________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अदादयः परस्मैपदिनः 'वा द्वि०' सूत्रं स्पष्टम् । 'य एच्चातः' (५।१।२८) इति ये प्सेयम् । 'उपसर्गादातः' (५।३। ११०) इति डे प्रप्सः । 'तन्व्यधी०' (५।१।६४) इति णे प्सायः । उणादौ श्वन्मातरिश्वन ० (९०२) इति (अनि) निपातनात् विश्वप्सा अग्निः कालश्च । 'भांक दीप्तावि'त्यादि स्पष्टम् । अनटि 'न ख्यागपूग्०' (२।३।९० ) इति प्रतिषेधात् 'खरात्' (२।३।८५) इति णेर्वेति च णत्वाभावे प्रभानम् प्रभापना । शतरि यां, 'अवर्णादन०' (२।१।११५) इति वान्त इत्यादेशे भान्ती ५ भाती स्त्री कुले वा । त्यपवाद 'उपसर्गादातः' इत्यङि प्रभा विभा । 'मृगयेच्छा०' (५।३।१०१) इति निपातनादङि भा । भाः भासाविति तु भासेः विपि । उणादौ दाभाभ्यां नुः (७८६) भानुः । भातेर्डवतुः (८८६) भवान् । स्त्रियामुदित्त्वात् ङ्यां भवती। 'यांक प्रापणे' इत्यादि व्यक्तम् । 'यायावरः' (५।२।८२) इति निपातनाद्यङन्ताद्वरे यायायनशीलो यायावरः । गत्यर्थे वा कर्त्तरि संयातः । 'अजातेः शीले' (५।१।१५४) इति णिनि प्रयायी । गम्यादित्वाद्वर्त्यति साधुः । ‘णिन् १० चावश्यक०' (५।४।३६) इति णिनि यायी । उणादौ हुयामा० (४५१) इति त्रे यात्रा। यापाभ्यां द्वे च (७१४) इति किदीः ययी रविः । हनिया० (७३३) इति कित्यौ द्वित्वे च ययुः अश्वः । पीमृगमित्रदेवकुमारलोकधर्मविश्वसुस्नाश्मावेभ्यो यः (७४१) इति कित्यौ पीयुः उलूकः । मृगयुर्व्याधः इत्यादि । कृसिकमि० (७७३) इति तुनि यातुः राक्षसः । अर्तीरि० (३३८) इति मे यामः । मन् (९११) इति मनि यामा । बहुव्रीहौ सुयामा नाम कश्चित् । ष्णांक इति षोपदे-१५ शत्वात् 'नाम्यन्तस्था०' (२॥३॥१५) इति षत्वे सिष्णासति । णौ 'ज्वलबल' (४।२।३२) इत्यनुपसर्गस्य वा हस्खे स्वपयति । सोपसर्गस्य तु ह्रस्वाभावे प्रस्नापयति । णके स्नापकः । 'कर्मजा तृचा च' (३।१४८३ ) इति प्रतिषिद्धोऽपि याजकादित्वात्षष्ठीसमासः राजस्नापकः। 'निनद्या.' (२।३।२०) इति षत्वे निष्णातः निष्णः नदीष्णातः नदीष्णः । कौशलादन्यत्र षत्वाभावे नदीनः । स्थादित्वात्के प्रस्नाति तत्रेति प्रश्नः । एवं प्रतिस्नः । कुत्सादिकपिभीरुष्ठानादित्वात्पत्वे च २० प्रतिष्णिका । 'प्रते: स्नातस्य सूत्रे' (२।३।२१) इति पत्वे प्रतिष्णातम् । 'स्नानस्य नाम्नि' (२।३।२२) प्रतिष्णानं सूत्रम् । उणादौ स्नामदि० ( ९०४) इति वन्प्रत्यये लावा सिरा नदी च । 'पुणे वेष्टने' इत्यस्य तु स्नायति । कृवापा० (१) इत्युणि स्नायुः । 'श्रांक पाके' इति । श्राति पच्यते स्वयमेवेत्यर्थः । पाके घटादित्वाण्णौ हखे श्रपयति । पाकादन्यत्र ह्रस्वाभावे श्रापयति । 'श्रः शृतं हविः क्षीरे' (४।१।१००) श्रातेः श्रायतेश्च क्तप्रत्यये हविषि क्षीरे चाभिधेये २५ शृभावो निपात्यते । शृतं हविः । शृतं क्षीरं स्वयमेव । श्राति श्रायती हि अकर्मको कर्मकर्तृविषयस्य पचेरर्थे वर्तेते, तयोश्चैतन्निपातनम् । हविः क्षीर इति किम् ? श्राणा यवागूः । 'व्यञ्जनान्तस्था०' (४।२१७१ ) इति क्तस्य नत्वम् । श्रपेः प्रयोक्त्रैक्ये' (४।१।१०१) श्रातेः श्रायतेर्वा ण्यन्तस्यैकस्मिन् प्रयोक्तरि क्ते परतो हविषि क्षीरे चाभिधेये शृभावो निपात्यते । श्राति श्रायति वा हविः स्वयमेव । तच्चैत्रेण प्रायुज्यत शृतं हविश्चैत्रेण । शृतं क्षीरं चैत्रेण । यदा तु द्वितीये प्रयोक्तरि णिगु-३० त्पद्यते तदा न भवति । श्रपितं हविश्चैत्रेणेति । हविः क्षीर इत्येव श्रपिता यवागूः । अन्ये तु श्रपिं चुरादौ पठन्ति तस्यैव अपेनिपातनम् । प्रयोजकण्यन्तस्य त्वेकस्यापि प्रयोगं नेच्छन्ति । तन्मते कर्मकर्तृ हविः श्रातुं चैत्रः प्रयुक्तवानिति प्रयोजकव्यापारे णिगि अपितं हविश्चैत्रेणेत्येव भवति । अपरे तु सकर्मकावपि श्राति श्रायती इच्छन्ति । तन्मते तयोरप्यण्यन्तयोनिपातनं भवति । शृतं हविश्चैत्रेण । ण्यन्तयोस्तु न भवत्येव । श्रयितं हविश्चैत्रेण मैत्रेणेति । द्रांक कुत्सितगताविति कुत्सिता गतिः पलायनं स्वप्नश्च । 'नेमादा०' (२।३।७९) इति णत्वे प्रणिद्राति । 'व्यञ्जनान्तस्था०' (४।२।७१) इति क्तयो-३६
है. प्रका० उत्त० ८०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org