________________
६५६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
ईशीडः सेध्वेखध्वमोः॥ ५६ ॥ [सि०।४।४।८७] आभ्यामेष्विट् स्यात् । ईडिपे ईडाथे ईडिध्वे । ईडे ईड्वहे ईमहे १ । ईडीत २ । ईट्टाम् ३। ऐट्ट ४ । ऐडिष्ट ५ । गुरुनाम्यादेरित्यामि ईडाचक्रे ६ । ईडिषीष्ट ७ । ईडिता ८ । ईडिष्यते ९ । ऐडिष्यत १० । 'ईरिक् गतिकम्पनयोः'। ईर्ते १ । ईरीत २ । ईर्ताम् ईष्व ५ईर्ध्वम् ३ । ऐर्त्त ४ । ऐरिष्ट ५। ईराश्चके ६ । ईरिषीष्ट ७ । ईरिता ८ । ईरिष्यते ९ । ऐरिष्यत
१०। 'ईशिक ऐश्वर्ये । ईष्टे ईशिषे ईशिध्वे १। ईशीत २ । ईष्टाम् ३ । ऐष्ट ४ । ऐशिष्ट ५। ईशाञ्चक्रे ६ । ईशिषीष्ट ७ । ईशिता ८ । ईशिष्यते ९ । ऐशिष्यत १० । 'वसिक् आच्छादने'। वस्ते १ । वसीत २ । वस्ताम् ३ । अवस्त ४ । अवसिष्ट ५ । ववसे ६ । वसिषीष्ट ७ । वसिता
८ । वसिष्यते ९ । अवसिष्यत १० । 'आङ शासूकि इच्छायाम् । आशास्ते १० । आङ्१० पूर्वत्वं प्रायिकं तेन प्रशासहे इत्यपि सिद्धम् । 'आसिक् उपवेशने' । आस्ते १ । आसीत् २ ।
आस्ताम् ३ । आस्त ४ । आसिष्ट ५ । 'दयायास्कासः' आसाञ्चक्रे ६ । आसिषीष्ट ७ । आसिता ८ । आसिष्यते ९ । आसिष्यत १० । 'णिसुकि चुम्बने' । उदितः स्वरादिति नुमागमे, निस्ते १० । 'चक्षिक व्यक्तायां वाचि' । संयोगस्येति क्लुपि आचष्टे आचक्षाते आचक्षते ।
आचक्षे आचक्षाथे आचड्ढे १ । आचक्षीत २ । आचष्टाम् ३ । आचष्ट आचक्षाताम् १५आचक्षत ४ ॥५६॥ _ 'ईशी.' आभ्यामिति । ईशिक ऐश्वर्य' 'ईडिक स्तुतौ' इत्याभ्यामित्यर्थः । एष्विति वर्तमानासेध्वयोः पञ्चमीस्वध्वमोश्चेत्यर्थः । स्व(सह)चरितस्य ध्वमो ग्रहणात् ह्यस्तनीध्वमीडभावे ऐड्वम् । शेषं स्पष्टम् । ईडिता ईडितुम् । 'ऋवर्ण०' (५।११७) इति व्यणि ईड्यः । 'क्तेट०' इत्यः ईडा ।
पृषोदरादित्वात् ह्रस्वे इडा भूः । उणादौ म्लेच्छीडे ह्रस्वश्च वा (३) इत्यः इडः ईडश्च देवविशेषः । २० इडा ईडा च भूः। ईडेरविड् ह्रस्वश्च (८७९) अस्मादविड् प्रत्ययो ह्रस्वश्चास्य भवति । इडविट् विस्रवाः।
इति डान्तः सेट १ । ईरिक् इति सर्वापि प्रक्रिया स्पष्टा । क्ये ईर्यते । ईरिता ईरितुम् । 'ऋवर्ण०' (५।१।१७) इति ध्यणि ईर्यः । 'नाम्युपान्त्यः ' (५।१।५४) ईरः । 'अजातेः शीले' (५।१।१५४ ) इति णिनि 'स्वैरस्वैर्य०' (१।२।२५) इति सस्य ईता सहैत्वे स्वैरी । उणादौ तृकृश०
( १८७ ) इत्यणे समीरणः । कफादीरेल च (८३९) इत्यूः कफेलूः श्लेष्मातकः । 'ईरण क्षेपे । २५ युजादित्वाद्वा णिचि ईरयति ईरति । इति रान्तः सेट १ । ईशिक् इति 'स्मृत्यर्थ०' (२।२।११)
इति वा कर्मत्वे 'शेषे (२।२।८१) इति षष्ठयां भुव ईष्टें भुवमीष्टे । 'ईशीड०' (४।४।८७) इतीटि ईशिषे ईशिध्वे । ईशिष्व ईशिध्वम् । पञ्चमीध्वमो ग्रहणात् ह्यस्तनीध्वमीडभावे 'यजसृज०' (२।१॥ ८७) इति शस्य षत्वे 'तवर्गस्य०' (१।३।६०) इति धस्य ढत्वे 'तृतीयस्तृतीय०' (१।३।४९) इति षस्य डत्वे, 'स्वरादेस्तासु' (४।४।३१) इति वृद्धौ ऐड्वम् । ईशिता । 'नाम्युपान्त्य०' (५।१। ३०५४) इति के ईशः । आनशि ईशानः । 'स्थेश०' (५।२।८१) इति वरे ईष्टे इत्येवंशीलः ईश्वरः । स्त्रियामापि ईश्वरा । ईश्वरीति तु अनोतेरीच्चादेः (४४२) इति वरटि । अनुते व्याप्नोतीति ईश्वरो विभुः । ईश्वरी स्त्री । क्ते ईशितः । 'क्तेट०' इत्यः ईशा । उणादौ युयुजि० (२७७ ) इति कित्याने
ईशानः । इति शान्तः सेट १ । वसिक् इति । क्ये वस्यते । 'अनादेशादे.' (४।१।२४) इत्ये३४ त्वस्य द्वित्वाभावस्य च 'न शस०' (४।१।३०) इति प्रतिषेधे ववसे ववसाते । वसितः वसित
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org