________________
६६६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुइत्यादिना दीर्घत्वम् । परिपूर्णः मरिमूर्णः । अविशेषनिर्देशात्तदपि संगृहीतम् ॥ ९ ॥ परोक्षायां सूत्रम्
ऋः शूदृप्रः ॥ १०॥ [सि० ४४।२०] एषां परोक्षायामृर्वा स्यात् । पप्रतुः पक्षे स्कृच्छृतोऽकि परोक्षायामिति गुणे पपरतुः पा:५पपरुः । थवि स्क्रसृत्रितीटि, पपरिथ पपरिव ६ । पूर्यात् ७ । परिता-परीता ८ । परिष्यतिपरीष्यति ९ । अपरिष्यत्-अपरीष्यत् १० । 'क् गतौ' । द्वित्वे तु पृभृ इति पूर्वस्य इत्वे, पूर्वस्याऽखे स्वरे बोरियुवितीयादेशे नामिन इति गुणे च इयर्ति इयतः इयरति १। इयूयात् २ । इयतु-इयृतात् इयहि-इयृतात् इयराणि ३ । ऐया ऐयताम् ऐयरुः । ऐयरम् । ऐयूव ॥ १० ॥
'ऋ०' एषामिति ‘क म शश् हिंसायाम्' । 'दृश् विदारणे' । 'पृश् पालनपूरणयोः' । प्रस्तुतोऽयं १० 'पृक् पूरणे' इति च । 'वृतो नवाऽनाशीः सिच्परस्मै च' (४।४।३५) इति इटो दीर्घविकल्पे परीता
परितेत्यादि । क्तयोापृतः व्यापृतवान् । येषां तु मते दीर्घान्तस्तन्मते 'ऋवर्ण,यूटुंगः कितः' (४।४।५७ ) इतीडभावे ऋल्वादेरित्यत्र प्रो वर्जनात् क्तयोस्तस्य नत्वाभावे पूर्तः पूर्तवान् । 'णौ साहिसाति०' (५।१५१) इति शे पारयः । घनि पारः । णौ 'दान्तशान्त०' इति क्ते वा पूर्णेति निपातनमस्यापीत्येके । तन्मते णौ ते पूर्णः । पारितः पूरितः इति तु पूरैचेय॑न्तात् क्ते । ऋक् इति । १५'श्रौती'त्यत्रात्यादावित्यधिकारादत्र ऋच्छादेशाभावः । यद्वा 'श्रौति०' (५।२।१०८) इत्यत्र सूत्रे
घ्रादिभिः साहचर्यात्पार्यो वादिकयोरेव ग्रहणमिति नात्र ऋच्छादेशः । कर्मण्यसति 'समो गमृ०' (३।३।८४) इत्यात्मने पदे समियते । समिनाते समियते । समिषे । आप्ये तु सति 'शेषात्परस्मै' ( ३।३।१०० ) इति परस्मैपदे समियति मित्रम् ॥ १० ॥ अद्यतन्यां सूत्रम्
सर्त्यर्तेर्वा ॥ ११ ॥ [सि० ३।४।६१] २० आभ्यामद्यतन्यामङ् वा स्यात् । स्वरादेरिति वृद्धौ आरत् । पक्षे सिचि परस्मै इति वृद्धौ, आर्षीत् ५। आर आरतुः । ऋवृव्येऽद इतीडागमे, आरिथ ६ । अर्यात् ७ । अर्ता ८। अरिष्यति ९ । आरिष्यत् १० । षडेते परस्मैपदिनः। 'ओहाङ् गो' । एषामीरितीत्वे, जिहीते । श्नश्चेत्यालुकि जिहाते जिहते जिहीषे १ । जिहीत २ । जिहीताम् ३ । अजिहीत
अजिहत ४ । अहास्त ५। जहे ६ । हासीष्ट ७ । हाता ८ । हास्यते ९ । अहास्यत १० । 'माङ्क २५मानशब्दयोः । मिमीते मिमाते मिमते मिमीषे १ । मिमीत २ । मिमीताम् ३ । अमिमीत ४।
अमास्त ५। ममे ६ । मासीष्ट ७ । माता ८ । मास्यते ९ । अमास्यत १० । द्वावात्मनेपदिनौ । 'डदांगक् दाने'; दाधातुः, शेषा इतः । द्वित्वे हस्खे ददाति । नश्चेत्यालुकि दत्तः ददति । ददासि दत्थः दत्थ १ । दद्यात् २ । ददातु-दत्तात् ॥ ११॥
आभ्यामिति 'गतौ' भ्वादिः । 'ऋ' अदादिर्वादि । यथा असरत् असार्षीत् । सर्तेः ३० कर्त्तर्यात्मनेपदं न दृश्यते इति नोदाह्रियते । 'क्रियाव्यतिहार०' ( ३।३।२३) इत्यत्र गत्यर्थवर्जनात्
सर्वे गत्यर्था ज्ञानार्था इति ज्ञानार्थस्यापि नेष्यते इति भावः । ऋ आरत् आर्षीत् । आत्मनेपदे
ऽङि समारत पक्षे समाष्टं । अत्र नित्यत्वात् सिच्लोपात् प्रागेव वृद्धिः । ननु 'एत्यस्तेर्वृद्धिः' ३३ (४।४।३०) इति सूत्रेण कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद्वृद्धिस्तद्वाध्योऽट्वेति ज्ञापितम् । ततः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org