________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे दिवादयः परस्मैपदिनः
अथ दिवादयः ।
'दिवूच क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु' ।
अथ श्यविकरणा दिवादयो वर्णक्रमेण निर्द्दिश्यन्ते । तत्रापि पूर्वाचार्य प्रसिद्ध्यनुरोधेन पूर्व दिव्धातुः । दिवूच् इत्यादि । क्रीडा द्यूतादिः प्रतीता, जयेच्छा विजिगीषा, पणिर्व्यवहारः त्र्यादिः, तिः कान्तिः, स्तुतिगती प्रसिद्धे, एवं षडर्थाः । सूत्रम्
Jain Education International
६७३
५
दिवादे श्यः ॥ १ ॥ [ सि० ३।४।७२ ]
कर्त्तरि शिति दिवादेः श्यः स्यात् । शकार इत् । भ्वादेर्नामिन इति दीर्घे, दीव्यति १ । दीव्येत् २ | दीव्यतु ३ | अदीव्यत् ४ । अदेवीत् ५ । दिदेव दिदिवतुः दिदेविथ ६ । दीव्यात् ७ । देविता ८ | देविष्यति ९ । अदेविष्यत् १० । 'नृष ऋषू चू जरसि' । ऋतां क्वितीर्, जीर्यति ४ । ऋदिच्छ्वीत्यङ् वा । अजरत् अजारीत् ५ । जजार । स्कृच्छ्रतोऽकी ति गुणे, भ्रमेति वा एत्वे, जेरतुः जजरतुः ६ । जीर्यात् ७ । जरिता जरीता ८ | जरिष्यति - जरीष्यति ९ । १० 'शच् तक्षणे ' ॥ १ ॥
I
'दिवा०' दीव्यतीत्यादि व्यक्तम् । 'उपसर्गाद्दिवः' ( २।२।१७ ) इति विनिमेय द्यूतपणयोः कर्मणो वा कर्मत्वे, 'शेषे' इति षष्ठ्यां शतस्य दीव्यति । शतं प्रदीव्यति । अनुपसर्गस्य 'न' ( २२२११८ ) इति कर्मत्वाभावे शतस्य दीव्यति । 'करणं च' ( २।२।१९ ) इति करणस्य कर्मत्वकरणत्वयोः ' अक्षान् दीव्यति अक्षैर्दीव्यति । वेत्यनुक्त्वा करणं चेव्यत्र चकारकरणं संज्ञाद्वयसमावेशार्थम् । तेन १५ करणत्वात्तृतीया कर्मत्वाच्चानाप्यलक्षणमणिकर्तुण कर्मत्वमणिगि प्राणिकर्तृकानाप्याणिग इति परस्मैपदं च न भवति । अक्षैर्देवयते मैत्रश्चैत्रेण । सनि 'इवृध० ' ( ४|४|४७ ) इति वेटि इडभावे 'अनुनासिके च०' ( ४।१।१०८ ) इति वस्योटि दुद्यूषति दिदेविषति । ऊदित्वात् क्त्वि वेट् द्यूत्वा देविता । अत्र 'वौ व्यञ्जनादेः सन् चाऽय्वः' ( ४।३।२५ ) वौ इति उकारे इकारे वोपान्त्ये सति व्यञ्जनादेर्द्धातोः परः क्त्वा सन् च सेटौ वा किद्वद्भवतः । अय्व इति यकारान्ताद्वकारान्ताच्च २० न भवतः । अस्य च धातोर्वकारान्तत्वात् सेटो: क्त्वासनोः कित्त्वाभावाद्गुणे दिदेविषति, देवित्वेति सिद्धम् । वेदत्वात् तयोर्नेट् द्यूतः द्यूतवान् । द्यूतादन्यत्र 'पूदिव्यश्चैर्नाशाद्यूतानपादाने ' (४।२।७२ ) पू दिव् अन इत्येतेभ्यो यथासङ्ख्यं नाशे अद्यूते अनपादाने चार्थे परस्य क्तयोस्तस्य नः स्यात् । पूना यवा विनष्टा इत्यर्थ: । आद्यूनः परिद्यूनः औदरिक इत्यर्थः । समक्तौ शकुनेः पक्षौ संगतावित्यर्थः । नाशाद्यूतानपादान इति किम् ? पूर्त धान्यम् । यूतं वर्तते । उदक्तमुदकं कूपात् । २५ कथं व्यक्तमञ्जेर्भविष्यति । लिहाद्यचि देवः । गौरादित्वात् ङयां देवी । णके देवकः देविका नदी । क्विपि अक्षद्यूः । ण्यन्तात् किपि दयूः । उपसर्गाद्देत्रिति णके आदेवयतीत्येवंशील आदेवकः । एवं परिदेवकः । उणादौ दिव्यवि० ( १४२ ) इत्यटे देवट: देवकुलविशेषः शिल्पी च । देवर इति देवते ऋछिचटि० (३९७ ) इत्यरे, देवल इत्यप्यस्यैव मृदिकन्दि० (४६५ ) इत्यले । छविछिवि० २९
है० प्रका० उत्त० ८५
For Personal & Private Use Only
www.jainelibrary.org