________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे अदाधन्तर्गता ह्रादयः ६७१ निजां० निजामिति बहुवचनेन निजिविजिविषय एवादादिपर्यन्तपठिता गृह्यन्ते ॥ १४ ॥ स्वरादौ विति गुणे प्राप्ते सूत्रम्
युक्तोपान्त्यस्य शिति खरे ॥ १५॥ [सि० ४।३।१४ ] द्विरुक्तस्य धातोरुपान्त्यस्य नामिनः शिति स्वरादौ गुणो न । नेनिजानि ३ । अनेनेक्-गू अनेनिजुः अनेनिजम् ४ । ऋदिवीत्यादिना वाङि, अनिजत् अनिजताम् । अनैक्षीत् अनैक्ताम् अनैक्षुः ५ । निनेज ६ । निज्यात् ७ । नेक्ता ८। नेक्ष्यति ९ । अनेक्ष्यत् १० । नेनिक्ते १। नेनिजीत २ । नेनिक्ताम् ३। अनेनिक्त ४ । अनिक्त अनिक्षाताम् ५ । नेनिजे ६ । निक्षीष्ट ७। नेक्ता ८ । नेक्ष्यते ९ । अनेक्ष्यत १० । 'विज़ुकी पृथग्भावें वेवेक्ति १० इत्यादि निजिवत् । 'विषूकी व्याप्तौ' । वेवेष्टि वेविष्टः १ । वेविष्यात् । वेवेष्टु-वेविष्टात् ३ । अवेवेट-ड् ४ । लदित्वादङ् अविषत् ५ । विवेष ६ । विष्यात् । वेष्टा ८। वेक्ष्यति ९ । अवेक्ष्यत् १० ।१० वेविष्टे १ । वेविषीत २ । वेविष्टाम् ३ । अवेविष्ट ४ । हशिट इति सकि अविक्षत ५ । विवेषे ६। विक्षीष्ट ७ । वेष्टा ८ । वेक्ष्यते ९ । अवेक्ष्यत १० । एते षड्डुभयपदिनः ॥१५॥ इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां
हैमलघुप्रक्रियायां जुहोत्यादयः समाप्ताः। 'धक्तो' अनेनिजमिति । एवं वेविषाणि अवेविषम् । बेभिदीति अबेमिदम् । मोमुदीति १५ अमोमुदम् । नतीति अनतम् । ड्युक्तेति किम् ? वेद वेदानि अवेदम् । उपान्त्यस्येति किम् ? जुहवानि । बोभवीति सोषवीति । शितीति किम् ? निनेज विवेद । बेभेदिषीष्ट । स्वर इति किम् ? नेनेक्ति । मोमोर्ति । नर्ति । आत्मनेपदे पञ्चम्यास्तृतीयत्रिकेऽनेन गुणनिषेधे नेनिजै नेनिजावहै नेनिजामहै । नेक्ता नेक्तुम् । 'नाम्युपान्य' (५।११५४) इति के निजः । शतरि अन्तो नो लुकि नेनिजत् नेनिजतौ । घनि 'क्तेऽनिट' (४।१।१११) इति गत्वे नेगः । यङि नेनिज्यते । यङ्लुपि २० नेनेति नेनिजीति । सनि निनिक्षति । णौ नेजयति । ङपरे णौ अनीनिजत् । विजुकी इति । 'वेवेक्ति न यशश्चन्द्रात्' न पृथग्भवतीत्यर्थः । वेविक्तः । आत्मनेपदेऽपि वेविक्ते वेविजाते वेविजते । सनि विविक्षति । णौ वेजयति । णौ डे अवीविजत् । एतत्सर्वं संक्षेपेणाह-निजिवदिति विक्त्वा प्रविज्यते । वेक्ता वेक्तुम् । वेगः । चान्तोऽयमिति सभ्याः । वेवेक्ति वेविक्तः वेविचति । णिगि विवेचयति विवेक्तुम् विवेचनम् । विवेकः । इति जकारान्तौ द्वावनिटौ । विष्लंकी इति । 'वेवेष्टि २५ यशः क्ष्माम्' व्याप्नोतीत्यर्थः । वेविष्टः वेविषति । आत्मनेपदेऽद्यतन्यां च ङ भावे 'हशिट' (३।४।५५) इति सकि अविक्षत् । बहुवचने खरे इत्यल्लुकि, स्वरस्य इत्यल्लुकः स्थानित्वात् 'अनतोऽन्तोऽदात्मने' (४।२।११४) इत्यदभावे अविक्षन्त । नायं लित् । ऊदिदित्येके । तन्मते 'हशिट' इति सकि अविक्षत् । ऊदित्त्वात् क्त्वि वेटि विष्वा वेषित्वा । अनुस्वारेत्वान्नेट वेष्टा वेष्टुम् । विष्टः विष्टवान् । 'नाम्युपान्त्य०' (५।११५४) इति के विषः विषम् । णके परिवेषकः । कर्मजेति प्रतिषि-३० द्धोऽपि याजकादित्वात् षष्ठीसमासः । साधुपरिवेषकः । ध्यणि वेष्यः । धनि वेषः । उणादौ विषेः कित् (७६९) इति णौ विष्णुः । एकः षकारान्तोऽनिट् । एवं षडुभयपदिनो ह्रादयः।
अत्रान्यैरन्येप्येकादशाधीयन्ते । ते त्वलौकिकत्वादस्माभिरुपेक्षिता इति श्रीधातुपारायणे श्रीसूरिभिरुक्तम्, ते चैवम् 'घृ क्षरणदीप्त्योः' । ह्वादित्वात् द्वित्वे जघर्ति । 'हृ प्रसह्यकरणे'३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org