________________
६६४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
___ आ च हो ॥६॥ [सि० ४।२।१०१] __ हाको हौ आ इश्च वा स्याताम् । जहाहि-जहिहि पक्षे जहीहि ३ । अजहात् अजहिताम् अजहीताम् अजहुः ४ । अहासीत् ५ । जहाँ जहतुः जहिथ-जहाथ ६ । गापास्थेत्येत्वे, हेयात् ७ । हाता ८ । हास्यति ९ । अहास्यत् १० । 'जिभीक भये । बिभेति १॥६॥ ५ 'आ च हौ' स्पष्टम् । जहाति शब्दं देवदत्तः । स एवं विवक्षति नाहं जहामि । हायते शब्दः स्वयमेव । सनि जिहासति । यङि 'एषामीwञ्जने' (४।२।९७) इतीत्वे द्वित्वे 'आगुणावन्यादेः' (४।१।४८) इति गुणे जेहीयते । यङ्लुपि 'न हाको लुपि' (४।१।४९) 'ओहांक त्यागे' इत्यस्य द्वित्वे सति पूर्वस्य यङो लुप्याकारो न भवति । जहाति जति जहीतः जहति । क्त्वाप्रत्यये जहित्वा । द्वित्वे पूर्वदीर्घत्वमपीच्छन्त्येके । जीहित्वा । णौ हापयति । ढे अजीहपत् । सनि जिहापयिषति । शतरि १० जहत् जहती। ओदित्त्वात् 'सूयत्या०' (४।२।७०) इति ने हीनः हीनवान् । 'स्वरात्' (२।३।८५) इति णे प्रहीणः २ वान् । 'हाको हिः क्त्वि' हित्वा विहाय । हाता हातुम् । 'य एञ्चातः' (५।१। २८) इति हेयम् । 'ललाटवात०' (५।१।१२५) इति खशि शर्द्धजहा माषाः । 'हः काल.' (५।१।६८) इति टनणि जहाति भावानिति हायनः संवत्सरः । जहत्युदकमिति हायना बीहयः । 'आतो ड०' (५।११७६) इति डे कलां जहाति कलहः । 'ड्यापो बहुलं नाम्नि' (२।४।९९) इति १५पूर्वस्य ह्रस्वः । 'ग्लाहा०' ( ५।३।११८) इत्यनौ हानिः । 'अहीयरुह०' (७।२।८८ ) इत्यत्र हाको
वर्जनात् पञ्चम्यास्तस्वभावे सार्थाद्धीनः । 'पापहीयमानेन' (७।२।८६) इति तृतीयायास्तसौ विद्यातो हीयते । उणादौ भीण्शलि० (२१) इति के निहाको निःस्नेह । निहाका गोधा । पाहाक्भ्यां पयह्यौ च (९५३) इत्यसि ह्यः अनन्तरातीतदिनम् । अहरिति तु श्वन्मातरिश्वन्० (९०२) इत्यनि निपातनादंहतेः । जिभीक इति बुद्धिसंसर्गपूर्वकेऽपायेवधित्वादपादानत्वे 'पञ्चम्यपादाने' इति २० पञ्चम्यां चौराद्विभेति ॥ ६ ॥ व्यञ्जनादावविति शिति सूत्रम् ।
भियो नवा ॥७॥[सि० ४।२।९९] भियो व्यञ्जनादौ शित्यविति इर्वा स्यात् । बिभित:-बिभीतः बिभ्यति १ । विभियात्विभीयात् २ । विभेतु-बिमितात्-विभीतात् ३ । अबिभेत् अबिभिताम्-अविभीताम् अविभयुः
४ । अभैषीत् ५। भीहीत्यामि विभयाञ्चकार, पक्षे बिभाय बिभ्यतुः बिभयिथ विभेथ ६ । २५ भीयात् ७ । भेता ८ । भेष्यति ९ । अमेष्यत् १० ॥ 'ह्रींक लज्जायाम्' । जिहेति जिहीतः । संयोगादितीयादेशे, जिहियति १। जिहीयात् २। जिहेतु-जिहीतात् ३ । अजिहेत् अजिह्रीताम् अजिहयुः ४ । अहैषीत् ५। जिहयाञ्चकार जिहाय ६ । हृीयात् ७ । हेता ८ । हेष्यति ९ । अहेष्यत् १० । 'पृक पालनपूरणयोः ॥७॥
'भियो' यङ्लुपि बेभितः बेभीतः । व्यञ्जन इत्येव बिभ्यति । शितीत्येव विभीषति ३० बेभीयते । अवितीत्येव बिभेति । णौ बिभेतीष च' (३।३।९२) प्रयोक्तः सकाशात् स्वार्थे वर्तमानाण्ण्यन्ताद्विभेतेः कर्त्तर्यात्मनेपदं भवति । अस्य भीषादेशः । पक्षेऽन्तस्याकारश्चाकर्त्तर्यपि भवति । मुण्डो भीषयते मुण्डो भापयते । प्रयोक्तुः स्वार्थ इत्येव कुञ्चिक्या भाययति । अकर्त्तर्यपीत्येव भीषा भापनम् । तिन्निर्देशाद्यङ्लुपि न भवति मुण्डो वेभाययति । णौ डे. अबीभयत ३४ अबीभषत् अबीभयत् । शतरि बिभ्यत् बिभ्यती भेष्यत् । बिभयाञ्चकवान् बिभीवान् । बिभया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org