' पोषयति । पुष्यादींश्च कांश्चिद्यथेष्टं कण्ठतो निर्दिशति कांश्विश्वादिशब्देन संग्रहीष्यति । तथा चाह इत्यादि । पुष्यादयः सप्तषष्टिरिति । ते च यथास्थानं ज्ञेयाः । अत्र व वर्णक्रमेणैव निरूप्यते । ३० 'उचच् समवाये' । समवायो ऐक्यम् । उच्यति । पुष्याद्यङि औचत् । परोक्षायां उवोच । उचिता उचितः उचित्वा । घनि न्यङ्कादित्वात् कत्वे ओकः । उणादौ क्रुशिपिशि० (२१२ ) इति कितीति उचितं स्वभावः योग्यं चिरानुयातं श्रेष्ठं च । उच्यश्चेः क च ( ९६५ ) इत्यसि ओक: ओकसी । द्यौरोको येषां ते पृषोदरादित्वाद्दिवौकसः । दिव्शब्दो वाकारान्तः । इति चान्तः सेट् १ । 'लुटच् ३४ विलोटने' । लुट्यति । अलुटत् । लुलोट । लोटिता । लुटितः । 'लुट विलोटने' लोटति अलोटीत् ।
1
1
Jain Education International
2
For Personal & Private Use Only
www.jainelibrary.org