________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदादय आत्मनेपदिनः
६५७ वान् । आनशि वसानः । करणेऽनटि वसनम् । वसित्वा । उणादौ प्लुज्ञा०(६४६) इति तौ वस्तिः मूत्राधारश्चर्मपुटः । त्रट (४४६-४५१) इति त्रुटि वस्त्रम् । वस्त्यगिभ्यां णित् (९७०) इत्यसि वासः । 'वसं निवासे' वस्ता । उषितः उषित्वा । आङाशासूकि इति । आङ इति 'आङ्पूर्व एवायं प्रयोज्यो न केवलो नान्योपसर्गपूर्व इत्येवमर्थमिति श्रीहैमधातुपारायणे । अन्ये तु आपूर्वकत्वं प्रायिकम् । तेन प्रशास्महे इत्यपि सिद्धमित्याहुः । काविति सूत्रेणैव सिद्धे आऊ५ इति सूत्रकरणं कावेवापूर्वस्य शास्तेरास इस् नान्यत्र इति नियमार्थम् । आङ एव काविति प्रत्ययनियमस्तु न, पूर्वेणैकयोगाकरणात् तेन 'इसासः शास०' इतीसभावे आशास्ते । क्ये आशास्यते । 'शास्त्यसूवक्ति०' (३।४।३०) इत्यत्र शास्तेरेव ग्रहणादङभावे आशासिष्ट । 'उपान्त्यस्या०' (४।२।३५) इति अत्रापि शास्तेरेव प्रतिषेधाण्णौ डे हस्खे आशीशसत् । अस्यापि हवप्रतिषेध इत्यन्ये । तन्मते आशशासत् । आशासिता आशासितुम् । ऊदित्त्वात् क्त्वि वेट् अत एव चोत्तरपदान्तस्यापि क्त्वो१० यवभावः । यपि हि स्ताद्यशिदभावादिटः प्राप्तिरेव नास्ति । आशास्त्वा आशासित्वा । यपमेवेच्छन्येके। आशास्य । अनूदिदयमित्यन्ये। वेट्त्वात् क्तयोर्नेट् आशास्तः आशास्तवान् । येषां नोदित्तन्मते वेट्त्वाभावादिटि आशासितः आशासितवान् । 'इडिन्त०' (५।२।४४) इत्यने आशासनशीलः आशासनः । 'क्रुत्सम्पदा०' (५।३।११४) इति क्विपि आशीः । 'वादिभ्यः' (५।३।९२) इति क्तौ आशास्तिः । 'शासूक अनुशिष्टौं' शास्ति । शिष्यते । अशशासत् । आसिक इति 'कालाध्व०' (२।२।२३ )१५ इति कर्मत्वे मासमास्ते । 'अधेः शीङ' (२।२।२०) इत्याधारस्य कर्मत्वे ग्राममध्यास्ते । 'दयायास्कासः' (३।४।४७) इत्यामि आसाञ्चक्रे । 'गत्याकर्मक०' (५।१।११) इति वा कर्तरि क्ते आसितश्चैत्रः । पक्षे भावे आसितं चैत्रेण । साप्यात् 'श्लिषशी' (५।१।९) इति वा कर्तरि क्ते उपासितो गुरु शिष्यः । पक्षे कर्मणि उपासितो गुरुः शिष्येण । आसिता आसितुम् । आनशि निपातनात् आसीनः । 'आस्यटि०' (५।३।९७) इति क्यपि आस्था । 'णिवेत्त्य०' (५।३।१११)२० इत्यने आसना उपासना । 'वादिभ्यः' इति क्तौ उपास्तिः । उपलक्षणत्वात् 'कसुकि गतिशातनयोः' । उदित्त्वान्ने कंस्ते चकंसे कंसिता । यङि चाकस्यते । यङ्लुपि चाकंस्ति चाकंसीति । अचि घनि वा कंसः । 'केटः' इत्यः कंसा । णिसुकि इति णोपदेशत्वात् 'अदुरुपसर्ग०' (२।३।७७ ) इति णत्वे प्रणिस्ते परिणिते । अत्र शिटा नकारेण चान्तरेऽपीति प्रत्येकं वाक्यपरिसमाप्तेरिष्टत्वाद् द्वयव्यवधाने षत्वाभावे निस्से । निनिसे । निसिता । एषु सस्य कृतत्वाभावात् षत्वाभावः । यङि२५ नेनिस्यते । यङ्लुपि नेनिसीति नेनिस्ति । 'ऋवर्ण०' (५।१।१७) इति ध्यणि निस्यम् । अचि घनि च निसः । "निसनिक्षनिन्दः कृति वा' (२।३।८४) अदुरुपसर्गान्तः शब्दस्थाद्रवर्णात्परस्य निसादीनां नस्य कृत्प्रयोगे परे णो वा स्यादिति वा णत्वे प्रणिंसनीयम् प्रनिसनीयम् । प्रणिंसनं प्रनिसनम् । कृतोऽन्यत्रापि णत्वविकल्प इत्यन्ये । प्रणिस्ते प्रनिस्ते । प्रणिनिंसे प्रनिनिसे। इति सान्ताः पञ्च सेटः । चक्षिक् इति । आचष्टे इत्यादि स्पष्टम् ॥ ५६ ॥ अशिति सूत्रम्
चक्षो वाचि क्शांग् ख्यांग ॥ ५७॥ [सि० ४।४।४] चक्षो वागर्थस्याशिति विषये कांग्ख्यांगौ स्याता, परोक्षायां नवा । अनुसार इनिषेधार्थः। गकार उभयपदार्थः । आक्शासीत् आक्शासिष्टाम् आक्शासिषुः । जिघ्रतिवत् । आक्शास्त आक्शासाताम् आक्शासत । शास्त्यसूवक्तीत्यङि, आख्यत् आख्यन् ५ । परोक्षायां द्वित्वे व्यञ्जनस्थानादेरिति शलुपि, हस्खे कडश्चमिति चत्वे आचक्शौ-आचकशे । द्वितीयतुर्ययोरिति ३५
है• प्रका० उत्त० ८३
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org