________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदादयः परस्मैपदिनः
६३९ चुक्षुषति । कित्युवर्णादिति नेट् क्षुता क्षुतं क्षुतः क्षुतवान् । 'युवर्ण०' (५।३।२८) इत्यलि क्षवः । विपूर्वात् 'क्षुश्रोः' (५।३।७१) इति घधि विक्षावः । 'क्रुत्सम्पदादिभ्यः किप्' (५।३।११४) इति किपि क्षुत् । उणादौ स्थाक्षुतोरूच ( १८५) इति णे क्षणमपराधः । रु इति । रौति-रवीति रुतः रुवन्ति । रुराव । रविता । सनि 'ग्रहगुहश्च सनः' (४।४।५९) इति नेट रुरूषति । यडि रोख्यते। यङ्लुपि रोरवीति रोरोति । कित्युवर्णादिति नेट रुत्वा रुतम् । रुतः रुतवान् । 'युवर्ण०' इत्यलि ५ रवः । अलपवादे 'रोरुपसर्गात्' (५।३।२२) इति घबि संरावः । 'आङोरुप्लोः ' (५।३।४९) इति वा घनि आरावः आरवः । 'चलशब्दार्थ०' (५।२।४३) इत्यने रवणशीलो रवणः । 'क्वचित्' (५।१।१७१) इति डे मह्यां रौति मयूरः पृषोदरादिः । उणादौ तकश० (१८७ ) इत्यणे रवणः करभः । रोर्वा ( २३५) इति कित्यथे रुवथः शकुनिः । रवथः आक्रन्दः । स्वरेभ्य इ. (६०६) रविः । रुपूभ्यां कित् (८०७) इति रौ रुरुः मृगः । विहायस्० (९७६) इत्यसि १० निपातनात् पुरु ( यथा स्यात्तथा) रौति पुरूरवा राजा। 'रुङ् रेषणे च' रवते रोता । कुंक् इति । कौति कुतः कुवन्ति । अकौषीत् चुकोव । कोता। सनि चुकूषति । यङि 'न कवतेर्यङः' (४।१।४७) इति भ्वादेरेव प्रतिषेधात् 'कङश्च' (४।११४६) इति पूर्वस्य चत्वे चोकूयते । उणादौ दृशक० (२७) इत्यके रुवकं अभक्ष्यद्रव्यम् । दुकूलेति अले निपातनात् कुकूलं शङ्कुमद्गर्ता 'कुङ् शब्दे' कवते । यङि कोकूयते 'कूङत् शब्दे कुवते चोकूयते । एषां शब्दार्थत्वेपि कौतिः शब्दमात्रे, कुवतिरात-१५ खरे, कवतिरव्यक्ते शब्दे ॥ युक् इति । यौति युतः युवन्ति । अयावीत् । युयाव युयुवतुः । 'स्क्रसृवृ०' (४।४।८१) इतीटि युयविथ । यविता यवितुम् । सनि 'ग्रहगुह०' (४।४५९) इतीडभावे प्राप्ते, तदपवादे 'इवृध' (४।४।४७) इति वेटि 'ओर्जान्तस्था०' (४।१।६०) इति पूर्वस्येत्वे यियविषति पक्षे युयूषति । वेट्वात् क्तयोर्नेट् युतः युतवान् । 'आसुयु०' (५।१।२०) इतीयापवादे ध्यणि याव्यम् । नन्द्याद्यने यवनः । मनि सुयोमा । वनि सुयोवा। विचि सुयौः । किपि सुयुत् ।२० 'युवर्ण०' (५।३।२८) इत्यलि यवः । प्रज्ञाद्यणि यावोऽलक्तकः । खार्थे के यावकः । 'युदुद्रोः' (५।३।५९) इति सम्पूर्वाद् घबि संयावः गुडगोधूमः । उत्पूर्वात् 'युपुद्रोर्घञ्' (५।३।५४) उद्यावः । 'सातिहेति०' (५।३।९४ ) इति क्तौ निपातनात् यूतिः सङ्घः । गोयूतिः । पृषोदरादित्वात् गव्यूतिः । क्त्वि 'उवर्णात्' (४।४।५८) इतीडभावे युत्वा । उणादौ घुयुहि० (२४) इति के दीर्घ च यूका । पथयूथ० (२३१) इति निपातनात् यूथः । युसुकु० (३९७) इति पे ऊत्वे २५ यूपः । योरूच वा (५४१) इति षे यूषः पेयविशेषः । यूषा च्छाया। योषा स्त्री । युजलेराषः (५४५) यवाषः दुरालभा । बहियुभ्यां वा (५७१) इति वा णित्यसे यावसं भक्तं तृणं च । यवसं घासोऽन्नं च । युवलिभ्यामासः (५७४) यवासः दुरालभा । योः कित् (६५८) इत्यतौ युवतिः । वीयुसुवहि० (६७७) इति नौ योनिः । लुपूयु० (९०१) इति कित्यनि युवा । अयुतसिद्धानामित्यादिदर्शनादमिश्रणे युरित्यन्ये । 'युग्श् बन्धने' । युनीते युनाति योता । 'युणि जुगुप्सा-३० याम्' यावयते । अर्थविशेषे चुरादित्वाज्जुगुप्साया अन्यत्र यौति । णुक इति 'पाठे०' (२।३।९७) इति णस्य नत्वे, नौति नुतः नुवन्ति । अनावीत् । नुनाव । णोपदेशत्वात् 'अदुरुपसर्ग०' (२।३।७७ ) इति णत्वे प्रणौति परिणौति । 'नुप्रच्छः' (३।३।५४) इत्यापूर्वादात्मनेपदे आनुते सृगालः । सनि 'ग्रहगुह० (४।४५९) इति नेट नुनूषति । नविता नवितुम् । 'उवर्णात्०' (५।१११९) इति यापवादे व्यणि नाव्यमवश्यम् । अचि नवः प्रणवः । कित्युवर्णादिति नेट नुत्वा नुतः नुतवान् नुतिः । उक्षितक्षि० (९००) इत्यनि नव पदार्थाः । इत्यादयोऽपीत्यत्रादिशब्दग्रहणात् कुंक३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org