________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदादयः परस्मैपदिनः
मृजोऽस्य वृद्धिः ॥ ३५ ॥ [ सि० ४ | ३ | ४२ ]
मृजेर्गुणे सत्यकारस्य वृद्धिः स्यात् । यजसृजेति षत्वे मार्ष्टि मृष्टः || ३५ ॥
'मृजो०' माष्टति । एवं माष्ट मार्टुम् माष्र्ष्टव्यम् मार्जिता मार्जकः सम्मार्जनम् सम्मार्गः । अत इति किम् ? मृज्यते मरीमृज्यते । मृष्टः मृष्टवान् । कथं म्रष्टा म्रष्टुम् ? । द्रमिला जानन्ति ये मृजेरपि सृजादीनामिव रत्वमिच्छन्ति । रत्वमिति सस्वरं रत्वमकारागमेन रत्वं वा ॥ ३५ ॥ स्वरादौ सूत्रम् ५ ऋतः खरे वा ॥ ३६ ॥ [ सि० ४ | ३ | ४३ ]
६४७
मृजेः ऋतः स्वरादौ प्रत्यये वृद्धिर्वा स्यात् मार्जन्ति मृजन्ति । षढोः कः सीति कत्वे, माक्षि मृष्टः सृष्ट । मार्जिम मृज्वः मृज्मः १ । मृज्यात् २ | माटु- मृष्टात् मृष्टाम् मृजन्तु-मार्जन्तु । हुधुटो हेर्धिरिति मृविमृष्टात् मृष्टम् मृष्ट । मार्जानि मार्जाव मार्जाम ३ । अमा-अमाई अमृष्टाम् असृजन्-अमार्जन् । अमार्ट-अमाई अमृष्टम् अमृष्ट । अमार्जम् अमृज्व अमृज्म ४ । औदिचाइ १० विकल्पे, अमार्जीत् - अमात् ५ । ममार्ज ममार्जतुः ममृजतुः ममार्जु :- ममृजुः । ममाथि ६ । मृज्यात् ७ । मार्जिता मा ८ । मार्जिष्यति मार्क्ष्यति ९ । अमार्जिष्यत् - अमात् १० । 'विदक ज्ञाने' । वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः ॥ ३६ ॥
'ऋत०' ऋत इति किम् ? ममार्ज । अत्र गुणे कृते 'मृजोऽस्य वृद्धि:' ( ४ | ३ | ४२ ) इत्यनेन (नित्यं वृद्धि:, नत्वनेन ) विकल्पः । ननु गुणात्प्रागेव परत्वादवृद्धिः कथं न ? सत्यम् । विकल्पबलात् १५ 'ऋतः स्वरे वा' इत्यस्य विकल्पपक्षे इदमुदाहरणमन्यथा हि परत्वाद् वृद्धिः स्यात् किं व्यावृत्त्या । किंबहुना, गुणे कृते वृद्धिविकल्पो मा भूदित्येवमर्थं ऋत इति व्यावृत्तिस्तेन ममर्ज मर्जयतीति भवति । स्वर इति किम् ? मृष्टः मृष्ट । मृज्वः सृज्मः । धातोः कार्यं विधीयमानं धात्वधिकार विहित एव प्रत्यये विज्ञायत इति कंसपरिमृज इत्यत्र किबन्तस्य धातुत्वेऽपि नामाधिकार विहिते स्यादिप्रत्यये वृद्ध्यभावः । औदित्त्वाद्वेट् माष्ट मार्जिता । वेट्त्वात् क्तयोर्नेट् मृष्टः मृष्टवान् । 'कृवृषि०' ( ५।१।२० ४२ ) इति वा क्यपि परिमृज्यः । पक्षे व्यणि 'तेऽनिट ० ' ( ४|१|१११ ) इति गत्वे परिमार्ग्यः । 'शोकानुपद०' (५।१।१४३ ) इति निपातनात् के तुन्दपरिमृजोऽलसः । अन्यत्र कर्मणोऽणि तुन्दपरिमार्जः । घञि मार्गः । भिदाद्यङि मृजा शुद्धिः । अन्यत्र स्त्रियां तौ सृष्टिः । उणादौ अग्यङ्गि० ( ४०५ ) इत्यारे मार्जारः । लत्वे मार्जालः । मृजिखनि० ( ४७३ ) इति डित्यले मलः । ' मृजौ शौचालङ्कारयोः' युजादित्वाद्वा णिचि मार्जयति । 'णिवेत्ति ० ' ( ५।३।१११) इत्यने मार्जना । ते मार्जित: २५ मार्जिता रसालेति रूढेः पक्षे मार्जति । इति जान्तः सेट् १ । 'सस्तुक् स्वप्ने' । उदित्वाने 'घुटो टिस्खे वा' (१|३|४८ ) इति तो लुकि संस्ति संस्तः संस्तन्ति । संस्तिता । इति सेद् तान्तः । विदइति वेत्ति इत्यादि रूपाणि व्यक्तानि ॥ ३६ ॥ अत्र विशेषसूत्रम्
तिवां णवः परस्मै ॥ ३७ ॥ [ सि० ४२११७]
वेत्तेः परेषां तिवादीनां परस्मैपदान्येव णवादयो नव यथासङ्ख्यं वा स्युः वेद विदतुः ३० विदुः । वेत्थ विदधुः विद । वेद विद्व विद्म १ । विद्यात् विद्याताम् विद्युः २ ॥ ३७ ॥
'तियां०' व्यक्तैव रूपपद्धतिः ॥ ३७ ॥ पञ्चम्यां सूत्रम्
For Personal & Private Use Only
Jain Education International
३२
www.jainelibrary.org