________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे दिवादयः परस्मैपदिनः
६७५ छोंच छेदने' । 'षोंच् अन्तकर्मणि' । द्यतीत्यादि । 'नृतैच् नर्त्तने' । नृत्यति ४ । अनीत् ५ । ननत ६ । नृत्यात् । नर्त्तिता ८॥२॥
'ओत.' स्पष्टम् । अद्यतन्यां सिज्लोपविकल्पपक्षे 'यमिरमिनम्यातः सोन्तश्च' (४।४।८६) इति सोऽन्ते अशासीदिति । णौ 'पाशाच्छासावेव्याह्वो यः' (४।२।२०) इति ये निशाययति । शाता शातुम् । किति ते 'छाशोऽ' (४।४।१२) इति वेत्वे निशितः निशातः । निशितवान् निशातवान् ।५ शिस्वा शात्वा । शितिः शातिः । 'शो व्रते' (४।४।१३) संशितव्रतः साधुः । 'तन्व्यधी०' (५।१। ६४) इति णे शायः । स्त्रियां भाषाकोंरुपसर्गादित्यङि निशा । उणादौ शाशपि० (२३७) इति दे शादः पङ्कः । 'शामा०' (४६२) इति ले शाला । शः सन्वच (७४७) अस्मात् डित् उः सनीवास्मिन् द्वित्वं पूर्वस्येत्वं च शिशुर्बालः । एवं दो छोच् इत्यादि । धतीत्यादि प्राग्वत् । 'पिबैति०' (४।३।६६) इति सिज्लुपि अदात् । किति ते 'दोसोमा०' (४।४।११) इतीत्वे दितः दितवान् ।१० स्वरान्तोपसर्गपूर्वस्य तु 'स्वरात्' इति तत्वे अवत्तम् । 'दस्तिः' ( ३।२।८८) इति नामिनो दीर्घ परीस्तम् । क्ये 'ईव्यञ्जने' (४।३।९७ ) इतीत्वे दीयते । दाता दातुम् 'तन्व्यधी०' (५।१६६४) इति णे दायः । 'य एचातः' (५।१।२८) इति ये देयम् । दिनमिति (तु) दीव्यतेः दिननग्न० (२६८) इति निपातनात् । छोंच इति । अवच्छयति । 'धेघ्रा.' (४।३१६७ ) इति वा सिज्लुपि अच्छात् । अच्छासीत् । अवचच्छौ । किति ते 'छाशोऽ' (४।४।१२) इति वेत्वे छितः छातः छितवान् १५ छातवान् । छित्वा छात्वा । छाता छातुम् । 'पाशाच्छा०' (४।२।२०) इति ये छाययति । उणादौ गम्यमि० ( ९२) इति गे छागः । स्थाछामा० (३५७) इति ये छाया । छोर्डग्गादिर्वा (४७१) अस्मात् किदलः प्रत्ययो भवति । स च डगादिर्गादिश्च वा भवति । छगलः छागलः ऋषिः छलं वचनविघातोऽर्थविकल्पोपपत्त्या । षोंच् इति । अन्तकर्म विनाशः । 'षः स.' (२।३।९८) इति सत्वे अवस्यति । 'उपसर्गात्सुग्०' (२।३।३९) इति षत्वे 'नेमादा०' (२।३।७९) इति नेर्णत्वे २० प्रणिस्यति । अव्यवायेऽपि अभ्यष्यत् व्यष्यत् । षोपदेशत्वात् 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे सिषासति । 'धेघ्रा०' (४।३।६७) इति सिज्लुपि अवासात् अवासासीत् । अवससौ । क्ये 'ईय॑ञ्जन.' (४।३।९७) इतीत्वे अवसीयते । 'दोसोमास्थ०' (४।४।११) इतीत्वे अवसितः अवसितवान् । सित्वा । अवसायः व्यवसायः । कथमध्यवस्य व्यवस्य न्यवस्येति ? अत्र केचिस्पारायणिका ('ओतः इये' (४।२।१०३) इति योगं विभज्य यष्यपि लुकमिच्छन्ति । तदन्ये २५ न मन्यन्ते इति वाचकवार्तिकम् । अनुस्वारेत्वान्नेट साता सातुम् ) णौ 'पाशा०' (४।२।२०) इति ये अवसाययति । 'अवहसा०' (५।१।६३) इति णे अवसायः । 'सातिहेति०' (५।३।९४) इति क्तौ निपातनात् सातिः । अनटि अवसानम् । उणादौ स्थाछामा० (३५७) इति ये सायम् । सात्मन्ना० (९१६) इति मनि निपातनात् सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम् । सास्मनो भावः सात्म्यम् । इत्योदम्ताश्चत्वारोऽनिटः । अत्रोपलक्षणत्वात् ब्रीच लज्जायाम् । व्रीडयति । अवीडिष्ट । ३० वित्रीड । 'क्तेट ०' (५।३।१०६) इत्यः ब्रीडा । ऋफिडादिस्वाल्लत्वे श्रील्यति । ब्रीला । पुंभावे घनि ब्रीडः । इति डान्तः सेट् । नृतैच् इति नर्त्तनं नाट्यम् । अणोपदेशत्वात् 'अदुरुपसर्ग०' (२।३। ७७ ) इति णत्वाभावे प्रनृत्यति ॥ २ ॥ सकारादिप्रत्यये सूत्रम्
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org