________________
६६०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
वानो द्विर्भावः । गुरुनाम्यादेरित्यत्रोर्णुवर्जनात्परोक्षाया आमभावः । ऊर्णुनाव ऊर्णुनुवतुः ऊर्णुनुवुः । ऊर्णुनविथ-ऊर्णुनुविथ ६ । ऊर्णूयात् ७ । ऊर्णुविता-ऊर्णविता ८ । ऊर्णुविष्यति ऊर्णविष्यति ९। और्णुविष्यत् और्णविष्यत् १० । ऊर्णुते ऊर्णुवाते ऊर्णुवते १ । और्णुविष्ट - और्णविष्ट १० । 'ष्टुंग स्तुतौ' । उत और्वितीत्यौत्वे, स्तौति । यङ्गुरुस्तोरितीदागमे, स्तवीति स्तुतः स्तुवन्ति ५१ । स्तुयात् २ । स्तौतु-स्तवीतु स्तुतात् ३ । अस्तौत् अस्तवीत् ॥ ६३ ॥
1
'अयि०' स्यात्तु रादनन्तरे यीति - रेफात्पर आनन्तर्येण यकारश्चेन्न भवति तदा रेफो द्विर्न स्यात् । यथा अर्चिचिषति । प्रोर्णुनविषति । प्रोर्णोनूयते । प्रोर्णुनाव । प्रोर्णुनवत् । आर्चिचत् । आनन्तर्येण यि परे तु रोऽपि द्विः स्यादेव । अरार्यते । अर्यमाख्यातवान् आर्यत् । अत्र 'स्वरस्य परे प्राग्विधौ' ( ७|४|११० ) इति स्वरादेशो ऽन्त्यस्वरलोपरूपो द्वित्वे कार्ये स्थानी निमित्तापेक्षयापि प्राविधिरिष्यते १० इति । संयोगादिरित्येव अरिरिषति । णत्वस्यासत्त्वादिति 'णषमसत्परे स्यादिविधौ च ' (२२११६० ) इति सूत्रेण द्वित्वरूपे परे विधौ कर्त्तव्ये णत्वस्य णत्वशास्त्रस्य वाऽसत्त्वादन्यथा प्रोर्गुणावेति रूपप्रसङ्गः स्यादिति । अस्योपलक्षणत्वादन्येषामपि केषाञ्चित्संयोगादीनां द्वित्वं न स्यादिति निरूप्यते । 'न बदनं संयोगादि:' ( ४|१|५ ) स्वरादेर्धातोर्द्वितीय स्यावयवस्यैकस्वरस्य बकारदकारनकाराः संयोगस्यादयो न द्विर्भवन्ति । 'उब्जत् आर्जवे' । उब्जिजिषति । अट्टिटिषति । अड्डिडिषति १५ उन्दिदिषति । इन्दिद्रीयिषति । औब्जिजत् । आट्टित् । आड्डड्डत् । औन्दिदत् । बदनमिति किम् ? ईचिक्षिषते । संयोगादिति किम् ? प्राणिणिषति । अट्यर्त्तीति यङि प्रोर्णोनूयते प्रोर्णविता प्रोर्णुविता । प्रोर्णवितुम् २ | सनि 'इवृध ० ' ( ४।४।४७ ) इति वेटि प्रोर्णुनुविषति प्रोर्जुनविषति । पक्षे प्रोर्णुनूषति । किति ‘ऋवर्ण ० ' ( ४।४।५७ ) इति नेट् प्रोर्णुत: प्रोर्णुतवान् । ऊर्णेति' विणुर्विशे'ति ( १८२ ) णे ऊर्वतेः । ष्टुंग इति । 'षः स० ' ( २।३।९८ ) इति सत्वे स्तौति । 'उपसर्गा२० त्सुग०' (२।३।३९) इति षत्वे अभिष्टौति ॥ ६३ ॥ उपसर्गविशेषे विशेषमाह । सूत्रम्
1
1
स्तुस्वञ्जश्चाटि नवा ॥ ६४ ॥ [ सि० २|३|४९ ]
परिनिवेः परस्य स्तुस्वञ्जरसो सिवूस हस्सटां च सोऽटि सति ष् वा स्यात् । पर्यष्टौत्पर्यस्तौत् एवं न्यष्टौत्, व्यष्टौ ४ | धृग् सुस्तोरितीटि, अस्तावीत् अस्ताविष्टाम् अस्ताविषुः ५ । तुष्टाव । स्क्रसृत्रित्यादिसूत्रे स्तुवर्जनान्नेट् । तुष्टोथ तुष्टुवथुः तुष्टुव । तुष्टाव तुष्टव तुष्टुव तुष्टुम । २५६ । स्तूयात् ७ । स्तोता ८ । स्तोष्यति ९ । अस्तोष्यत् १० । स्तुते १ । स्तुवीत २ । स्तुताम् ३ । अस्तुत ४ । अस्तोष्ट अस्तोइदम् ५ । तुष्टुवे तुष्टुद्धे ६ । स्तोषीष्ट ७ । स्तोता ८ । स्तोष्यते ९ । अस्तोष्यत १० । 'ब्रूगक व्यक्तायां वाचि' ॥ ६४॥
,
‘स्तु॰’ स्पष्टम् । ‘नाम्यन्तस्था ० ' ( २|३|१५ ) इति षत्वे तुष्टावेत्यादि । 'उत औ०' इत्यत्राद्वे • रिति वचनाद्वित्वे औत्वाभावः । तुष्टुव तुष्टुम । यङि तोष्टृयते । यङ्लुपि तोष्टोत तोष्टवीति । सनि ३० तुष्टृषति । अनित्वात् स्तोता प्रस्तोता । 'दृवृग् ० ' ( ५|१|४० ) इति क्यपि स्तुत्यः । 'दियुद्ददृद्०' (५/२/८३ ) इति क्विपि निपातनात् आयतस्तवनशील आयतस्तूः । एवं ग्रावस्तुत् । ' नीदांव्ο' (५।२।८८ ) इति त्रदि स्तोत्रम् । क्विप्युपसर्गादिति षत्वे परिष्टुत् । 'समासेऽग्नेः स्तुतः' ( २।३।१६ ) अग्निष्ठुत् । ‘प्रात्स्नुद्रुस्तोः' ( ५।३।६७ ) इति घञि प्रस्तावः । 'संस्तो:' ( ५|३|६६ ) समेत्य स्तुव३४ न्त्यत्र संस्तावः । यज्ञविषयादन्यत्र 'युवर्ण ० ' ( ५/३/२८ ) इत्यलि संस्तवः एवं स्तवः । ‘श्रवादिभ्यः’
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org