________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदादयः परस्मैपदिनः
६३७
I
लोकशास्त्रप्रसिद्ध्या नियतमयनं न्याय: । 'परेः क्रमे ' ( ५।३।७६ ) पर्याय: । क्रमादन्यत्रालि विपर्ययो मते: । 'समज ० ' ( ५। ३ । ९९ ) इति क्यपि इत्या | 'न्यायावाय ० ' ( ५।३।१३४ ) इति तु नीधातोर्नीयतेऽनेनेति करणे घञि न्यायः । उणादौ कृवापा० ( १ ) इत्युणि आयुः नरः पुरूरवः पुत्रः जीवनं च । जरायुर्गर्भवेष्टनम् । जटायुः पक्षी । भीण्ालि० (२१) इति के एकः । इणुर्विश० ( १८२ ) इति णे एण: । दम्यमि० ( २०० ) इति ते एतो वर्णः । अवभृ० (२२९) इति किति ५ थे समिथः सङ्गमः । जीणशो० ( २६१ ) इति किति ने इनः । इन्धाग्भ्यां वा ( ३८९) इति किति रे इरा सुरा भूव, एरा एडका । खुरक्षुर० ( ३९६ ) इति निपातनाद् दुष्पूर्वस्य दूरम् । समि० (५९८ ) इत्याः समया गिरिम् । अस् ( ९५२ ) इत्यसि अय: लोहम् । इणो णित् ( ९९८ ) इत्युसि आयुः आयुषी । अर्तीभ्यां नस् ( ९७९) एनः पापम् । दृमुषिकृषिरिषिविषिशोशुच्यशिपूयणप्रभृभ्यः कित् ( ६५१ ) इति किति तौ इति हेत्वादौ । आग इति तु अगेर्वस्त्यगिभ्यां १० णित् ( ९७० ) इत्यसि । इंक् अधि पूर्व एवायमिति । तथोक्तं धातुपारायणे इङिकावधिनैव प्रयुज्येते । कित्करणम् 'इको वा' ( ४।३।१६ ) इत्यादि विशेषणार्थं गणज्ञापनार्थं च । ' स्मृत्यर्थ ० ' (२।२।११ ) इति वा कर्मणः कर्मत्वे, 'शेषे' ( २।२।८१ ) इति षष्ठ्यां मातुरध्येति अधीतः ॥ १२ ॥ बहुवचने सूत्रम्
इको वा ॥ १३ ॥ [ सि० ४।३।१६ ]
इकः स्वरादाविति शिति वा स्यात् । अधियन्ति - अधीयन्ति १ । शेषमिण्वत् । आशिषि ह्रस्वाभावो विशेषः । अधीयात् अधीयास्ताम् १० । 'वींकू प्रजनकान्त्य सनखादनेषु' । वेति वीतः वियन्ति १ । वीयात् २ | वेतु वीतात् वीहि ३ । अवेत् अवीताम् | अवियन् ४ । अवैषीत् अवैष्टाम् ५ । विवाय विव्यतुः ६ । वीयात् ७ । वेतात् वेष्यति ९ । अवेष्यत् १० । 'थुंक प्रसवैश्वर्ययोः' । प्रसवोऽभ्यनुज्ञानम् ॥ १३ ॥
२०
'इको० ' अधियन्ति अधीयन्ती । एवं अधियन्तु अधीयन्तु । क्रियाव्यतिहारे व्यत्यधियीरन- व्यत्यधीयीरन् । मास्माऽधियन् मास्माधीयन् । कतीहाधियाना: कतीहाधीयानाः । 'इणिकोर्गा' (४|४|२३) इति गादेशे 'पिबैति०' ( ४ | ३ |६६ ) इति सिज्लुपि च अध्यगात् । क्रियाव्यतिहारे अध्यगास्त | 'भावकर्मणोः ' ( ३|४|६८ ) इति ञिचि अध्यगाय । 'सनीङश्व' ( ४|४|२५ ) इति गमुः ( अधिजिगमिषति 'णावज्ञाने गमु: ' ) अधिगमयति । ज्ञाने त्वर्थं प्रत्याययति । क्त्वि अधीत्य । २५ इति वेदन्तावनि । वींक् इति । प्रजननं घञ् 'न जनवध' इति वृद्धिनिषेधः । प्रजनः प्रथमगर्भग्रहणम् । असनं क्षेपः । अशनं तृप्तिरित्येके । वेतीत्यादि । परोक्षायां विवाय । 'योऽनेकस्वरस्य' ( २।१।५६ ) यत्वे विव्यतुः विव्युरिति । अत्रासिद्धं बहिरङ्गमन्तरङ्ग इति यत्वस्यासिद्धत्वात् 'भ्वादे रिति पूर्वस्य दीर्घाभावः । 'वियः प्रजने' ( ४।२।१३ ) इति वात्वे पुरोवातो गाः प्रवापयति । ते वीतं असारं हस्त्यश्वम् । वीतं फल्गुहयद्विपमिति अभिधानचिन्तामणौ । 'तिकृतौ नाम्नि' ३० ( ५/१/७१ ) इति तिकि वीतिः अश्वः । उणादौ वीपतिपदिभ्यस्तनः । ( २९२ ) वेतनं भृतिः ।
मा० (४५१ ) इति त्रे वेत्रः । कावावी० ( ६३४ ) इति णौ वेणिः कबरी । अस् ( ९५२ ) इत्यसि वयः । प्रज्ञाद्यणि वायसः इति दीर्घेदन्तोऽनिट् । षुक् इति । प्रसवोऽभ्यनुज्ञानमिति । निषिद्धस्य पुनरभ्यनुज्ञा प्रतिप्रसवः पुत्रादेर्जन्मापि ) ' षः स० ' ( २/३/९८ ) इति सत्वे ॥ १३॥ तिवादौ सूत्रम्
Jain Education International
For Personal & Private Use Only
१५
३५
www.jainelibrary.org