________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे अदादय आत्मनेपदिनः
६५५
( ७१६ ) इत्युः शयुः अजगरः । शीङो धुक् ( ७८४ ) शीधुः । शीङः फश्च (९८२ ) इति फसि पसि च शेफः शेषश्च मेढ्रः । शेखर शिखरौ तु शाखेरिदेतौ चातः (४०० ) इत्यरे शाखेः । 'दीधीङ् दीप्तिदेवनयो:' । वेवीङ् वीसमानार्थः । एतावपि केचित्पठन्ति । छान्दसत्वात्तपेक्षितौ । इि दीर्घेकारान्तोऽनिट् । उपलक्षणत्वात् 'हुक् अपनयने' अपनयनमपलापः । 'मनयवलपरे हे ' ( १।३।१५) मनयवलपरे हे परे मोऽनुनासिकानुस्वारौ स्याताम् । किम्ालयति किं ालयति । ५ किन्ते किं ह्रुते । किंाः कियूँह्यः । ह्विलयति । किंह्वलयति । किल्ह्रादते किंादते । एषु किं इति प्रकृतधातो रूपम् । ‘श्लाघहुस्था ० ' (२२६० ) इति चतुर्थ्यां चैत्राय निह्नुते । जुहुवे । जोहूयते । अनुस्वारेत्त्वान्नेट् होता ह्रोतव्यम् । 'य एच्चात:' ( ५।१।२८ ) इति ये हव्यम् । 'उवर्णात् ' (५।१।१९ ) इति ध्यणि ह्राव्यमवश्यम् । 'युवर्ण० ' ( ५।३।२८) इत्यलि अपह्नवः । इत्युदन्तोऽनिट् । षूङौक् इति । 'षः सोऽट्यै ० ' (२।३।९८ ) इति सत्वे सूते इत्यादि व्यक्तम् । पोपदेशत्वात् १० 'नाम्यन्तस्था०' (२|३|१५ ) इति षत्वे सुषुवे इत्यादि । क्ये सूयते । यङि सोषूयते । यङ्लुपि सोषोति सोषवीति । णौ ङे असूषवत् । णौ सनि सुषावयिषति । औदित्त्वाद्वेटि सोता सविता | किति 'उवर्णात् ' ( ४|४|५८) इति नेट् सूतः सूतवान् । युवतौ 'भोजसूतयोः क्षत्रियायुवत्योः ' (२।४।८१ ) इत्यन्त्यस्य ष्ये भोज्या सूत्या । युवतेरन्यत्र कुत्सितेति कपि 'व्येष सूतपुत्र वृन्दारकस्य' (२|४|१०९ ) इत्यतो वेत्वे सूतिका सूतका । 'निर्दुः सुवे: ० ' (२।३।५६ ) इति षत्वे निःषूतिः १५ दुःषूतिः सुषूतिः । सूत्वा । 'सचाय ० ' ( ५ |१| २२ ) इति व्यणि निपातनात् राजसूयः क्रतूः । किपि सूः प्रसूः अण्डसूः शतसूः । 'प्रात्सृजोरिन्' ( ५/२/७१ ) इत्यत्र सूतेरपि ग्रहणमित्येके प्रसवशीलः प्रसवी । 'क्लीवे० ' ( ५|३|१२३ ) इति के सूतम् । स्वार्थे के सूतकम् । उणादौ ऋज्यजि० ( ३८८ ) इति किति रे सूरः सुभटः । सुवः कित् ( ७८८ ) इति नौ सूनुः । ' षूङौच् प्राणिप्रसवे' सूयते । 'धूत् प्रेरणे' सुवति । इत्युदन्तः सेट् १ । 'पृचैड् पृजुङ् पिजुकि सम्पर्चने' | सम्पर्चनं मिश्रणम् | २० सम्पृक् । सम्पृच्यते । सम्पवृचे । संपर्चिता । संपर्चितुम् । ऐदित्वात् क्तयोर्नेट् सम्पृक्तः सम्पृक्तवान् । ‘ऋदुपान्त्य० ' ( ५।१।४१ ) इति सम्पृच्यः । घनि 'तेनिट ०' इति कत्वे सम्पर्कः । सम्पृक्तेरपि 'समः पृचैबू ० ' ( ५/२/५६ ) इति धिनणित्येके । तन्मते सम्पनशीलः सम्पर्की । अयं जैङिति कौशिकः । 'पृचैप् सम्पर्के' । पृणक्ति इति चान्तः सेट् ? । पृजुङ उदित्त्वाने ते पृञ्जाते । अपृञ्जिष्ट । पपृ । वृञ्जिता पृञ्जितुम् । पिजुकि उदित्वान्ने पिङ्क्ते पिञ्जाते । अपिञ्जष्ट । २५ पिपिञ्जे । पिञ्जिता पिडितुम् । यङि पेपिञ्जयते । यङ्लुपि पेपिङ्क्ति पेपिञ्जीति । घञि न्यङ्कादित्वात् गत्वे पिङ्गः । उणादौ ऋच्छिचटि० (३९७ ) इत्यरे पिञ्जरः । पिञ्जिमञ्जि० (४८८) इत्यूले पिञ्जल: हस्तिबन्धनपाशः । वर्णार्थोऽयमित्येके । अव्यक्तशब्दार्थ इति कौशिकः । 'पिजुगू हिंसादौ भासार्थश्च' पिञ्जयति । ‘वृजैकि वर्जने' वृक्ते वृजाते वृजते । अवर्जिष्ट । ववृजे । वर्जिता वर्जितुम् । ऐदित्त्वात् क्तयोर्नेट् वृक्तः वृक्तवान् । 'वृजैण् वर्जने' युजादित्वाद्वा णिचि वर्जति वर्जयति । 'णिजुकि ३० शुद्धौ' । 'पाठे० ' (२।३।९७ ) इति णस्य नत्वे, उदित्वान्ने च निङ्क्ते । गोपदेशत्वात् 'अदुरुपसर्ग ०' (२।३।७७ ) इति णत्वे प्रणिङ्के । अनञ्जिष्ट । निनि । निञ्जिता निञ्जितुम् । 'शिजुकि अव्यक्ते शब्दे' । तालव्यादिः । उदित्वाने शिते शिञ्जाते शिञ्जते । अशिञ्जिष्ट । शिशिञ्जे । शिञ्जिता । यङि शेशिञ्जयते । यङ्लुपि शेशिञ्जीति शेशिङ्कि । ग्रहादित्वाणिनि शिञ्जिनी । क्लीवे के शिञ्जितम् । इति जान्ताः सेटः पञ्च । ईडिक् इति । 'अघोषे० ' ( १।३।५० ) इति डस्य प्रथमत्वे 'तवर्गस्य ० ' ( १।३।६० ) इति तस्य टत्वे च इट्टे इति ॥ ५५ ॥ सेप्रभृतिषु सूत्रम्
1
1
३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org