________________
६७४
महामहोपाध्यायश्रीविनय विजयगणिविरचिते खोपज्ञहैमलघु
( ७०६ ) इति वौ दिव्यतेर्दीर्घे च दीविः कितवः कातरश्च । देवेर्द्वित्वं पूर्वं दीर्घ व वेति दिदिविः स्वर्गः, दीदिविः अन्नं स्वर्गश्च । किकीति कुर्वन् दीव्यति इति किकिदीविश्वाष: ( ७०६ ) । दिव ऋः ( ८५२) देवा देवरः पितृव्यस्त्री च । लूप्युवृषिदंशिद्युदिविप्रतिदिविभ्यः कित् ( ९०१ ) एभ्यः किदन्प्रत्ययो भवति इत्यनि दिवा दिनम् । दिवानौ । प्रतिपूर्वात् प्रतिदिवा अहः अपराध । ५ प्रतिदिवानौ प्रतिदीन्नः प्रतिदीन्ना । दिवेर्डिविति डिवि द्यौः दिवौ ( ९४९) चित्करणं दिवादिज्ञापनार्थम् । एवं सर्वत्र । नॄषू लृष इति । अद्यतन्यां 'ऋदिच्छ्वि ० ' ( ३।४।६५ ) इत्यङि 'ऋवर्णंदृशोऽङि' (४।३।७ ) इति गुणे अजरत् । पक्षे' 'सिचि परस्मै समानस्याङिति' ( ४ | ३ |४४ ) इति वृद्धौ अजारीत् | 'वृतो नवा ० ' ( ४।४।३५ ) इतीटो वा दीर्घे जरिता जरीता इत्यादि । अस्य दीर्घॠकारान्तत्वात् सनि 'इवृधभ्रस्जदम्भश्रियूर्णुभरज्ञपि सनितनिपतिवृद्दरिद्रः सन: ' ( ४।४।४७ ) इति वे १० 'वृतो नवा नाशी ० ' ( ४।४।३५ ) इति इटो वा दीर्घे च त्रैरूप्यम् । जिजरिषति जिजरीषति जिजीर्षति । 'इसिजा शिषोरात्मने' ( ४ | ४ | ३६ ) वृतः परयोरात्मनेपदविषययोः सिजाशिषोरादिरिङ्खा भवति । इति वेट इटो दीर्घविकल्पे च अजरिष्ट अजरीष्ट । पक्षे 'ऋवर्णात् ' ( ४ | ३ | ३६ ) इति सिचः किखे अजीर्ष्ट स्वयमेव । एष्वेकधाताविति कर्मकर्त्तर्यात्मनेपदं किरादित्वाच्च भूषार्थसन किरादिभ्यश्च चिक्यौ' ( ३।४।९३ ) इति ञिच् ' स्वरमह० ' ( ३।४।६९ ) इति विड् नास्ति जरिषीष्ट, जरीषीष्ट जीर्षीष्ट । १५ अत्रेविकल्प एव । 'वृतो नवानाशी' रित्यत्राशीर्वचनादिदो दीर्घविकल्पो न भवति । णौ ' कगेव - नूजनैज़षूनस्रञ्जः' (४।२।२५ ) इति ह्रस्वे जरयति । किति 'ऋवर्णश्रि० ' ( ४|४|५७ ) इति नेद् । ‘गत्यर्थाकर्मक०' ( ५।१।११ ) इति वा कर्त्तरि के जीर्णश्चैत्रः । पक्षे भावे जीर्ण चैत्रेण । साध्यादपि ‘श्लिषशीङ्ख्थासवस जनरुहज़भजेः तः' ( ५।१।९ ) इति वा कर्त्तरि के अनुजीर्णो वृपलीं चैत्रः । पक्षे कर्मणि क्त अनुजीर्णा वृषली चैत्रेण । अकर्मका अपि हि सोपसर्गाः सकर्मकाः भवन्ति । क्त्व २० ‘जव्रश्चः कूत्वः' ( ४।४।४१ ) इतीटि जरित्वा जरीत्वा । 'सङ्गतेऽजर्यम्' ( ५/१/५ ) न जीर्यति अजर्यमार्यसङ्गतम् । अचि जरः । पृषोदरादित्वात् कुञ्जरः । भूते 'नृषोऽतः' ( ५।१।१७३ ) जरन् जरती । षित्वादङि 'ऋवर्ण ० ' ( ४।३।७ ) इति गुणे जरा । करणाधारे 'न्यायावाया ० ' ( ५|३| १३४ ) इति घापवादे घनि जारः । उणादौ ऋतष्टित् ( ९ ) इत्यः सरूपे च द्वे जर्जरः अदृढः । जर्जरी स्त्री । जृविशिभ्यामन्तः ( २१९ ) जरन्तः वृद्धः । 'जशू वयोहानौ' जुणाति । 'जणू वयोहानौ' २५ युजादित्वाद्वा णिचि जारयति जरति । झुष् झीर्यति । जझार । 'स्कृच्छ्रत०' ( ४।३।८ ) इति गुणे जझरतुः । झरिता । अचि अलि च झरः निर्झरः । षित्वादङि 'ॠवर्ण ०' इति गुणे झरा । अषिदयमित्यन्ये । उणादौ ऋतष्टित् ( ९ ) इत्यः सरूपे च द्वे रूपे झर्झरः वाद्यविशेष: । झर्झरी झल्लरिका । सृणीकास्तीक० (५०) इतीके निपातनात् झर्झरीकं देहः । झर्झरीका वादित्रभाण्डम् मूले त्वप्रसिद्धत्वादयं वितत्य नोक्तः । इति ऋदन्तौ द्वौ सेटौ च । शच् इति ॥ १ ॥ तिवाद 'न ३० शिती' त्यात्वनिषेधे सति सूत्रम्
ओतः श्ये ॥ २ ॥ [ सि० ४।२।१०३ ]
धातोरोतः श्ये लुक् । श्यति १ | श्येत् २ | श्यतु ३ | अश्यत् ४ । आत्सन्ध्यक्षरस्येत्यात्वे, ३३ट्वेघ्राशेति वा सिज्लुपि - अशात्, अशासीत् ५ । शशौ ६ । शायात् ७ । शाता ८ । एवं 'दों
१ उणादिवृत्तावस्य स्थाने द्युतिमान् कालो व्याघ्रजातिश्चेति दृश्यते इति संपादकः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org