________________
६३४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुस्तस्य नत्वे द्राणः द्राणवान् । तृनि द्राणशीलो दाता । 'शीशद्धा.' (५।२।३७) इत्यालौ निद्राणशीलो निद्रालुः । द्रायतेरेवालुन तु द्रातेरित्यन्ये । '३ स्वप्ने द्रायति । प्रांक इति क्ते 'व्यञ्जनान्तस्था०' इति तस्य नत्वे प्राणः। 'आतो ड०' (५।११७६) इति डे गोष्पदनं वृष्टो देवः । एकेन गोष्पदप्रेण । वांक इति । णौ 'वो विधूनने जः' (४।२।१९) इति जे पक्षणोपवाजयति । विधूननादन्यत्र ५'अतिरी.' (४।२।२१) इति णौ वापयति केशान् । 'निर्वाणमवाते' (४।२।७९) इति निपातनात् क्तस्य नत्वे निर्वाणो भिक्षुः । वाते तु निर्वातो वातः, निर्वातं वातेन । 'अवर्णादन०' (२।१।११५) इति वान्तादेशे वाती वान्ती स्त्री कुले वा । उणादौ कृवापाजि० (१) इत्युणि वायुः । दम्यमि० (२००) इति ते वातः । अर्तीरि० (३३८) इति मे वामः । मन् (९११) इति मनि वामा ।
मत्वर्थीये ने वामनः । पांक इत्यादि । 'ईय॑ञ्जने०' (४।३।९७) इत्यत्र गास्थासहचरितस्य १० पिबतेर्ग्रहणात् क्ये इत्वाभावे पायते । णौ 'पातेः' (४।२।१७ ) इति ले पालयति । 'आतो ड०' इति
डे नृपः । 'स्थापा०' (५।१।१४२) इति के अधिपः । शतरि नखादित्वाददभावे नपात् । उणादौ भीण्शलि० (२१) इति के पाकः वालः । स्त्रियां 'वयस्यनन्त्ये' (२।४।२१) इति ड्यपवादे 'अजादेः' (२।४।१६) इत्यापि पाका । भापा० (२९६) इति पे पान्ति तस्मादात्मानमिति पापम्
भीमादित्वादपादाने साधुः । नीदांक्शसूयुयुजस्तुतुदमिहपतपानहस्त्रट (५।२।८८) इति त्रुटि पात्रम् । १५(४४६) पातेर्वा (६५९) इति वा कित्यतौ पतिः पातिः । पातेरिच्च (८५८) इति तृः पिता ।
खुरक्षुर० (३९६) इति निपातनात् विप्रः । मन् (९११) इति मनि पामा । मत्वर्थीये ने पामनः । पातेर्जस्थसौ (९७७ ) पाजः बलम् । पाथः जलम् । पातेईम्सु (१००२) पुमान् । 'पा पाने' इत्यस्य पिबति पैं शोषणे' इत्यस्य पायति । लांक आदाने । 'आतो ड०' इति डे बहुलः।
णौ 'लोलः' (४।२।१६) इति वा ले घृतं विलालयति । पक्षे 'अतिरी०' (४।२।२१) इति पौ २० घृतं विलापयति । क्ते बिलातः । 'रांक दाने' आदानेऽपीति कश्चित् , रातुं वारणमागतः । उणादौ
भीण्शलि० (२१) इति के राका पूर्णिमा । राशदि० (६९६) इति त्रौ रात्रिः । राते? (८९६) राः धनम् । मांक माने इति मानं वर्त्तनम् । माति पात्रे । 'नेमादौ० (२।३७९) इत्यत्र डोपलक्षितस्य मो ग्रहणान्नेर्णत्वाभावे प्रनिमाति । क्ये 'ईय॑ञ्जने' (४।३।९७) इतीत्वे मीयते । मातेरीत्वं नेच्छन्त्येके तन्मते मायते । सनि 'मिमीमादामि०' (४।१।२०) इति स्वरस्य २५ इत्वे मित्सति । ये त्वस्येत्वं नेच्छन्ति तन्मते मिमासति । 'दोसोमा०' (४।४।११) इतीति मितः मितवान् । मातेरित्वं नेच्छन्त्येके तन्मते मातः मातवान् । शतरि 'अवर्णादन०' (२।१।११५) इति वान्तादेशे माती मान्ती स्त्री कुले वा । उणादौ स्थाछा० (३५७) इति ये माया । हुयामा० (४५१) इति त्रे मात्रा । शामा० (४६२) इति ले माला । मावावदि० (५६४) इति से मासः । मेरुरिति तु मीनातेः चिनीपी० (८०६) इति रौ । चन्द्रमा इत्यपि ३० चन्दो रमस् ( ९८६) इति । दांवक् इति । वकारो 'अवौ दाधौ दा' ( ३।३।५) इति विशेषणार्थः । दाति क्षेत्रम् । दायन्ते ब्रीयः । अत्रावावित्यत्र वितो वर्जनादासंज्ञाया अभावे 'ईय॑ञ्जने' (४।३।९७ ) इति ईर्न भवति । अनिट्त्वात् दाता दातुम् । 'नीदांव' (५।२।८८) इति करणे त्रटि दात्रम् । किन्त्वाशिषीति मेयादित्यत्र 'गापास्थासादामाहाकः' (४।३।९६) इत्येत्वं स्यात् ।
दायादित्यत्र दासंज्ञाया अभावादेत्वं न स्यादित्यर्थः । ३५ इत्यादय इति वचने 'ख्यांक प्रकथने' । ख्याति । 'शास्त्यसूवक्ति०' (३।४।६० ) इत्यङि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org