________________
प्रक्रियावृतिरूपे श्रीहैमप्रकाशे अदादयः परस्मैपदिनः [ जक्षपञ्चकम् ] ६४३ नित्यादि भवत्येव । तं पातयां प्रथममास पपात पश्चादित्यत्रापि प्रथममित्यस्य क्रियाविशेषणत्वान्न व्यवधायकत्वम् । प्रभ्रंशयां यो नहुषं चकारेत्ययं त्व(प)प्रयोग एव । ननु च कांद्यपि क्रियाया विशेषकं भवति तस्याप्यव्यवधायकत्वं प्राप्नोति । नैवम् । क्रियाया एव विशेषकमित्यवधारणस्य विवक्षितस्वात् । कादि च द्रव्यस्यापि विशेषणं स्यादिति । ददरिद्राविति 'आतो णव.' (४।२।१२०) इत्यत्र आकारेणैव पपावित्यादिसिद्धौ. औकारविधानं दरिद्रातर्णव आमादेशानित्यत्वार्थम् । तेन आमादे-५ शाभावे णव औत्वे अशित्यस्सन्नित्यालोपे ददरिद्रौ इति सिद्ध्यति । अन्यथा ददरिद्रो इति स्यात् ॥ २५ ॥ आशी:प्रभृतिषु सूत्रम्
अशित्यस्सन्णकचूणकानटि ॥ २६ ॥ [सि० ४१३७७] सादिसनादिवले अशिति विषये लुक् स्यात् । दरिद्यात् ७। दरिद्रिता ८ । दरिद्रिष्यति ९। अदरिद्रिष्यत् १० । 'जागृक निद्राक्षये । जागर्ति जागृतः जाग्रति । जागर्षि १।१० जागृयात् २ । जागते-जागृतात् जागृताम् जाग्रतु । जागृहि-जागृतात् ३ । नामिनो गुणोऽक्तितीति गुणे ॥ २६ ॥
'अशि०' सादिसन्नादीति सकारादिसन् णकच् णक अनट् वर्जिते अशिति प्रत्यये विषयभूते दरिद्रातेरन्तस्य लुग् भवति । यथा (दरिद्रयति) दरिद्रिता दरिद्रितुम् । दरिद्रणीयम् । साधुदरिद्री णिन् । दरियते । दरिद्यात् । दरिद्राञ्चकृवान् । आमादेशस्यानित्यत्वे ददरिद्वानित्यपि । षष्ठ्यां तु ददरिद्रुष इति १५ भवति । विषयसप्तमीविज्ञानात्पूर्वमेवाकारलोपे दरिद्रातीति दरिद्रः । अजेव भवति नत्वाकारान्तलक्षणो णः । तथा दुर्दरिद्रमित्याकारान्तलक्षणोऽनो न भवति । दरिद्राणम् । दरिद्र इति च घनि 'आत' इति ऐन भवति । अशितीति किम् ? दरिद्राति दरिद्रामि अदरिद्राम् । स्सन्नादिवर्जनं किम् ? सनि दिदरिद्रासति । क्रियायां क्रियार्थायां णकचि दरिद्रायको ब्रजति । पर्यायाहेत्यादिना णके दरिद्रायिका वर्तते । 'णकतृचौ' (५।११४८) इति च णके दरिद्रायकः । अनटि दरिद्राणम् । सनः सादिविशेषणं २० किम् ? दिदरिद्रिषति । 'इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनितनिपतिवृद्दरिद्रः सनः' (४।४।४७) इति वैकल्पिके इटि सादित्वाभावः । नन्वत्र 'इडेत्पुसि चा०' (४।३।९४) इत्यनेनाल्लुकि दिदरिद्रिषतीति भविष्यति किं सनः सादिविशेषणेन ? सत्यम् । किन्तु सादिविशेषणं विना इडेत्पुसीत्याल्लुकं असन्णकचेति विशेषनिषेधो बध्नीयात् । अक इत्येव वक्तव्ये णकच्णकयोरुपादानं किम् ? आशिष्यकनि मा भूत् । दरिद्रकः । केचिद्दरिद्रातेरनिटि कसौ आलोपं नेच्छन्ति । तन्मते इट् आम् चाभिधानान्न २५ भवतः । ददरिद्रावान् । णौ दरिद्रयति । णौ डे अददरिद्रत् । णौ विषये आल्लुकं नेच्छन्येके । दरिद्रापयति । ढे उपान्त्यस्य हस्खत्वे अददरिद्रपत् । नन्वत्र सन्वद्भावात् पूर्वस्येत्वं प्राप्नोति । नैवम् । येन नाव्यवधानं तेन व्यवहितेऽपि स्यादित्येकवर्णव्यवहिते लघौ लघोः परेण चैकवर्णेन व्यवहिते ऊपरे णौ सन्वद्भावो भवति । यथा अपीपचदित्यादौ । अवीव्रजदित्यादौ तु 'स्मृदृत्वर०' (४।१।६५) इत्यत्वविधानादनेकव्यञ्जनव्यवहिते लघुनीष्यते । इह तु लघोरव्यवधानेऽपि लघोः परेण वर्णसमुदा-३० येन य॑वधेति न भवति । दरिद्रिता दरिद्रितुम् । वेट्त्वेप्यनेकखरत्वात् क्तयोरिट् दरिद्रितः दरिद्रितवान् । अचि घबि वा दरिद्रः । दर्दूरिति तु तृदृभ्यां दूः (८४६) इति दृणातेः । जागृक् इति । जागर्तीति अकर्मकोऽयम् । प्रतियोगे सकर्मकोऽपि प्रतिजागर्ति धर्मम् । प्रतिपालयतीत्यर्थः । 'अन्तो नो लु' (४।२।९४) इति जाग्रति ॥ २६ ॥ विवि सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org