________________
६५४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
शीङ ऐः शिति ॥ ५४॥ [सि० ॥३॥१०४ ] शेते शयाते ॥५४॥ 'शी' शितीति किम् ? शिश्ये । संशीतिः ङिनिर्देशाद्यङ्लुपि न भवति । शेशेति । शेशयीति शेशीतः शेश्यति ॥ ५४ ॥ बहुवचने सूत्रम्
शीङो रत् ॥ ५५॥ [सि० ४।२।११५] शीङः परस्याऽऽत्मनेपदस्थस्याऽन्तो रत् स्यात् । शेरते १ । शयीत २ । शेताम् शयाताम् शेरताम् ३ । अशेत ४ । अशयिष्ट ५। शिश्य ६ । शयिषीष्ट ७ । शयिता ८ । शयिष्यते ९ । अशयिष्यत १० । 'पूडोक् प्राणिगर्भविमोचने । सूते १ । 'धातोरिवर्णोवर्णस्यः' इति उवादेशे
सुवीत २ । सूताम् विच्छितोऽक्कुित्त्वाद्गुणे प्राप्ते । सूतेः पञ्चम्याम् (४।३।१३) गुणो न १० स्यात् । सुवै ३ । अस्त ४ । औदित्त्वादिड्विकल्पः । असविष्ट असविषाताम् असविषत ।
असोष्ट असोषाताम् असोषुः ५ । सुषुवे सुषुविषे ६ । सोषीष्ट-सविषीष्ट ७ । सोता-सविता ८। सोष्यते-सविष्यते ९ । असोष्यत-असविष्यत १० । इत्यादि । 'ईडिक स्तुतौ । ईट्टे ईडाते ईडते ॥५५॥
'शीडो०' स्पष्टम् । 'अधेः शी' (२।२।२०) इत्याधारस्य कर्मत्वे ग्राममधिशेते । विति १५यि शय् (४।३।१०५) शय्यते अधिशय्य गतः । यङि शाशय्यते । यीति किम् ? शिश्यानः । कुितीति किम् ? 'य एचातः' (५।१।२८) इति ये शेयम् । यङ्लुपि न भवति । संशेशीय । क्त्वो यपि संशय्य शयिता शयितुम् । शयितव्यम् । शयितः शयितवान् । अचि शयः । 'पार्वादिभ्यः शीङ' इत्यः पार्श्वशयः । 'ऊर्ध्वादिभ्यः कर्तुः' (५।१।१३६) ऊर्ध्वशयः उत्तानशयः ।
'आधारात्' (५।१।१३७) खशयः गिरिशयः । गिरिश इति तु लोमादित्वान्मत्वर्थीये शे । स्थण्डि२० लाच्छेते 'व्रते' इति णिनि स्थण्डिलशायी । 'श्लिषशीङ' (५।११९) इति साप्यादपि वा कर्तरि क्ते 'न डीशी (४।३।२७ ) इति कित्त्वप्रतिषेधाद्गुणे उपशयितो गुरुं शिष्यः । पक्षे कर्मणि क्ते उपशयितो गुरुः शिष्येण । 'शीश्रद्धा' (५।२।३७) इत्यालौ शयनशीलः शयालुः । 'युवर्ण' (५।३।२८) इत्यलि संशयः । 'व्युपाच्छीङ' (५।३१७७) इति घनि तव विशायः मम विशायः ।
तव राजोपशायः मम राजोपशायः । 'समज.' (५।३।९९) इति क्यपि शेरतेऽस्यामिति शय्या । २५ आधारेऽनटि शयनम् । शवानां शयनं श्मशानमिति पृषोदरादिः । उणादौ शीभी० (७१) इत्यानके
शयानकः अजगरः शैलश्च । शिखा शाखेति श्यतेरिञ्च वा (८५) इति खे श्यतेः । शीरी० (२०१) इति किति ते शीतम् । हपृभृ० (२०७) इत्यते शयतः निद्रालुश्चन्द्रश्च । न्यु-द्भयां शीङः । (२२८) इति किति थे निशेरतेऽस्मिन्निति निशीथः अर्द्धरात्रः रात्रिः प्रदोषश्च । उच्छीथः स्वप्नः टिट्टिभश्च ।
भृशीशपि० (२३२) इत्यथे शयथः अजगरः । जीणशीदी० (२६१) इति किति ने शीन: पीलुः। ३० शीङः सन्वत् (२६७) इति डिति ने शिश्नं मेढम् । भापा० (२९६) इति पप्रत्यये शेपः पुच्छम् ।
रीशीभ्यां फः (३१४) शेफः मेढ़म् । शुकशीमूभ्यः कित् (४६३) इति ले शीलम् । शीङस्तलक्पालवालण्वलण्वलाः (५०१) शीतलं अनुष्णम् । शेपालम् जपादित्वाद्वत्वे शेवालं शेवलं शैवालं
शैवलं च जलमलः । शीङापो ह्रस्वश्च वा (५०६) इति वे शिवं क्षेमं सुखं मोक्षपदं च । शिवा ३४ हरीतकी । शेवं धनं सुखं च । शेवः अजगरः । शेवा । प्रचला निद्राविशेषः मेढ़श्च । भृमृत०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org