________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदादयः परस्मैपदिनः ख्याननिवासेषु' वेदयते इति दान्तः सेट १ । हनक इति । 'नेदा०' (२।३१७९) इति नेर्णत्वे प्रणिहन्ति चौरस्येति । अत्र 'निप्रेभ्यः' (२।३।१५) इति वा कर्मणः कर्मत्वे शेषषष्ठी । पक्षे चौरं प्रणिहन्ति ॥ ३९ ॥ हनो नस्य णत्वे सूत्रम्
हनः ॥ ४०॥ [सि० २२३८२] अदुरुपसर्गान्तस्थाद्रादेः परस्य हन्ते! " स्यात् ॥ ४०॥ 'हन:' यथा प्रहण्यादित्यादौ नित्यं णत्वम् । ठमोः परयोस्तु वा णत्वम् ॥ ४० ॥ तथा च सूत्रम्
वमि वा ॥४१॥ [सि० २।३।८३] व्मोः परयोस्तु वा । प्रहण्मि-प्रहन्मि प्रहवा-प्रहन्वः १ । हन्यात्-प्रहण्यात् २ । हन्तु-हतात् हताम् भन्तु । शासाऽस्हन इति, जहि-हतात् हतम् हत । हनानि हनाव हनाम ३ । अहन् अहताम् अनन् । अहन् अहतम् अहत । अहनम् अहन्व अहन्म ४॥४१॥
"वमि०' स्पष्टम् । जहि इति । जहि शत्रून् । यलुपि नेच्छन्त्येके । तन्मते 'यमिरमि०' (४।२।५५) इति नलुकि जङ्घहि । ये तु तिवा शवेति न्यायस्य सूत्रनिर्दिष्टेऽपि प्रवृत्तेरभ्युपगमाद्यमिरमीति लुगभावं 'अहन्पञ्चम०' (४।१।१०७) इति हन्तेरपि दीर्घत्वं चेच्छन्ति । तेषां जङ्घाहि ॥४१॥ अद्यतन्यां सूत्रम्
अद्यतन्यां वा त्वात्मने ॥ ४२ ॥ [सि० ४४२२] अद्यतन्यां विषये हनो वधः स्यात्, आत्मनेपदे तु वा । इट ईतीति सिज्लोपे ॥ ४२ ॥ 'अद्य०' स्पष्टम् । वधादेशे सति ॥ ४२ ॥ सूत्रम्
अतः॥४३॥[सि० ४।३।८२] अदन्ताद्धातोर्विहितेऽशिति प्रत्यये धातोर्लक् स्यात् , इत्यकारलुपि । अवधीत् अवधिष्टाम् अवधिषुः ५॥४३॥
'अतः' व्यक्तम् । अवधीदिति । स्थानिवद्भावेनानुस्वारेत्त्वेऽप्यनेकखरत्वादिति स्वरस्य पर इत्यल्लुकः स्थानित्वात् 'व्यञ्जनादेर्वोपान्त्यस्यातः' (४।३।४७) इति वृद्धिर्न भवति ॥ ४३ ॥ परोक्षाणवि सूत्रम्
__ मिणवि घन् ॥ ४४ ॥ [सि० ४।३।१०९] औ णवि च परे हन्तेर्धन् स्यात् । ततो द्वित्वे, द्वितीयतुर्ययोरिति घस्य गत्वे, गहोर्ज इति तस्य जत्वे, वृद्धौ च जघान ॥४४॥ हनो द्वित्वे गमहनेत्युपान्त्यलुपि
'त्रिण.' 'अडे हिहनो०' (४।१।३४) इति सिद्धौ णवग्रहणं घात् बाधनार्थम् । नौ यथा अघानि ॥ ४४ ॥ द्विवचनादौ सूत्रम्
___ अङे हिहनो हो घः पूर्वात् ॥ ४५ ॥ [सि० ४।१।३४ ] हिहनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात्परस्य हो घः स्यात् । जघ्नतुः जनः । जघनिथ-जघन्थ जनथुः जन्न । जघान-जघन जनिव जनिम ६॥ ४५ ॥
३० __'अ.०' हिहनोरिति 'हिंट गतिवृद्ध्योः' 'हनं हिंसागत्योः' इत्यनयोरित्यर्थः । हि, प्रजिघाय प्रजिघीषति । प्रजेघीयते प्रजेचेति । हनु, जिघांसति जङ्घन्यते जनीति । अङ इति किम् ? प्राजी-३२
है० प्रका० उत्त०८२
२०
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org