________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदादयः परस्मैपदिनः
६३५ आख्यत् । आचख्यौ । 'समः ख्यः' (५।११७७) इति डे अश्वसः । 'दश्चाङ' (५।१।७८) इति डे स्त्रियमाचष्टे रुयाख्यः । प्रियमाचष्टे प्रियाख्यः । इत्यादन्ताश्चतुर्दशानिटश्च ।।
इंण्क् इति । णित्त्वमिण इत्यादौ विशेषणार्थम् । एतीत्यादि स्पष्टम् ॥ ६ ॥ वर्तमानान्यदर्थबहुवचने सूत्रम् ।
ह्विणोरप्विति व्यौ ॥७॥ [ सि० ४।३।१५ ] होरिणश्च नामिनः स्वरादावपित्यविति यथासङ्ख्यं व्यौ स्याताम् । यन्ति । एषि इथः इथ । एमि इव इम १ । इयात् इयाताम् इंयुः २। एतु-इतात् इताम् यन्तु । इहि-इतात् इतम् इत । अयानि अयाव अयाम ३॥७॥
'द्विणो०' व्यौ स्यातामिति । वकारयकारावादेशावियुवोरपवादौ भवतः । यथा यन्ति यन्तु इत्यादि । व्यतिप्रतियीरन् ज्ञानार्थत्वात् 'क्रियाव्यतिहार०' (३।३।२३) इत्यात्मनेपदे अनेनेणो यत्वे १० रूपम् । मा स्म यन् । यन् यन्तौ यन्तः। शितीत्येव । ईयतुः । स्वरादावित्येव । इतः । अवितीति किम् ? पुस् अजुहवुः । वित् अयानि । आयन इत्यत्र तु 'एत्यस्ते०' (४।४।३०) इति वृद्धिरेवापवादत्वात् ॥ ७ ॥ हस्तन्यां सूत्रम्
एत्यस्तेर्वृद्धिः ॥ ८॥ [सि० ४।४।३०] इणिकोरस्तेश्चादेः खरस्य हस्तन्यां वृद्धिः स्यात् । अमाङा । यत्वाल्लुगपवादोऽयम् । ऐत् ।१५ ऐताम् आयन् । ऐः ऐतम् ऐत । आयम् ऐव ऐम ४ । पिवैतिदेति सिज्लोपे ॥८॥ _ 'एत्यः' 'अड्धातोः' इतिसूत्रादनुवर्त्तमान आदिशब्दः प्रथमान्तोऽप्यत्र षष्ठ्यन्ततया परिणमते । अर्थवशाद्विभक्तिपरिणाम इति । तथा चाह । आदेरिति यथा आयन अध्यायन आस्ताम् आसन् । अमाडेत्येव । मास्म भवन्तो यन् । मास्म भवन्तः सन् । यत्वे कृतेऽल्लुकि च स्वरादित्वाभावात् 'स्वरादेस्तासु' (४।४।३१) इति वृद्धिर्न प्राप्नोतीति वचनम् । विषयविज्ञानात्परत्वात्प्रागेव २० वृद्धौ कुतो यत्वाल्लुकोः प्राप्तिरिति चेत् । सत्यम् । इदमेव वचनं ज्ञापकम् कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये वृद्धिस्तद्वाध्योऽट् च भवति । तेन ऐयरुः अध्ययतेत्यादावियादेशे सति वृद्धिः सिद्धा । अचीकरदित्यादौ च दीर्घत्वमटि तु स्वरादित्वात्तन्न स्यात् । यत्वाल्लुगपवादोऽयमिति । अयमर्थः । इणो ह्विणोरप्विति व्यौ इति यत्वे प्राप्ते तत्साहचर्यादिकोऽपि 'इको वा' (४।३।१६) इति यत्वे कर्त्तव्ये अस्तेश्च 'भास्त्यो क्' (४।२।९०) इत्यल्लुकि प्राप्तायां वचनमिदम् । तेनेकः पक्षे यत्वाभावे अध्ययन इत्यत्र २५ इति सति 'स्वरादेस्तासु' इति वृद्धिः॥ ८॥ अद्यतन्यां सूत्रम्
इणिकोर्गाः ॥ ९॥ [सि० ४।४।२३] इणिकोरद्यतन्यां विषये गाः स्यात् । अगात् अगाताम् अगुः ५ । द्वित्वे द्वितीयस्य वृद्धावायादेशे ॥९॥
'इणि.' अद्यतन्यां विषय इति । अत्र विषयव्याख्यां विनाऽगादित्यादिषु सिचो लुपि स्यानत्व-३० गायीत्यत्र बिचा व्यवधानात् । अगादित्यादि । एवं अगायि भवता । अध्यगात् अध्यगाताम् अध्यगुः । अध्यगायि भवता ॥ ९॥ परोक्षायां सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org