________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदाद्यन्तर्गता ह्रादयः
६६५
1
ari विभ्यानम् । भीतः भीतवान् । भीत्वा प्रभीय । भेता भेतव्यं भेतुम् । 'भियो रुरुकलुकम् ( ५|२|७६ ) भीरुः भीरुकः भीलुकः । कित्त्वादत्र न गुणः । 'वर्षादयः क्लीवे' (५।३।२९) इत्यलि भयम् । 'भ्यादिभ्यो वा' ( ५|३|११५ ) इति किपि भीः ( पक्षे तौ भीतिः ) उणादौ भीशलि० (२१ ) इति के भेकः मण्डूकः कातरश्च । शीभी० (७१ ) इत्यानके भयानकः । भियः षोन्तश्च वा ( ३४४ ) इति किति मे भीमः भीष्म: । भीवृधि० (३८७ ) इति रे भेर: ५ दुन्दुभिः कातरश्च । ऋफिडादित्वात् लत्वे भेल: चिकित्सा ग्रन्थकारः अप्राज्ञश्च । ह्रीं इति । 'संयोगात् ' (२।१।५२ ) इतीयादेशे इति 'योऽनेकस्वरस्य ' (२।१।५६ ) इति यापवादे इति ज्ञेयम् । सनि जिह्वीषति । यङि जेहीयते । यङ्लुपि जेहीयीति जेहेति जेहीत: जेह्वियति । 'अर्त्तिरी ० ' (४/२/२१ ) इति पौ, 'पुस्पौ' ( ४।३।३ ) इति गुणे हेपयति । ङे अजिहियत् । जिह्वेपयिषति । शतरि जिह्नियत् ह्वेष्यन् । जिह्वयाञ्चकृवान् जिह्रीवान् । 'ऋही ० ' ( ४/२/७६ ) इति तयोस्तस्य वा १० नत्वे ह्रीणः ह्रीतः ह्रीणवान् हीतवान् । 'य एश्चात ' ( ५।१।२८ ) इति ये हेयम् । 'क्रुत्सम्पदा० ' ( ५/३ | ११४ ) इति किपि ह्रीः । उणादौ हियो र लो वा (२५) इति के ह्रीको ह्रीकच सलज्जः ह्रियः किद्रो लञ्च वा ( ७५० ) इति कौ हीकुः ह्रीकुश्च त्रपुजतुनी लज्जावांश्च । ह्रीकुर्वनमार्जारः । इति दीर्घावनिटौ च ॥ ७ ॥ पंकू इति शिति सूत्रम्
पृभृमाहाङामिः ॥ ८ ॥ [ सि० ४। १ ५८ ]
१५
एषां पञ्चानां शिति द्वित्वे पूर्वस्य इः स्यात्ततो गुणे, पिपर्त्तिं पितः पिप्रति १ । पिश्यात् २ | पिपर्तु-पिपृतात् ३ । अपिपः अपिताम् अपिपरुः । अपिपः ४ । अपात् अपाम् ५ । पपार पप्रतुः पप्रुः ६ । प्रियात् ७ । पर्ता ८ । हनूत इतीडागमे परिष्यति ९ । अपरिष्यत् १० । इति । दीर्घान्तोऽयमिति केचित्तत्र ॥ ८ ॥
'पृभृ०' पृश्च ऋश्च भृश्च मात्र हाङ् च तेषाम् । एषां पञ्चानामिति । शृंक पालनपूरणयोः ' | २० 'ऋक् गतौ' । 'टुड्डुभृंग्क् पोषणे च' । 'माङ्क मानशब्दयोः' । 'ओहाक् गतौ इत्येपामित्यर्थः । पिपर्त्तीत्यादि व्यक्तम् । परोक्षायां थवि 'ऋतः ' ( ४|४|७९ ) इति इनिषेधात् पिपर्थ इत्येकमेव रूपम् । व्यञ्जनादिपरोक्षायां 'स्क्रसृ० ' ( ४|४|८१ ) इतीटि पप्रिव पप्रिम इति । 'हनृतः ० ' ( ४|४| ४९) इतीटि परिष्यतीति । दीर्घान्तोऽयमिति ॥ ८ ॥ पक्षे क्विति सूत्रम्
२५
ओष्ठादुर् ॥ ९ ॥ [ सि० ४|४|११७ ]
धातोरोष्ठयात्परस्य ऋतः क्वित्युर् स्यात् । भ्वादेर्नामिन इति दीर्घे पिपूर्तः पिपुरति १ । पिपूर्यात् २ । पिपर्तु-पिपूर्तात् ३ । अपिपः ४ । अपारीत् अपारिष्टाम् ५ । पपार ॥ ९ ॥
'ओष्ठा०' उर स्यादिति । 'ऋतां क्कुितीर् ' ( ४|४|११६ ) इत्यस्यापवादः । यथा पूर्तः । पूः पुरौ । यङि पोपूर्यते । पोपुरति । 'नामिनोऽनिट्' ( ४ | ३ | ३३ ) इति सिचः कित्त्वे पुपूर्षति । 'स्वरहन्गमोः सनि धुटि' (४।१।१०४ ) इति दीर्घे बुभूषति मुमूर्षति । दन्त्यौष्ठोऽप्योष्ठ्यः तेन वुवूर्पते । ३० प्रावुवूर्षति । ओष्ठ्यादिति किम् ? तीर्णम् । धातोरिति विशेषणादिह न भवति, समीर्णम् । ऋश् गतावित्यस्य क्ते रूपम् । क्वितीत्येव । निपरणम् निपारकः प्रावरणम् प्रावारकः । केचित्तूपान्त्यस्यापि ऋत उरमिच्छति । 'घृणत् प्रीणने' मृणत् हिंसायामित्यनयोर्यङ्लुप् तस्य ' अहन्पञ्चमस्य ० ' ( ४|१|१०७) ३३ है० प्रका० उत्त० ८४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org