________________
६४५
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदादयः परसैपदिनः [जक्षपञ्चकम् ] जजागरुः । अनेकवरत्वात् 'ऋत' इतीइनिषेधाभावे जजागरिथ जजागरथुः जजागर । जजागार जजागर जजागरिव जजागरिम ६ । जागर्यात् ७ । जागरिता ८ । जागरिष्यति ९ । अजागरिष्यत् १० । 'चकास दीप्तौ । ऋकार इत् । चकास्ति चकास्तः चकासति १ । चकास्यात् २। चकास्तु । हेधिः 'सो धि वा' (४।३।७२) लुक् । चकाधि चकाद्धि ३ । अचकात् अचकास्ताम् अचकासुः । अचकाः अचकात् ४ । अचकासीत् अचकासिष्टाम् अचकासिषुः । ऋदित्वादङागमे५ अचकासत् ५। चकासाञ्चकार ६ । चकासात् ७ । चकासिता ८ । चकासिष्यति ९ । अचकासिष्यत् १० । 'शासूक् अनुशिष्टौ' । शास्ति ॥ ३१॥ __"आघों द्विर्धातुरिति सर्चस्प द्वित्वे पाहे वचनम् । पवि सूत्रम् 'जागुरु' (४१३१५२ ) जीति बिनिचोरुभयोरपि ग्रहणम् । यथा अजागारि । जागारिष्यते । णिगन्तस्य तु बेर्णिगा व्यवधानात् न स्यात् । मैत्रोऽजागरि । जागरयिष्यते । अन्यत्र ब्णितीति जागरकः साधु जागरी जागरं जागरो १० वर्त्तते । द्विवचनादौ सूत्रम् 'जागुः' (४।३।६) कितीति किम् ? जागृतः । इह कस्मान्न भवति । जजागृवानिति । जागर्तेः कसुरनभिधानाद्भाषायां नास्तीयेके । गुणमेवेच्छन्त्यन्ये जजागर्वान् । अपरे तु कसुकानयोर्गुणप्रतिषेधमेवाहुः । जजागृवान व्यतिजजाग्राणः । किति प्रतिषेधे प्राप्ते वचनम् । अकिति तु पूर्वेणैव गुणः । शतरि अन्तो नो लुकि जाग्रत् । 'जागुर्बिणवि' (४।३।५२) इति वृद्धेबिणवोरेव नियमानामिन इति वृद्ध्यभावे णौ गुणे जागरयति । जागरिता जागरितुम् । क्तयोः १५ जागरितः जागरितवान् । जागुरित्यूके जागरणशीलो जागरूकः । स्त्रियां क्त्यपवादौ 'जागुरश्च' (५।३।१०४ ) इत्ययौ जागरा जागर्या । उणादौ जशस्तृ० (७०५) इति डिति वौ जागृविरग्निः । चकामुक इति अन्तो नो लुकि चकासति । 'व्यञ्जनादे०' (४।३।७८) इति दे कि सस्य दत्वे च अचकात् । 'ड्युक्तजक्ष०' (४।२।९३) इति शिदनः पुसि अचकासुः। 'सेः रद्धां०' (४।३।७९) इति से कि सो वा रुत्वे च अचकास्त्वम् पक्षे 'धुट०' (२।११७६) इति सस्य दत्वे अचकात्त्वम् ।२० सनि चिचकासिषति । ऋदित्त्वात् डे न ह्रस्वः अचचकासत् । शासूक् इति अनुशिष्टिर्नियोगः ॥ ३१ ॥ क्विति व्यञ्जनादौ सूत्रम्
इसासः शासोऽब्यञ्जने ॥ ३२॥ [ सि० ४।४।११८] शास्तेरंशस्यासोऽडि क्लिति व्यञ्जनादौ च परे इस स्यात् । शिष्टः शासति । शास्सि शिष्ठः शिष्ठ । शास्मि शिष्वः शिष्मः १ । शिष्यात् २ । शास्तु शिष्टात् शिष्टाम् शासतु ॥ ३२ ॥ २५
'इसा०' शासः शिसित्यकृत्वा आस इविधानं यङ्लुपि शाशिष्ट इत्यादिप्रयोगार्थमन्यथा शिष्ट इत्यादि स्यात् । अङ्ख्यञ्जन इति किम् ? शशासतुः । कितीत्येव शास्ति ।। ३२ ।। पञ्चम्यादौ सूत्रम्
शासऽसूहनः शाध्येधिजहि ॥ ३३ ॥ [सि० ४।२।८४] एषां त्रयाणां ह्यन्तानां यथासङ्ख्यं शाध्यधिजहयः स्युः । शाधि शिष्टात् शिष्टम् शिष्ट । शासानि शासाव शासाम ३ । अशात् अशिष्टाम् अशासुः । अशाः अशात् अशिष्टम् अशिष्ट । ३० अशासम् अशिष्व अशिष्म ४ ॥ ३३ ॥
'शास' एषामिति 'शासूक अनुशिष्टौ' 'असक भुवि' हनंक हिंसागत्योः' इत्येषां त्रयाणामित्यर्थः। यथा शाधि, एधि, जहि । शास्हनोर्यङ्लुप्यपि शाधि जहि । हनेस्तु यङ्लुपि नेच्छन्त्यन्ये जङ्घहि । ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org