________________
६३८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
उत और्विति व्यञ्जनेऽद्वेः ॥ १४ ॥ [सि० ४।३।५९] अद्वयुक्तस्योदन्तधातोर्व्यञ्जनादौ विति औः स्यात् । सौति सुतः सुवन्ति १ । सुयात् २। सौतुसुतात् ३ । असौत् ४ ॥१४॥ ___ 'उत.' सौतीत्यादि । उत इति किम् ? एति । धातोरित्येव । सुनोमि । वितीति किम् ? सुतः ५रुतः । व्यञ्जन इति किम् ? सवानि यवानि । अद्विरिति किम् ? सोसोति योयोति । तोः स्थाने तातडो ङित्त्वात् स्थानिवत्वं बाध्यते । तेन सुतात् युतात् रुतादित्यादौ नौकारः । केचित्तु यङ्लुबन्तस्यापीच्छन्ति सोसौति योयौति रोरौति नोनौति ॥ १४ ॥ अद्यतम्यां सूत्रम्
धूम्सुस्तोः परस्मै ॥ १५॥ [सि० ४।४।८५] एभ्यः परस्मैपदे सिच आदेरिट् स्यात् । सु इति सुमात्रस्य ग्रहणम् । असावीत् असाविष्टाम् । १० सुनोतेरेव ग्रहणमिति पक्षे असौषीत् असौष्टाम् ५ । सुषाव ६ । सूयात् ७ । सोता ८ । सोष्यति ९ । असोष्यत् १० । 'तुक हिंसावृत्तिपूरणेषु ॥१५॥
'धूग्सु०' स्पष्टम् । षोपदेशत्वात् परोक्षायां सुषाव सुषुवतुरित्यादि । अषोपदेशोऽमित्येके सुसाव । उणादौ सुसितनि० (२०३) इति ते वा दीर्वं च सुतः पुत्रः, सूतः सारथिः। 'युसुकु०' (२९७ )
इति पे सूपः । 'मुं प्रसवैश्वर्ययोः' । सवति । 'धुंग्ट् अभिषवे' सुनोति ॥ १५ ॥ 'तुक्' इति १५तिवादौ सूत्रम्
यतुरुस्तोर्बहुलम् ॥ १६ ॥ [सि० ४।३।६४ ] __ यलुबन्तात्तुरुस्तुभ्यश्च परो व्यञ्जनादौ विति ईत् बहुलं परादिः स्यात् । तवीति-तौति तुतः तुवन्ति १ । तुयात् २ । तौतु-तवीतु तुतात् ३ । अतौल ४ । केचित्तु सर्वत्र व्यञ्जनादौ शितीतमिच्छन्ति । तुता-तुवीत, तुयात् तुवीयात् ४ । अतोषीत् ५ । तुताव ६ । तूयात् ७ । २० तोता ८ । तोष्यति ९ । अतोष्यत् १० । 'क्षुरु कुंक् शब्दे । टुकार इत् । रौति-रवीति ४ ।
अरावीत् ५। क्षु कु सौतिवत्, किन्तु क्षोः सेट्त्वात् अक्षावीत् ५। 'युक मिश्रणे' । 'णुक स्तुतौ' म इत्यादयोऽपि सौतिवत् । 'रुदृक अश्रुविमोचने ॥ १६॥
"यतु०' बहुलमिति शिष्टप्रयोगानुसारेण । परादिः परावयवः। कचिद्विकल्पः बोभवीति बोभोति । नतीति नर्ति । लालपीति लालप्ति । कचिन्न भवति । वर्वति । चर्कति । अन्ये तु वावदीति लाल२५पीति रोरवीतीति नित्यम् । बोभवीति बोभोति, सोषोति सोषवीति, चर्कर्ति चक्ररीति विकल्पः ।
नर्ति वर्वतिं व त्यत्र न भवतीत्याहुः । तुंक तवीति तौति । रंक रवीति रौति । ष्टुंक स्तवीति स्तौति । तुरुस्तुभ्यः ईतं छान्दसमाहुरेके । व्यञ्जनादावित्येव बोभवानि तवानि रवाणि स्तवानि । वितीत्येव बोभूतः तुतः रुतः स्तुतः । अद्वेरित्यनुवृत्तेः तुतोथ तुष्ठोथेत्यत्र न भवति । यङिति सामा
न्याभिधानेऽपि यङ्लुबन्तस्य ग्रहणम् , यङन्तस्यात्मनेपदित्वाद्वितो व्यजनादेरसम्भवात् । उणादौ ३० भीण्शलि० (२१) इति के तोकं अपत्यम् । ढुक्षु इत्यादि । टुकार इत् इति । तेन 'द्वितोऽथुः' (५।३।८३) इत्यथौ क्षवथुः । क्षौति क्षुतः क्षवन्ति । अक्षावीत् । चुक्षाव । क्षविता । क्षविष्यति ।
यङि चोक्ष्यते । यङ्लुपि चोक्षोति चोक्षवीति । 'य एञ्चातः' (५।१।२८) इति ये क्षव्यम् । ३३ 'उवर्णादावश्यके' (५।१।१९) व्यणि क्षाव्यमवश्यम् । सनि 'ग्रहगुह०' (४।४।५९) इति नेद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org