________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदाद्यन्तर्गता ह्रादयः
६६९ धागस्तथोश्च ॥ १३॥ [सि० २।११७८] चतुर्थान्तस्य धाग आदेश्चतुर्थः स्यात्तथोः स्ध्वोश्च परयो । धत्तः दधति । दधासि धत्थः धत्थ १ । दध्यात् २ । दधातु-धत्तात् दधतु ३ । अदधात् ४ । अधात् ५ । दधौ ६ । धेयात् ७। धाता ८ । धास्यति ९ । अधास्यत् १० । धत्ते दधाते दधते । धत्से दधाथे धध्वे १ । दधीत २। धत्ताम् ३ । अधत्त ४। अधित ५ । दधे ६। धासीष्ट ७ । धाता ८ । धास्यते ९५ अधास्थत १० । 'हँड्डु,ग्क पोषणे च । पृभृ इतीत्वे, बिभर्ति विभृतः बिभ्रति । विभर्षि १। बिभृयात २। बिभर्तु ३ । अबिभः अबिभरुः ४ । अभार्षीत् ५ । 'भीहीभृ०' इत्यामि बिभराम्बभूव । पक्षे बभार । स्क्रसृवृभृ इति सूत्रे भृवर्जनेनेनिषेधात् बभर्थ बभूव ६ । भ्रियात् ७॥ भर्ता ८ । भरिष्यति ९ । अमरिष्यत् १० । बिभृते विधाते १। विधीत २ । विभृताम् ३। अविभृत ४ । अभृत अभृषाताम् ५ । बिभराञ्चक्रे बने ६ । भृषीष्ट ७ । भतों ८ । भरिष्यते १० ९। अभरिष्यत १० । 'णिजूंकी शौचे च ॥ १३॥
'धाग' स्पष्टम् । 'अधश्चतुर्था'दित्यत्र धावर्जनात्तथोर्धत्वाभावे धत्तः । 'अन्तो नो लुक्(४।२।९४) दधति । हौ दः' (४।१।३१) इति स्वरस्य एत्वे द्वित्वाभावे च धेहि । 'ब्युक्त०' (४।२।९३) इति शिदनः पुसि अदधुः । 'अवौ दाधौ दा' ( ३।३।५) इति दासंज्ञत्वात् 'पिबैति.' (४।३।६६) इति सिचो लुपि अधात् । 'सिज्विद०' (४।२।९२) इत्यनः पुसि अधुः । अद्यत-१५ न्यामात्मनेपदे 'इश्च स्थादः' (४।३।११) इतीत्वे कित्त्वे च अधित । क्ये 'ईय॑ञ्जने०' (४।३। ९७) इतीत्वे धीयते । शतरि दधत् । शौ वा दधति दधन्ति कुलानि । यङि देधीयते । 'ईय॑ञ्जने ऽयपि' इति ईः । यलुपि दाधाति दाधेति । 'नश्चातः' (४।२।९६) इत्याल्लुकि 'धागस्तथोश्च' इत्यत्र गिनिर्देशात्पूर्वस्य न धा, दात्त: दाधति । दाधेषि दाधासि दात्थः दात्थ । दाधेमि दाधामि दाध्वः दाध्मः । दाध्यात् । दाधीतु दोधेतु हौ घेहि । अदाधात् अदाधेत् अदात्ताम् अदाधुः । अद्यतन्याम् २० अदाधात अदाधाताम अंदाधः । दाधाञ्चकार । दाधेयात् । दाधिषीष्ट दाधिष्यति । 'धागः' इत्यत्र गिन्निर्देशात् हित्वाभावे दाधित्वा । विदाधाय । दाधितः । दाधितवान् । णौ धापयति विधापयति प्रणिधापयति । णौ डे अदीधपत् । विधापयाञ्चकार । णौ सनि विदिधापयिषति । सनि 'मिमीमा०' (४।१।२०) इतीति द्वित्वाभावे धित्सति । अनिट्त्वात् धाता धातुम् धातव्यम् । 'धाय्यापाय्य' सान्नाय्यनिकाय्यमृङ्मानहविर्निवासे' (५।१।२४) इति ध्यणि निपातनात् धाय्या ऋक् । 'सामि-२५ धेनी धाय्या च समिदाधीयते यया' इत्यभिधानचिन्तामणी । ऋचोऽन्यत्र ‘य एञ्चातः' (५।१॥ २८) इति ये धेयम् । 'तन्व्यधीण्श्वसातः' (५।१।६४) इति णे धायः । दध इति तु दधतेरचि । तादौ किति 'धागः' (४।४।१५) इति हिः विहितम् । विहितवान् । 'समस्ततहिते वा' (३।२। १३९) इति समो मो लुकि सहितं संहितम् । 'वा वाप्योस्तनिक्रीधामहोर्वपी' (३।२।१५६) इति वापेः प्यादेशे अपिहितं पिहितम् । पिधानं अपिधानम् । 'आतो ड०' (५।११७६ ) इति डे गोधा ।३० 'शीङश्रद्धा०' (५।२।३७) इत्यालौ श्रद्धालुः । 'सनिचक्रिदधिजज्ञिनेमिः' (५।२।३९) इति निपातनात् ङौ धानशीलो दधिः । वित्त्वात्रिमकि विधानेन निर्वृत्तं विहित्रिमम् । 'उपसर्गादः किः' (५।३।८७) प्रधिः विधिः सन्धिः । 'निर्दुस्सोः सेधसन्धिसाम्नाम्' (२।३।३१) इति षत्वे निःषन्धिः दुःषन्धिः सुषन्धिः । 'व्याप्यादाधारे' ( ५।३।८८) जलधिः । अन्तर्द्धानं अन्तर्द्धिः । ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org