________________
६४६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'सेः रद्धां च०' (४।३१७९) इति सेलुकि वैकल्पिके सो रुत्वे च अशास्त्वम् , पक्षे 'धुटस्तृतीयः' (२।११७६) इति सस्य दत्वे च अशात्त्वम् ॥ ३३ ॥ अद्यतन्यां सूत्रम्
___ शास्त्यसूवक्तिख्यातेरङ् ॥ ३४ ॥ [सि० ३४६०] एभ्यश्चतुर्योऽद्यतन्यामङ् स्यात् । अशिषत् अशिषताम् अशिषन् ५ । शशास शशासतुः६। ५शिष्यात् ७ । शास्ता ८। शासिष्यति ९ । अशासिष्यत् १० ॥ इति जक्षपञ्चकम् ॥ 'वचंक भाषणे' । वक्ति वक्तः । अन्तिपरस्य वचेः प्रायोऽप्रयोगः । वक्षि वक्थः वक्थ । वच्मि वच्चः वच्मः १। वच्यात् २ । वक्तु-वक्तात् वक्ताम् वचन्तु । वग्धि ३ । अवक्-अवग् अवक्ताम् अवचन् । अवक्-अवग अवक्तम् अवक्त । अवचम् अवच्च अवच्म ४ । शास्त्यसूवक्तीत्यङि श्वयत्यसूवचेति वोचादेशे, अवोचत् अवोचताम् अवोचन् ५ । द्वित्वानन्तरं यजादिवशवच इति यवृति उवाच । १० यजादिवचेरिति वृति द्वित्वे ऊचतुः ऊचुः । उवचिथ-उवक्थ ६। उच्यात् ७ । वक्ता ८ ।
वक्ष्यति ९ । अवक्ष्यत् १० । 'मृजौक शुद्धौ । लघोरुपान्त्यस्येति गुणे ।। ३४ ॥ __ 'शास्त्यः ' एभ्य इति 'शासूक् अनुशिष्टौ' 'असूच क्षेपणे' । 'वचं परिभाषणे' 'ख्यांक प्रकथने एभ्यश्चतुर्थ्य इत्यर्थः । ऊदित्त्वात् क्त्वि वेट शिष्ट्वा शासित्वा । वेट्वात् क्तयोर्नेट शिष्टः शिष्टवान् ।
किपि 'की' (४।४।११९) इति सूत्रेण आसः स्थाने इस् , मित्रं शास्तीति मित्रशीः । 'इसासः १५ शासोऽङ् व्यञ्जने' (४।४।११८) इति सूत्रेणैव सिद्धे काविति पृथक्सूत्रकरणं किपि व्यञ्जनकार्यमनित्यमितिन्यायज्ञापनार्थम् । तेनाव्ययमाचष्टेऽव्ययित्यत्र यलोपाभावो, गिरो गिर इत्यत्र व्यञ्जनाश्रितदीर्घत्वाभावो राजनतीत्यत्र नलोपाभावश्च सिद्धः । अव्ययित्यत्र णिलुकः स्थानित्वं तु 'न सन्धि' इत्यस्योपस्थितेने भवति । क्तौ शिष्टिः । 'इकिस्ति०' (५।३।१३८) इति तिवप्रत्यये शास्ति । उपान्त्य
स्येत्यत्र शासेर्वर्जनात् डे ह्रस्वाभावे अशशासत् । 'दृवृग्स्तुजुषेतिशासः' (५।११४०) इति क्यपि २० शिष्यः । 'शासियुधि०' ( ५।३।१४१) इत्यने दुःशासनः उणादौ शासिशंसि० (८५७) इति तृः शास्ता बुद्धः । प्रशास्ता ऋत्विक् । 'तृस्वसृ०' (१।४।३८) इत्यारि प्रशास्तारौ । [इति जक्षपञ्चकम् ]
रुत्पश्चकजक्षपञ्चके समाप्य प्रकृतो वर्णक्रमेऽनुस्रियते । वचंक इति । अन्ति परस्य वचेः प्रायोऽप्रयोग इति । तथोक्तं धातुपारायणे अन्तौ वचेः प्रयोगं नेच्छन्त्येके इति । अनुस्वारेत्त्वान्नेट वक्ता वक्तुम् । प्रवचनीयेति वा कर्तर्यनीये प्रवचनीयो २५ गुरुर्धर्मस्य । प्रवचनीयो धर्मो गुरुणा । 'ऋवर्ण' (५।१।१७) इति व्यणि प्रवाच्यो
ग्रन्थविशेषः । अत्र 'त्यज्यज० (४।१।११८) इति कत्वाभावः । वचोऽशब्दनानि कत्वाभावे वाच्यमाह । शब्दनानि तु 'क्तेऽनिट०' (४।१।१११) इति कत्वे वाक्यम् । 'वेयिवद०' (५।२।३) इति भूतमात्रे निपातनाद्वा काने अनूचानः । पक्षे अन्ववोचत् । भावाकोंर्घभि
अनुवाकः । “दिद्युद्ददृद्' (५।२।८३) इति किपि निपातनात् वचनशीलो वाक् । 'गोचरसंचर.' ३०(५।३।१३१) इति निपातनाद् घे वक्तीति वकः । ते उक्तम् लिहाधचि श्लोकवचः । उणादौ नीनूरमि० (२२७) इति किति थे उक्थम् साम । त्रट् (४४६) इति त्रुटि वक्रम् । ककस्थूराद्वचः क्च (७२८) इत्युणि कृकवाकुः कुक्कुटः । स्थूरवाकुः उच्चध्वनिः । अस् (९५२) इत्यसि वचः । 'वचण भाषणे' वाचयति युजादित्वाणिच् । पक्षे वचति । इति चान्तोऽनिट् । मृजौक् ३४ इति तिवादौ गुणे कृते सति ॥ ३४ ॥ सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org