________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदादय उभयपदिनः
६५९
इत्यनेन नित्यं औत्वे प्राप्तेऽनेन विकल्पः । यङ्लुबन्तस्यापीच्छन्त्यन्ये प्रोर्णोनौति ॥ ५८ ॥ दिसिवोः सूत्रम्
न दिस्योः ॥ ५९ ॥ [ सि० ४ | ३ | ६१ ]
ऊर्णोतेर्दिस्योः परयोरौर्न स्यात् । और्णोत् दू । और्णुवन् - और्णोः ४ ॥ ५९ ॥
'न दि०' पृथग्योगात् 'उत औ' विंति प्राप्तमपि औत्वं प्रतिषिध्यते । अन्यथा वोर्णोरदिस्योरिति ५ सूत्रं क्रियेत । दिस्योरिति किम् ? प्रोष्णौषि । दिसाहचर्यात् ह्यस्तन्या एव सिर्गृह्यते न तु वर्त्तमानाया इति ॥ ५९ ॥ अद्यतन्यामुपयोगिसूत्राणि -
वोर्णुगः सेटि ॥ ६० ॥
[ सि० ४।३।४६ ]
ऊर्णोतेः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् ॥ ६० ॥
1
वोर्णु० परस्मै इत्येव । प्रौर्णविष्ट ॥ ६० ॥ अस्येटो वा ङित्वमित्यत्र सूत्रम् वोर्णोः ॥ ६१ ॥ [ सि० ४ | ३ | १९]
ऊणोंतेरिज्ञ वा ङिद्वत्स्यात् । और्णावीत् और्णवीत् और्णुवीत् और्णाविष्टाम् और्णविष्टाम् और्णुविष्टाम् ५ ॥ ६१ ॥
१०
1
'वो०' स्पष्टम् । 'वोर्णुग०' इत्यत्र सानुबन्धोपादानं यङ्लुप्-निवृत्त्यर्थम् । तेन प्रौर्णोनावीत् । अत्र 'वोर्णुग०' इति वृद्धिविकल्पो न, किन्तु 'वोर्णो' रितीटो ङित्वविकल्प एव । ततश्च अङित्त्वपक्षे १५ 'सिचि परस्मै समानस्याङिति ' ( ४ | ३ | ४४ ) इति नित्यं वृद्धिः । ङित्वे तु गुणवृद्ध्यभावे उवादेशे प्रोर्णुनुवीत् । 'वोण' रित्यत्र हि अनुबन्धाभावाद्यङ्लुबन्तस्यापि ग्रहणम् । एवं प्रकृते ( शुद्धधातो )खैरूप्यं यङ्लुबन्तस्य च द्वैरूप्यं सिद्धं भवति । परोक्षायां 'द्विर्धातुः परोक्षाङे० ' ( ४|१|१ ) इति सूत्रेण ऊर्णु इत्यादेः समग्रधातोर्द्वित्वे प्राप्ते ॥ ६१ ॥ सूत्रम्
1
Jain Education International
स्वरादेर्द्वितीयः ॥ ६२ ॥ [ सि० ४ १४ ]
२०
स्वरादेर्धातोर्द्वितीयोंऽश एकस्वरो द्विः स्यात् ॥ ६२ ॥
।
'स्वरा०' अयं भावः । स्वरादेर्धातोर्द्विवचनभाजो द्वितीयोंऽश एकस्वरो द्विर्भवति नत्वाद्यः । यथा अटिटिषति अशिशिषति । अटाट्यते अशाश्यते । प्राक्तु स्वरे स्वरविधेरित्येव आटिटत् आशिशत् प्रोर्णुनाव प्रोर्णुनविषति । अत्र वृद्धिगुणाभ्यां प्राक् द्विर्भावः । अरिरिषति । अरिरीषत्यत्र त्विटः कार्यित्वं न निमित्तत्वम् । ततो द्वित्वनिमित्तस्य स्वरादिप्रत्ययस्याभावात् प्राग् गुणरूपः स्वरविधिरेव । अत्रा - २५ यमभिप्रायः । ‘ऋक् प्रापणे' ' ं प्रापणे' 'ऋश् गतौ वा' । अर्त्तुमरितुमरीतुं वा इच्छतीति सनि आद्याभ्यां ‘ऋस्मिपुङ्' ( ४।४।४८ ) इति ऋशस्तु 'इवृध ० ' ( ४।४।४७ ) इत्यनेनेट् । अरिरीषतीत्येतत्तु ऋश एव । अन्यथा 'वृतो नवा ० ' ( ४|४|३५ ) इति दीर्घो न स्यात् । स्वरादित्वाद्धातोर्द्वितीयांशस्य इट्रूपस्य द्वित्वे चिकीर्षिते इट: कार्यित्वं न निमित्तमिति ॥ ६२ ॥ अथ ऊर्णुनावेत्यादौ 'स्वरादेद्वितीयः इति द्वितीयस्यांशस्य द्वित्वप्राप्तौ रेफस्यापि द्वित्वं प्राप्नोतीति तत्प्रतिषेधाय सूत्रम्
३०
अयि रः ॥ ६३ ॥ [ सि० ४ ११६ ]
स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य संयोगादिरो द्विर्न भवति, स्यात्तु रादनन्तरे यि । णत्वस्यास - ३२
For Personal & Private Use Only
www.jainelibrary.org