SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ६४४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु व्यञ्जनाः सश्च दः ॥ २७॥ [सि० ४।३।७८] धातोर्व्यञ्जनात्परस्य दे क्, यथासम्भवं धातुसकारस्य च दः स्यात् । अजागः अजागृताम् ॥ २७ ॥ 'व्य.' अजागः इति । नानिष्टेति न्यायात्सन्निपातन्यायोऽत्र न प्रवृत्तस्तेन गुणे कृते देर्लुक् सिद्धः ५॥ २७ ॥ बहुवचने सूत्रम् पुस्पौ ॥ २८॥ [सि० ४।३।३] नाम्यन्तस्य धातोः पुसि पौ च गुणः स्यात् । अजागरुः ॥ २८ ॥ 'पु०' पुसि पौ चेति । 'युक्तजक्षपञ्चतः' (४।२।९३ ) इत्यनेन पुसि अनेन गुणः। 'अतिरीब्लीहीनूयीक्ष्माय्यातां पुः' ( ४।२।२१) इति प्वागमे गुणः । यथा अपर्यतीत्यादौ ॥ २८ ॥ १० सिवि सूत्रम् सेः रद्धां च रुर्वा ॥ २९ ॥ [सि० ४३७९] धातोर्व्यञ्जनात्परस्य सेढुंक सकारदकारधकाराणां च यथासम्भवं रुची । अजागः अजागृतम् अजागृत । अजागरम् ४ । न श्विजागृशसेति वृद्ध्यभावे, अजागरीत् अजागरिष्टाम् अजागरिषुः ५॥२९॥ १५ 'से:' सकारदकारधकाराणां यथासम्भवं रुर्वेति । यथा अचकास्त्वं अचकात्त्वम् । सकारस्य रुत्वे सिद्धे पक्षे रुत्वबाधनार्थं वचनम् । ततश्च पक्षे धुटस्तृतीयः' (२।१।७६) इति सकारस्य दकारो भवति । दकार अभिनस्त्वम् अभिनत्त्वम् । धकार अरुणस्त्वम् अरुणत्त्वम् । रोरुदित्करणं किम् ? उत्वादिकार्यं यथा स्यात् । अभिनोऽत्र । दिप्रत्यासतेः सिरपि ह्यस्तन्या एव तेनेह न स्यात् भिनत्सि अजागरीदिति । 'सिचि परस्मै०' (४।३।४४) इति प्राप्ताया वृद्धेः 'नश्विजागृ०' (४।३।४९) २० इति प्रतिषेधः ॥ २९ ॥ परोक्षायां सूत्रम् । जाग्रुषसमिन्धेर्नवा ॥ ३० ॥ [सि० ३।४।४९] एभ्यः परोक्षाया आम् वा स्यात् । जागराञ्चकार ३ । पक्षे ॥ ३०॥ 'जाग्रु०' एभ्य इति 'जागृक् निद्राक्षये' 'उषू श्रिीं श्लिषू पृषू प्लुषू दाहे' सम् पूर्वः 'निइन्धैपि दीप्तौ' रुधादिरात्मनेपदी इन्ध धातुः । आमन्ताच परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । यथा २५ जागराञ्चकार जागराम्बभूव जागरामास । उषाञ्चकार उवोष । समिधाञ्चके समीधे । सम् ग्रहणं किम् ? इन्धाञ्चके प्रेन्धाञ्चक्रे । सोपसर्गादिन्धेरान भवत्येवेति कश्चित् । अन्ये तु परोक्षायामिन्धेरामन्तस्यैव प्रयोग इत्याहुः । समोऽन्यत्रापीन्धेराम्विकल्प इत्यन्यः इन्धाश्चने ईन्धे इति ॥ ३० ॥ पक्षे इति आमभावे सूत्रम् आद्योंश एकखरः ॥ ३१ ॥ [ सि० ४।१।२] ३० अनेकस्वरस्य धातोराद्य एकस्वरोऽवयवः परोक्षा डे परे द्विः स्यात । जागुर्बिणवि (४॥३॥ ५२) वृद्धिः स्यात् । 'नामिनोऽकलिहले' इति सिद्धे नियमार्थमिदम् । तेनान्यत्र णिति वृद्धिर्न ३२ स्यात् । जजागार । अवित्परोक्षायाः किच्चे 'जागुः किति' (४॥३॥६) गुणः स्यात् । जजागरतुः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy