________________
६४०
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
अभिगमे' । 'उत औ०' ( ४ | ३।५९ ) इत्यौत्वे द्यौति सुतः युवन्ति । अद्यावीत् । दुद्या । वि 'सृजिदृशि०' ( ४।४।७८) इति वेटि दुद्योथ दुद्यविथ । यङि दोधूयते । यङ्लुपि दोद्योति दोद्यवीति । aft सुद्योवा । कनिपि सुघुत्वा । विचि द्यौः । य एच्चात: ' ( ५।१।२८ ) इति ये 'ययक्ये' ( १।२। २५ ) इत्यवि द्यव्यम् । ‘उवर्णात् ० ' ( ५।१।१९ ) इति ध्यणि द्याव्यमवश्यम् । उणादौ भ्याम् ५ ( ७४४ ) इति डिदु: द्युः । द्युगमिभ्यां डोः ( ८६७) द्यौः । 'क्ष्णुक् तेजने' । क्ष्णौति क्ष्णुतः क्ष्णुवन्ति । 'समः क्ष्णोः' ( ३।३।२९ ) इत्यात्मनेपदे संक्ष्णुते शस्त्रम् | क्ष्णविता । यङि चोक्ष्णूयते । यङ्लुपि चोक्ष्णोति २ । सनि 'ग्रहगुह ०' इति नेट् चक्ष्णूषति । 'स्तुक् प्रस्नवने' । प्रस्नवनं क्षरणम् । नौति स्रुतः स्नुवन्ति । 'स्नो:' ( ४/४/५२ ) इत्यात्मनेपदाभावे नेट् प्रस्नोष्यते । कर्मकर्त्तरि 'एकधातौ ०' ( ३।४।८६ ) इति ञिक्यात्मनेपदेषु प्राप्तेषु 'भूषार्थ ० ' ( ३ | ४ | ९३ ) इति क्ययोः १० प्रतिषेधात् प्रस्नुते प्रास्नोष्ट गौः स्वयमेव । सुस्राव सुस्नुवतुः । यङि सोस्नूयते । यङ्लुपि सोस्नवीति । सनि ‘ग्रहगुह०' इति नेट् सुनूषति । उणादौ नुपूसू० (५४२ ) इति किति इति दशोदन्ताः । ऊदन्तादयोऽप्रसिद्धाः ॥ १६ ॥
I
1
अथ व्यञ्जनान्तास्तत्रान्तर्गणो रुदादिपञ्चकः । रुदृक् इति । तिवादौ सूत्रम् रुत्पञ्चकाच्छिदयः ॥ १७ ॥ [ सि० ४|४|८८ ]
१५ रुदादेः पञ्चतः परस्य व्यञ्जनादेः शितोऽयादेरादिरिट् स्यात् । रोदिति रुदितः रुदन्ति १ । रुद्यात् २ | रोदितु - रुदितात् रुदन्तु । रुदिहि- रुदितात् रुदितम् रुदित । रोदानि रोदाव दाम ३ ॥ १७ ॥
'रुत्पo' रुदादेः पञ्चत इति । रुदि १ स्वपि २ अनि ३ श्वसि ४ जक्षि ५ लक्षणात्पञ्चकादिति । पकादिति किम् ? जागर्त्ति । शित इति किम् ? स्वप्ता । अय इति किम् ? रुद्यात् । व्यञ्जनादेरित्येव । २० रुदन्ति ॥ १७ ॥ दिस्योः सूत्रम्
feliz || 36 || [ FÃO 8181CS ]
रुत्पञ्चकाच्छितो दिस्योरादिरीट् स्यात् । अरोदीत् । 'अदवाटू' इत्यडागमे च अरोदत् अरुदिताम् अरुदन् । अरोदी: अरोदः अरुदितम् अरुदित | अरोदम् अरुदिव अरुदिम ४ । अस्य सेद्रत्वादद्यतन्याम्, अरोदीत् । पक्षे ऋदिच्छ्रीत्याङ, अरुदत् अरुदताम् अरोदिष्टाम् अरोदिषुः २५ अरुदन् ५ । रुरोद रुरुदतुः रुरुदुः ६ । रुद्यात् ७ । रोदिता ८ । रोदिष्यति ९ अरोदियत् १० । 'ञिष्वपंक शये । स्वपिति १ । स्वप्यात् २ । स्वपितु ३ । अस्त्रपीत् अवपत् ४ । अस्वाप्सीत् अवाप्ताम् अखाप्सुः ५ । द्वित्वे भूखपोरिति पूर्वस्योत्वे, सुष्वाप ६ ।
सोनोति स्नुषा ।
'दिस्यो०' सूत्रं स्पष्टम् । दिस्योरिति किम् ? रोदिति । दिसाहचर्यात् सिर्ह्यस्तन्या एव । तेन रोदिषि । अस्य सेट्त्वात् । रोदिता रोदितुम् । 'रुदविद ० ' ( ४ | ३ | ३२ ) इति क्त्वासनोः कित्त्वे ३० रुदित्वा । रुरुदिषति । उणादौ ऋज्यजि० (३८८) इति किति रे रुद्रः । रोदयतीति वा खुरक्षुर०
( ३९६ ) इति निपातनात् रुद्रः । रुद्यर्त्ति० (९९७ ) इत्युसि रोदु: अश्रुनिपातः । ञिष्वपंक् इति । निरिति मच्छील्यादिभ्य इत्यादिषु विशेषणार्थः । अकार उच्चारणार्थः । अनुस्वारोऽनित्वार्थः । ककारो गणज्ञापनार्थः । ध्वप् इति धातुः । प्रक्रिया स्पष्टा ॥ १८ ॥ अवित्परोक्षायाः कित्त्वात्तत्र ३४ विशेषः । सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org