________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदादयः परस्मैपदिनः [ रुत्पञ्चकम् ] ६४१
खपर्यवे च ॥ १९॥ [सि० ४११८०] स्वपेर्यडि डे किति च सखरान्तस्था यवृत् स्यात् । ततो द्वित्वे, सुषुपतुः सुषुपुः । सुष्वपिथ सुष्वप्थ ६ । सुप्यात् ७ । खप्ता ८ । खप्स्यति ९। अखप्स्यत् १० । 'अन श्वसक् प्राणने' अपूर्वः। अदुरुपसर्गेति णत्वे 'द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा' इति णत्वे । प्राणिति १ । प्राण्यात् २ । प्राणितु ३ । प्राणीत् प्राणत् ४ । प्राणीत् प्राणिष्टाम् ५ । प्राण प्राणतुः ६ ।५ प्राण्यात् ७ । प्राणिता ८ । प्राणिष्यति ९ । प्राणिष्यत् १० ॥श्वसिति १ । श्वस्यात् २ । श्वसितु ३ । अश्वसीत्-अश्वसत् ४ । व्यञ्जनादेवोपान्त्यस्येति वृद्धिविकल्पे, अश्वासीत्-अश्वसीत् ५। शश्वास शश्वसतुः ६ । श्वस्यात् ७ । श्वसिता ८। श्वसिष्यति ९ । अश्वसिष्यत् १० । 'जक्षक भक्षहसनयो । जक्षिति जक्षितः ॥ १९॥
'स्वपे०' यङि सोषुप्यते सोषुपीति । यङ्लुपि नेच्छन्त्यन्ये सास्वप्ति । णिमन्तरेण उस्यासम्भवात् १० खपि(ति)य॑न्तो लभ्यते असूषुपत् । डे य्वृत् गुणो हस्खत्वं द्वित्वं पूर्वस्य दीर्घत्वमित्यत्र क्रमः । किति सुषुपतुः सुप्यते सुप्यात् । सुषुप्सति 'रुदविद०' (४।३।३२) इति सनः कित्त्वम् । एष्विति किम् ? स्वपिति । घन्तादपि केचिदिच्छन्ति स्वापमकरोत् । असुषुपत् । समानलोपित्वान्न दीर्घः । खमते तु असस्वापत् । बीत्त्वात् 'ज्ञानेच्छार्चार्थ०' (५।२।९२) इति सति क्ते सुतः । 'अव: स्वपः' (२।३।५७) निर्दुःसुविपूर्वस्य वकाररहितस्य स्वपेः सकारस्य षः स्यात् । निःषुषुपतुः ।१५ दुःषुषुपतुः । सुषुषुपतुः । विषुषुपतुः । निःषुप्तः । दुःषुप्तः । सुषुप्तः। विषुप्तः । अव इति किम् ? निःस्वप्नः दुःस्वप्नः । सुस्वप्नः । विस्वप्नः । विसुष्वाप । 'तृषिधृषि०' (५१२१८०) इति नजिडि स्वप्नक् । 'यजिस्वपि०' (५।३।८५) इति ने स्वप्नः । असरूपत्वात्पक्षे वापः । क्त्वि सुप्त्वा । अन श्वसक इति । प्राणन इति प्राणनं जीवनम् । वर्णक्रमस्य प्रतिज्ञानात्स्वपः प्रागनेनिर्देशे प्राप्ते लाघवार्थमिह पाठः। 'द्वित्वेऽप्यन्तेऽप्य०' (२।३।८१) इति सूत्रम् । अस्यार्थः। अदुरुपसर्गान्त:२० शब्दस्थाद्रषवर्णात्परस्यानितेर्नकारस्य द्वित्वे चाद्वित्वे चान्ते चानन्ते च वर्तमानस्य णो भवति । परिपूर्वस्य तु वा द्वित्वे, प्राणिणिषति, प्राणिणत् । अद्वित्वे प्राणिति पराणिति । अन्ते किपि हे प्राण , हे पराण् । परेस्तु वा द्वित्वे पर्यणिणिषति पर्यनिनिषति । पर्याणिणत् पर्यानिनत् । अद्वित्वे पर्यणिति पर्यनिति । अन्ते हे पर्यण हे पर्यन् । परिपूर्वस्य द्वित्वेऽन्ते च नित्यं णत्वमिच्छन्त्येके । अन्ये तु अन्ते अनन्ते च नेच्छन्त्येव । ये तु द्वित्वे कृतेऽपि पुनर्द्वित्वमिच्छन्ति तन्मतेऽपि द्वित्व इति वचनाहूयोरे-२५ वाद्ययोर्णत्वं न तृतीयस्य । प्राणिणिषयते प्राणिणिनिषत् । अनन्त्यस्येत्यधिकारादन्त्यस्य न प्राप्नोतीत्यन्ते इति वचनम् । अनितीति तिवा निर्देशो देवादिकनिवृत्त्यर्थो न तु यङलुपनिवृत्त्यर्थः । यङोऽसम्भवात् ॥ अचि घनि वा प्राणः । घबि आनः । उणादौ स्यमिकषि० (४६) इतीके अनीकम् । प्याधा० (२५८) इति ने अन्नम् । अस् (१५२) इत्यसि अनः शकटम् । श्वस तालव्यादिः दन्त्यान्त्यः । श्वसजप०' (४।४।७५) इति क्तयोर्वेट् । आश्वस्तः आश्वसितः आश्वस्तवान् आश्वसितवान् ।३० 'तन्व्यधी०' (५।११६४) इति णे श्वासः । जक्षक इति । अयं रुत्पञ्चकस्य पञ्चमो जक्षपञ्चकस्य त्वाद्य इत्युभयकार्यभाक् । रुत्पश्चकादितीटि जक्षिति जक्षितः ॥ १९ ॥ बहुवचने सूत्रम्
अन्तो नो लुक् ॥ २०॥ [सि० ४।२।९४ ] युक्तजक्षपञ्चकात्परस्यान्तो नो लुक् स्यात् । जक्षिति १ । जक्ष्यात् २ । जक्षितु ३ । अजक्षीत् अजक्षिताम् ॥ २०॥
है. प्रका० उत्त०८१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org