________________
६३६
महामहोपाध्यायश्रीविनवविजयगणिविरचिते खोपज्ञहैमलघु
पूर्वस्याखे खरे वोरियुव् ॥ १०॥ [सि० ४।१।३७ ] द्वित्वे सति यः पूर्वस्तत्सम्बन्धिनोरिवर्णोवर्णयोरखे खरे इयुवौ स्याताम् । इयाय ॥१०॥
'पूर्व०' य्वोरिति । इवोकारयोरित्यर्थः । दीर्घोकारस्यासम्भवात् । तत्र हवेकारस्य यथा इयेष इयर्ति इय्यात् । दीर्घकारस्य यथा अर्यङ्लुपि द्वित्वे पूर्वस्य अत्वे 'रिरौ च लुपि' (४।१।५६ ) ५इत्यनेन रिरी आगमे तदिवर्णस्य इयादेशे अरियरीति । एके त्वत्रेयं नेच्छन्ति । अर्यर्ति अर्यरीति तन्मतसङ्ग्रहार्थं पूर्वस्येति य्वोः समानाधिकरणं विशेषणम् । तेन इकारोकारमात्रस्यैव पूर्वस्येयुवौ भवतो न तु रिरीत्यादिवधिकस्य तत्सम्बन्धिनः । अस्व इति किम् ? ईषतुः । स्वर इति किम् ? पिपक्षति । अखे स्वरे इति भणनात् गुणादौ कृते इयुवादेशः। नन्वियेषेत्यादौ इयुवादेशे स्वरस्य परे इत्यनेन
गुणस्य स्थानिवद्भावादियुवौ न प्राप्नुतः। सत्यम् । किन्तु पर इति सप्तमी सप्तम्या च निर्दिष्टे पूर्वस्या१० नन्तरस्यैव । अत्र तु षकारेण व्यवधानमिति न स्थानित्वम् । अस्खे इति नजा निर्दिष्टमनित्यमिति वा ।
न च असिद्धं बहिरङ्गमिति न्यायेन गुणस्यासिद्धत्वात् 'न स्वरानन्तर्य' इति न्यायेन तस्य बाधितत्वादिति ॥ १० ॥ द्विवचने सूत्रम्
इणः ॥ ११ ॥ [सि० २।११५१ ] अस्स स्वरादौ प्रत्यये इय् स्यात् । दीर्घ । ईयतुः ईयुः । वेटि द्वितीयस्य गुणेऽयादेशे इयादेशे १५च, इययिथ-इयेथ ईयथुः । ईय । इयाय-इयय ईयिव ईयिम ६ । दीर्घश्चवीति दीर्घ । ईयात् ईयास्ताम् ईयासुः ७ । एता ८ । एष्यति ९ । ऐष्यत् १० । ॥११॥
'इणः' 'योऽनेकस्वरस्य' (२।११५६) इति प्राप्तस्यापवादोऽयम् । वेटीति 'मृजिशि०' (४।४। ७८) इति सूत्रेणेड्विकल्पे इत्यर्थः ॥ ११ ॥ उपसर्गयोगे आशिषि सूत्रम् ।
___ आशिषीणः ॥ १२ ॥ [सि० ४।३।१०७ ] २० उपसर्गात्परस्येण ईतः क्विति यादावाशिषि हवः स्यात् । उदियात् । शेषं प्राग्वत् । 'इंक स्मरणे' । अधिपूर्वः एवायम् । अध्येति अधीतः ॥ १२ ॥
'आशि०' उदियादिति । एवं समियात्, अन्वियात् । 'दीर्घवि०' (४।३।१०८) इति दीर्घत्वेऽनेन ह्रस्वः । आशिषीति किम् ? उदीयते । उपसर्गादित्येव ईयात् । ई इण इति इकारप्रश्लेषात्
आ ईयात् एयात् समेयादित्यत्र न भवति । ननु प्रतीयादित्यत्र समानलक्षणे दीर्घ सति कथं न २५हस्वः । नैवम् । दीर्घ सति उपसर्गात्परस्य इणो धातोरभावात् । केचिदत्रापीच्छन्ति प्रतियात् ।
इकोऽपि समानदीर्घत्वे इच्छन्त्येके अधियात् । शेषं प्राग्वदिति । उपसर्गात्परस्य इण आशिषं विनान्यत्र कुत्रापि विशेषो नास्तीति भावः । 'दृवृग्०' (५।१।४०) इति यापवादे क्यपि इत्यः । 'तन्व्यधी०' (५।१६४) इति णे अत्यायः प्रत्यायः । लिहायचि अयः समयः प्रत्ययः । 'गत्यर्थ०' (५।१।११)
इति वा कर्तरि क्ते मार्गमतीतः । 'वेयिवद०' (५।२।३) इति निपातनाद्भूतमात्रे कसौ, नित्यत्वात् ३० द्वित्वात्प्रागेव 'घसेकस्वर०' (४।४।८२) इतीटि ईयिवान समीयिवान् उपेयिवान् । 'जीण्दृक्षि०'
(५।२।७२) इति ईनि अयनशीलोऽत्ययी । 'सृजीण०' (५।२।७७ ) इति ष्ट्वरपि इत्वरः इत्वरी।
मनि स्वेमा । वनि स्वेवा । क्वनिपि स्वित्वा । विचि स्वेः किप्येतीति इत् । 'युवर्ण०' (५।३।२८) ३३ इत्यलि अयः । अन्वयः । समयः । इणोऽभ्रेषे इत्यलपवादे घधि न्यायः । स्थितेरचलनमभ्रेषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org