________________
६५० . महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुहयत् अङे द्विर्वचननिमित्तप्रत्ययेऽनन्तरस्य विज्ञानादिह न भवति । हनयितुमिच्छति जिहनयिपति (हननीयितुमिच्छति जिहननीयिषति इत्यपि सिद्धहेमबृहद्वृत्तौ ) उपर्युदासात्तु णिव्यवधाने भवति । प्रजिघायियिषति । पूर्वादिति वचनान्न च द्विरिति निवृत्तम् । थवि 'मृजिदृशि०' (४।४७८) इति वेटि जघनिथ जघन्थेति ॥ ४५ ॥ आशिषि सूत्रम् ५ हनो वध आशिष्यौ ॥ ४६॥ [सि० ४।४।२१].
आशीविषये हन्तेर्वधः स्यात्, न तु मिटि । वध्यात् वध्यास्ताम् वध्यासुः ७ । हन्ता ८ । हनृतः स्यस्येतीडागमे, हनिष्यति ९ । अहनिष्यत् १० । 'वशक् कान्तौ । यजसृजेति षत्वे, तवर्गस्य श्चवर्गेति टत्वे, वष्टि ॥ ४६॥
'हनो.' आशीविषये इति । अत्र विषयविज्ञानात्पूर्वमेवादेशे वध्यादित्यकारलोपः । अन्यथा १० 'अतः' इति सूत्रेऽपि विहितव्याख्यानात्स न स्यात् । अबाविति किम् ? 'भावकर्मणोः' (३।४।६८) 'स्वरग्रहदृशहन्भ्यः स्यसिजाशीःश्वस्तन्याम्०' (३।४।६९) इति निटि घानिषीष्ट घानिष्यते त्वया । सनि 'स्वरहन०' (४।१।१०४) इति दीचे जिघांसति । यडि 'हनो नीर्वघे' (४।३।९९) जेन्नीयते । वधादन्यत्र जङ्घन्यते । 'चराचरे०' (४।१।१३) इत्यचि वा निपातनात् घनाघनः । पक्षे हनः 'केशादिभ्योऽपात्' (५।११८१) क्लेशापहः तमोऽपहः । 'कुमारशीर्षाण्णिन्' ( ५१११८२ ) कुमारघाती १५शीर्षघाती । 'अचित्ते टक्' (५।१।८३ ) पित्तन्नं घृतम् । वातनं तैलम् । 'जायापतेश्चिह्नवति'
(५।१।८४) जायानो द्विजः । पतिघ्नी कन्यां । 'ब्रह्मादिभ्यः' (५।११८५) ब्रह्मनः । शत्रुघ्नः । बाहुलकात् सम्प्रदानेऽपि । गां हन्ति यस्मै दातुं स गोनोऽतिथिः । 'हस्तिबाहुकपाटाच्छक्तौ' (५।१।८६) हस्तिन्नः बाहुघ्नः कपाटनो मल्लः । शक्तरन्यत्र हस्तिघातो रसदः । एवं बाहुघातः कपाट घातः । एषु 'कर्मणोऽण्' (५।११७२) इत्यण् । 'नगरादगजे' (५।११८७ ) नगरनोऽरिः । गजे तु नगरघातः । २० राजानं हन्ति 'राजघः' (५।१।८८) 'पाणिघताडधौ शिल्पिनि' (५।११८९) अन्यत्र कर्मणोऽपि पाणिघातः ताडघातः । एवं दार्वा घातः । चार्वाधातः। वर्णसङ्घातः । दार्वाघाटः चार्वा घाटः वर्णसंघाट इति तु घटतेः, हन्तेरेव वा पृषोदरादित्वात् । 'हनो णिन्' (५।१।१६०) पितृघाती । 'ब्रह्मभ्रूण' (५।१।१६१) इति भूते किपि ब्रह्महा, भ्रूणहा, वृत्रहा । 'कचित्' । (५।१।१७१)
डे वरमाहन्ति वराहः । पटे हन्यते पटहः । कलं हन्ति कलहः । 'युजभुज०' (५।२।५०) इति २५ घिनणि अभ्याहननशीलोऽभ्याघाती । 'शकम' (५।२।४०) इत्युकणि आघातशील आघातुकः
(व्याधः) । 'हनोऽन्तर्घनान्तर्घणौ देशे' (५।३।३४) अन्तर्हन्यते यस्मिन् अन्तर्घनः अन्तर्घणो वा देशः, अन्तर्घातोऽन्यः । 'प्रघणप्रघाणौ गृहाशे' (५।३३५) प्रघणः प्रघाणश्च द्वारालिन्दकः । 'निघोध्वसङ्घोध्वनाऽपधनोपन्नं निमित्तप्रशस्तगणात्याधानाङ्गासन्नम्' (५।३।३६) निघाः वृक्षाः । निघाः शालयः । उध्वो मनुष्यः प्रशस्त इत्यर्थः । 'मुर्तिनिचिताऽभ्रे घनः' (५।३।३७) दध्नो धनः ३० काठिन्यमित्यर्थः । घनं दधीति गुणवचनत्वात् । घनं निचितम् , घनोऽभ्रम् । 'व्ययोद्रोः करणे'
(५।३।३८) विधनः । अयोधनः । अरीहणादिपाठाण्णत्वे द्रुघणः ॥ 'स्तम्बाद् घनश्च' (५।३।३९) स्तम्बनो दण्डः । स्तम्बधनः । 'परेघः' (५।३।४०) 'परेर्णाङ्कयोगें' (२।३।१०३) इति लत्वे पलिघः। 'स्थादिभ्यः कः' (५।३।८२) इति के, विहन्यतेऽनेनेति विघ्नः । 'हनो वा वध् च' (५।३।४६) वधः,
घातः । वध्य इति वधेय॑णि 'न जन०' (४।३।५४) इति वृद्धिप्रतिषेधात् वधमहतीति वा दण्डादेर्ये । ३५ 'सातिहेति०' (५।३।९४ ) इति क्तौ निपातनात् हतिः । 'हनश्च०' (५।४।६३) इति णमि समूल
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org