________________
६६८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवान् । 'श्वादिभ्यः' ( ५।३।९२) इति क्तौ प्रमितिः । उपसर्गादित्यङि प्रमा । करणेऽनटि प्रमाणम् । इत्यात्मनेपदिनौ द्वावनिटौ चादन्तौ २ ।
अथोभयपदिनो निरूप्यन्ते । डुदांग्क् इति । शेषा इत इति । तत्र वित्त्वात् त्रिम दानेन निर्वृत्तं दत्रिमं भोगसुखम् । गित्त्वादुभयपदी, कित्त्वाददादिरिति । ददातीत्यादि स्पष्टम् ॥ ११ ॥ ५पञ्चमी हौ सूत्रम्
हौ दः॥ १२॥ [सि० ४।११३१] दासंज्ञस्य हौ परे ए: स्यात, न च द्विः । देहि-दत्तात् ३ । अददात् अदत्ताम् अददुः ४ । अदात् अदाताम् अदुः५ । ददौ ददिथ-ददाथ ६ । देयात् ७ । दाता ८ । दास्यति ९ ।
अदास्यत् १० । दत्ते ददाते ददते । दत्से १ । ददीत २ । दत्ताम् ३ । अदत्त ४ । इश्च स्थाद १० इतीत्वे अदित अदिषाताम् अदिषत ५ । ददे ६ । दासीष्ट ७ । दाता ८ । दास्यते ९ । अदास्यत १० । 'डुधांग्क् धारणे च' । द्वितीयतुर्ययोरिति दत्वे, दधाति ।
'हो.' स्पष्टम् । न च द्विरिति वचनात् कृतमपि द्वित्वं निवर्त्तते । तेन यङ्लुप्यपि देहीति भवति । ननु प्रत्यासत्तेायाद्यस्मिन्नेव प्रत्यये द्वित्वमेत्वं च प्राप्त तस्मिन्नेव प्रत्यये न च द्विरिति प्रवर्तते ।
अत्र यनिमित्तकं द्वित्वं हौ परे कथं निवर्त्यते ? सत्यम् । किन्तु व्यक्तौ(क्त्या) सूत्रप्रवृत्तेर्द्वित्वमात्रं १५सर्व निवर्त्यते इति । हाविति व्यक्तिनिर्देशात् इह न भवति दत्तात् धत्तादिति । 'नेमादा.'
(२।३।७९) इति नेर्णत्वे प्रणिददाति । 'झुक्त०' (४।२।९३) इति शिदनः पुसि अददुः । 'पिबैति०' (४।३।६६) इति सिचो लुपि अदात् । 'सिज्विदो भुवः' (४।२।९२) इत्यनः पुसि अदुः । आशिषि 'गापास्था०' (४।३।९६) इत्येत्वे देयात् । कृितोऽन्यत्र दासीष्ट । सनि 'मिमीमादामित्स्वरस्य' (४।१।२०) इति द्वित्वाभावे च दित्सते । अत्र फलवत्कर्तरि प्राग्वदित्यात्मनेपदम् । २० अन्यत्र शेषादिति परस्मैपदे दित्सति । 'य एञ्चातः' (५।१।२८) इति ये देयम् । 'तन्व्यधी०'
(५।१।६४ ) इति णे दायः । दद इति तु ददतेरचि । 'आतोऽ०' इत्यणपवादे डे गोदः । 'दश्चाः ' (५।११७८) दायादः । प्राज्ञश्चेति धर्मप्रदः । 'प्रादागसूत्त आरम्भेक्ते' (४।४।७) इति वा से दातमारब्धं प्रत्तम् । द्विस्तकार आदेशः 'अनेकवर्णः सर्वस्य' (७।४।१०७) इति सर्वोदेशार्थः। अकार उच्चारणार्थः । पक्षे ददिति दति प्रदत्तम् । 'निविस्वन्ववात' (४।४।८) इति वा त्ते 'दस्ति' २५ (३।२।८८) इति दीर्घ च नीत्तम् वीत्तम् सूत्तम् अनूत्तम् । पक्षे ददिति दति निदत्तमित्यादि । केचिदत्रा
प्यारम्भ एव विकल्पमिच्छन्ति । यदाहुः 'अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तं च कुदत्तं च निदत्तमिति चेष्यति'। इति तन्मतसङ्ग्रहार्थमारम्भ इत्यनुवर्तनीयम्। 'स्वरादुपसर्गादस्ति कित्यधः' (४।४।९) स्वरान्तादुपसर्गात्परस्य धावर्जदासंज्ञकस्य तादौ किति त्तादेशो भवति । वेति निवृत्तम् । नित्यं भवति । प्रत्तः प्रत्तवान् आत्तः उपात्तः। परीत्रिमम् प्रणीत्रिमम् त्रिम । 'दाधेसि' (५।२।३६) ३० इति रौ दानशीलो दारुः । 'भावाकोः ' ( ५।३।१८) घनि दायः । 'उपसर्गादः किः' (५।३।८७)
आदिः । 'उपसर्गादातः' (५।३।११०) इत्यङि उपदा । खलपवादे 'शासू युधि०' (५।३।१४१) इत्यने सुदानः । इधांग्क् इति धारणे चेति । चकारादाने इत्यनुवर्तनीयम् । दधाति । 'नेौदा०' (२।३।७९) इति नेर्णत्वे प्रणिदधाति श्रद्दधाति । 'वा वाप्यो:०' (३।२।१५६) इत्यपेः पिर्वा ३४ अपिदधाति पिदधाति ॥ १२ ॥ तसादौ सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org