________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे अदाधन्तर्गता हादयः
६६७ कथं प्राग्वृद्धिर्भवति इत्यत्रोच्यते समासान्तागमसंज्ञाज्ञापकगणनिर्दिष्टान्यनित्यानीति न्यायात् ज्ञापकज्ञापितस्य विधेरनित्यत्वात् प्राग्वृद्धिर्भवति । आत्मनेपदे न भवति । परस्मैपदे नित्यमित्येके । परस्मैपदे नित्यमात्मनेपदेऽर्तेर्वा, सर्तेर्नेत्यन्ये । उभयत्र नित्यमित्यपरे । तिन्निर्देशो यङ्लुप्निवृत्त्यर्थः । असरिसारीत् आरारीत् । भृशं पुनः पुनर्वा इयर्ति ऋच्छति वा 'अट्यर्तीति यङ् तस्य लुप् । ततो द्विर्वचनम् । 'ऋतोऽत्' (४।११३८) 'रि रौ च लुपि' (४।१।५६) इति रागमस्ततोऽद्यतनीसिच्५ 'सः सिजस्तेर्दिस्योः' (४।३।६५) इतीत् इट् 'इट ईति' (४।३।७१) इति सिच्लुप् । ततः 'सिचि परस्मै०' (४।३।४४) इति धातोर्वृद्धिरार ततः 'स्वरादेस्तासु' (४।४।३१) इति पूर्वस्य अकारस्य आकारः । इन्ध्यसंयोगादवित्परोक्षायाः कित्त्वेऽप्यत्र 'संयोगाहदर्तेः' (४।३।९) इत्यकि परोक्षायां गुणे आरतुः आरुरित्यादि । भावकर्मणोः क्ये 'क्ययङाशीर्ये' (४।३।१०) इति गुणे अर्यते । 'अध्यर्तीति' (३।४।१०) यङि अरार्यते । आशीर्ये अर्यात् । सनि 'ऋस्मिपूङञ्जशौकृगधृप्रच्छः' १० (४।४।४८) इत्यनेनेटि स्वरस्य कार्यित्वात् द्वित्वं प्रति निमित्तत्वाभावेन स्वरविधित्वाभावात् प्राक्त
खरे इत्यप्राप्तौ पूर्व स्वरादेशे गुणे, पश्चात् 'स्वरादेर्द्वितीयः' (४।१।४) इति द्वितीयांशस्य रि इत्यस्य द्वित्वे अरिरिषति । अनित्वात् अर्ता अर्तुम् । 'ऋही.' (४।२।७६) इति क्तयोस्तस्य वा नत्वे ऋणं ऋतम् । णौ 'अतिरी०' (४।२।२१) इति पौ अर्पयति । उणादौ ऋकृवृ० (१९६) इत्युणे अरुणः। कमियुगार्तिभ्यः स्थः ( २२५) इति थे अर्थः । गदरमि० (३२७) इति भे अर्भः शिशुः । अर्तीरि० १५ (३३८) इति मे अर्मः अक्षिरोगः । धाग्राजि० (३७९) इत्यन्ये अरण्यम् । ऋछिचटि० (३९७) इत्यरे अररं कवाटः। ब्रहृमृ० (६३८) इत्यणौ अरणिः । अरनिः (६८२) अरनिः उत्कनिष्ठो हस्तः । अर्तरूच्चात (६८९) इति मौ अमिः । नदिवल्लयर्तिकृतेररिः (६९८) इत्यरौ अररिः कपाटः । अश्यर्तेः कित् (७७७) इति तुनि ऋतुर्वसन्तादिः स्त्रीरजस्तत्कालश्च । कटिकुट्य० (८१२) इत्यरौ अररुः असुरः आयुधं च । अर्ते क्षिनक् (९२८) ऋभुक्षा इन्द्रः ।२० नाम दिपद्यतिपृशकिभ्यो वन (९०४) इति पनि अर्वा अश्वः । अर्जेरुराशी च ( ९६७ ) अस्मादस् प्रत्ययोऽस्य च उर इति अर्श इति शकारान्त आदेशो भवति । उरः वक्षः । अऑसि गुदादिकीलाः । अर्तीणभ्यां नस् ( ९७९) इति नसि अर्णः जलम् । रुद्यर्ति० (९९७ ) इत्युसि अरुः व्रणः । ' प्रापणे च' ऋच्छति । ऋकारान्तौ द्वौ । षडेते परस्मैपदिनोऽनिटश्च । ६ । ओहाङ् इति । ङित्त्वात् 'इङित०' ( ३।३।२२) इत्यात्मनेपदे 'हवः शिति' (४।१।१२) इति द्वित्वे 'पृभृमाहाङामिः२५ (४।१।५८) इति पूर्वस्येत्वे, 'एषामीय॑ञ्जनेऽदः' (४।२।९७) इतीत्वे च जिहीते इत्यादि । 'ईय॑ञ्जन०' (४।३।९७) इत्यत्र हाकोऽनुवृत्तेः क्ये ईत्वाभावे हायते । 'य एच्चातः' (५।१।२८) इति ये हेयम् । 'हः काल.' ( ५।१।६८) इति टनणि हायनो वर्ष व्रीहिश्च । ओदित्त्वात् 'सूयत्याद्यो०' (४।२।७०) इति क्तयोस्तस्य नत्वे हानः हानवान् । 'अदुरुपसर्गान्त०' (२।३।७७ ) पूर्वस्य स्वरादिति नस्य णत्वे प्रहाणः प्रहाणवान् । 'ओहांक् त्यागे' । जहाति । हीयते । माङ्क इति ।३० 'हवः शिति' (४।१।१२) इति द्वित्वे, 'पृभृमा०' (४।१।५८) इति पूर्वस्येत्वे, 'एषामी.' (४।२। ९७) इतीत्वे च मिमीते । 'नेकर्मादा०' (२।३।७९) इति नेर्णत्वे प्रणिमिमीते । आशिषि वित्त्वा भावात् गापास्था०' (४।३।९६) इत्येत्वाभावे मासीष्ट । क्ये 'ईर्व्यञ्जने०' (४।३।९७ ) इतीत्वे मीयते । सनि मिमीमादामित्स्वरस्य (४।१।२०) इति स्वरस्य इत्वे द्वित्वाभावे प्रमित्सते । 'य एच्चातः' (५।१।२८) इति ये प्रमेयम् । किति तादौ 'दोसोमास्थः इ.' (४।४।११) प्रमितः प्रमित- ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org