________________
६४८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
पञ्चम्याः कृग् ॥ ३८॥ [सि० ३४५२] वेत्तेः परस्याः पञ्चम्याः किदाम् वा स्यात् , आमन्ताच पञ्चम्यन्तः कुगनुप्रयुज्यते । विदाङ्करोतु । पक्षे वेत्तु-वित्तात् वित्ताम् विदन्तु । हुधुटो हेर्धिरिति, विद्धि-वित्तात् वित्तम् वित्त । वेदानि वेदाव वेदाम ३ । व्यञ्जनादेरिति दिवलुपि, अवेत् अवित्ताम् । सिज्विदो भुव इत्युसि ५अविदुः । सेः रद्धां च रुर्वा इति से पि, दस्य रुत्वे । अवेः अवित्तम् अवित्त । अवेदम् अविद्ध अविद्म ४ । अवेदीत् अवेदिष्टाम् अवेदिषुः ५॥ ३८॥
'पञ्च०' पञ्चम्याः सर्वेषां वचनानामामादेशो भवति । पुरुषवचनाभिव्यक्तिस्तु अनुप्रयुक्तात्पञ्चम्यन्तात् कृगो भवति । कित्त्वाच्च गुणो न भवति । विदाङ्करोतु विदाङ्कुरुताम् विदाङ्कुर्वन्तु विदाङ्कुरुतम् __ विदाङ्कुरुत । विदाङ्करवाणि विदाङ्करवाव विदाकरवाम । सम्पूर्वात् 'समो गमृच्छि०' ( ३।३।८४) १० इत्यात्मनेपदे संविदाङ्कुरुताम् संविदाकुर्वाताम् । संविदाङ्कुरुष्व संविदाङ्कुर्वाथाम् संविदाङ्कुरुध्वम् । संविदाङ्करवै संविदाङ्करवावहै संविदाङ्करवामहै ॥ ३८ ॥ परोक्षायां सूत्रम्
वेत्तेः कित् ॥ ३९ ॥ [सि० ३।४।५१ ] वेत्तेः परस्याः परोक्षाया आम्वा स्यात् , स च कित् । विदाञ्चकार ३ । पक्षे विवेद विविदतुः विविदुः । विवेदिथ ६ । विद्यात् विद्यास्ताम् विद्यासुः ७ । वेदिता ८ । वेदिष्यति ९ । १५अवेदिष्यत् १० । 'हनं हिंसागत्यो' । हन्ति । नेओदेति णत्वे प्रणिहन्ति । यमिरमीति
न्लुपि हतः । गमहनेत्युपान्त्यलुपि हनो हो न इति नादेशे नन्ति । हनोघीति णत्वप्रतिषेधे, प्रघ्नन्ति । हंसि हथः हथ । हन्मि हन्वः हन्मः ॥ ३९ ॥
'वेत्ते.' विदाञ्चकारेति । एवं विदाम्बभूव विदामास । पक्षे विवेदेत्यादि । विवेदिथेति । एवं विविदथुः विविद । विवेद विविदिव विविदिम । आत्मनेपदे संविदाश्चक्रे इत्यादि । सेट्त्वात् विदितः २० विदितवान् । 'वौ व्यञ्जनादेः०' (४।३।२५) इति विकल्पापवादे 'रुदविद०' (४।३।३२) इति क्त्वासनोः कित्त्वे विदित्वा विविदिषति । 'नाम्युपान्त्य०' ( ५।१।५४ ) इति के विदः । णौ 'साहिसाति०' (५।११५९) इति शे वेदयः। विपि वित् वेदवित् 'तत्र कसु०' (५।२।२) इति कसौ विद्वान् । 'स्क्रसृवृ०' (४।४।८१) इतीटो 'घसेकखर०' (४।४।८२) इति नियमादत्राभावः ।
'गमहनविद्लूविशदृशो वा' (४।४।८३) इति वेत्तेरपि वेडित्येके । तन्मते विविदिवान् विविद्वान् । २५स्वमते तु लकारो लाभार्थस्य विदेर्ग्रहणार्थस्तेन ज्ञानार्थस्य विविद्वानित्येव भवतीति । 'वा वेत्तेः कसुः' (५।२।२२ ) विद्वान् विदन् । 'वेत्तिच्छिद०' (५।२।७५ ) इति घुरे वेदनशीलो विदुरः । 'विन्द्विच्छू (५।२।३४ ) इति निपातनाद्वेदनशीलो विन्दुः । घनि वेदः। नियां भावाकोंः नाम्नि 'समज.' (५।३।९९) इति क्यपि विद्या । 'णिवेत्ति०' (५।३।१११) इत्यने वेदना । करणाधारे पुन्नानि व्यञ्जनादिति वेदः । 'विदृग्भ्य:०' ( ५।४।५४) इति णमि अतिथिवेदं भोजयति । उणादौ विदि३० भिदि० (२३४) इति कित्यथे विदथो ज्ञानी । विदिवृतेर्वा (६१०) इति वा किदिः विदिः शिल्पी ।
वेदिः इज्यादिस्थानम् । अस् ( ९५२) इत्यसि नखादित्वाददभावे नवेदाः सर्ववेदाः सर्वस्वदक्षिणक्रतुयाजी । यस्त्वोष्ठ्यादिर्जलकणवाची बिन्दुः स बिन्दे मृतृ० (७१६) इत्यौ। 'विदिच् सत्तायाम्' विद्यते । 'विद्लंती लाभे' विन्दते विन्दति । 'विदिप विचारणे' विन्ते । तथा चोक्तम् वेत्तिरूपं ३४ 'विद ज्ञाने' विन्ते 'विद विचारणे' विद्यते 'विद सत्तायाम् लाभे' विन्दति विन्दते । 'विदिण् चेतना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org