________________
६७०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'स्थादिभ्यः कः' (५।३।८२) विधः । 'उपसर्गादातः' (५।३।११०) इत्यङि विधा उपधा। 'मृगये.' (५।३।१०१) इति निपातनादङि श्रद्धा । खलपवादे 'शासयुधि०' ( ५।३।१४१) इत्यने सुधानः । उणादौ भीशलि० (२१) इति के धाकः ओदनः स्तम्भश्च । धालू० (७०) इत्याणके धाणको दीनारद्वादशभागः । शीभीराजेश्वानकः (७१) शीभीराजिभ्यो धालूशि विभ्यश्च आनकः ५प्रत्ययो भवति । धानको हेमादिपरिमाणम् । प्याधा० (२५८) इति ने धाना भृष्टयंवोऽङ्कुरश्च । तुदादिवृजि० (२७३ ) इति कित्यने निधनम् । अर्तीरि० (३३८) इति मे धामं निलयस्तेजश्च । धाग्राजि० (३७९) इत्यन्ये धान्यम् । सन्ध्येति तु सञ्जे: च ( ३५९) इति ये । इण्धारभ्यां वा ( ३८९) इति वा किति रे धीरः धारा । कृसिकमि० (७७३ ) इति तुनि धातुः । धृषेस्तु धृषेदिधिषदि धीषौ च (८४२) इत्यू: 'दिधिषूः ज्यायस्याः पूर्वमूढा लध्वी पुंश्चली च । दिधीपूः ऊढायाः १० कनिष्ठायाः ज्येष्ठानूढा' इति धातुपारायणे । अभिधानचिन्तामणौ तु 'दिधिषस्तु पूनर्भू. द्विरूढाऽस्या दिधिषूपतिः' इति । मन् (९११) इति मनि धाम । वयःपयःपुरोरेतोभ्य० ( ९७४ ) इत्यसि वयोधा युवा, पयोधाः पर्जन्यः, पुरोधाः पुरोहितः, रेतोधा जनकः । वेधा विधा इति तु 'विधत् विधाने' इत्यस्मादस् प्रत्ययो भवति स च किद्वा [ ९७२ ] वेधा विद्वान् सर्ववित्
प्रजापतिश्च । विधाः स एव । इत्यादन्तौ द्वावनिटौ । “हुँड ग्क् इति पोषणे चेति' । चकारा१५ द्धारणेऽपि । 'ब्युक्त०' (४।२।९३) इति शिदनः पुसि 'पुस्पौ' (४।३।३) इति गुणे च अबिभरुः ।
'भीह्री०' (३।४।५०) इति परोक्षाया वामि तिव्वद्भावात् द्वित्वेत्वयोर्बिभराम्बभूव बभारेति । 'ऋवर्णात्' (४।३।३६) इति सूत्रेणानिट सिजाशिषो कित्त्वाद्गुणाभावे 'धुड्हस्वा०' (४।३।७०) इति सिज्लुकि अभृत । 'भीह्री०' इति वामि बिभराञ्चक्रे बभ्रे इति । 'भृगोऽसंज्ञायाम्' (५।१।४५) इति क्यपि भृत्यः । संज्ञायां तु 'ऋवर्ण०' (५।१।१७) इति ध्यणि भार्यो नाम क्षत्रियविशेषः । २० भार्या वधूः । 'समो वा' (५।१।४६) संभृत्यः । संभार्यः । 'लिहादिभ्यः' (५।१।५०) इत्यणपवादेऽचि जारभरा कन्या । क्ते भृतः । 'कुत्सित.' (७।३।३३) इति कपि भृतकः । 'भावाकोंः ' (५।३।१८) घत्रि भारः। भर इति भृणातेरलि । 'कुक्ष्यात्मोदरा०' (५।११९०) इति खौ कुक्षिभरिः आत्मभरिः उदरंभरिः । 'भृवृजि०' (५।१।११२) इति खे विश्वंभरा भूः । 'भृगो नाम्नि' (५।३।९८) इति स्त्रियां भावे क्यपि कुमारभृत्या । संज्ञायामन्यत्र भृतिः । ट्वित्त्वादथुः भरथुः । वित्त्वात्रिमक् । २५ भृत्रिमम् । सनि बुभूर्षति । 'इवृध०' (४।४।४७) इत्यत्र भरेतिग्रहणान्नास्य सनि वेट्त्वम् । अन्ये त्वस्यापि वेदं कृत्वा कृतगुणभरनिर्देशेन इडभावपक्षे कित्त्वेऽपि गुणं चेच्छन्ति । बिभर्षति विभरिपति । यडि बेभ्रीयते । यलुपि बर्भरीति बरिभरीति बरीभरीति । बभर्ति बरिभर्ति बरीभर्ति । णौ भारयति । णौ ङे अबीभरत् । णो सनि बिभारयिषति । शतरि बिभ्रत् बिभ्रती । उणादौ द्वारशृङ्गार० (४११) इत्यारे निपातनात् भृङ्गारः । मुषिकृषिरिषिविषिशोशुच्यशिपूयीणप्रभृभ्यः कित् ३० (६५१) अनेन प्रपूर्वात् भृधातोः किति तौ प्रभृतिः आदिः । 'भंग भरणे' इत्यस्य तु भरति भरते । ऋकारान्तोऽनिट् एकः । णिचूँकि इति । चकारात्पोषणे इत्यनुवर्तनीयम् ॥ १३ ॥ शिति सूत्रम्
निजां शित्येत् ॥ १४ ॥ [ सि० ४।१।५७ ] निजिविजिविषां शिति द्वित्वे पूर्वस्य एत् स्यात् । नेनेति नेनिक्तः नेनिजति । नेनेक्षि १ । ३४ नेनिज्यात् २ । नेनेक्तु नेनिक्तात् नेनेग्धि ॥ १४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org